वल्लालचरित · अध्याय 2.4
इत्यानन्दभट्टप्रोक्ते वल्लालचरिते सुन्दरीसमागमो नाम तृतीयो ऽध्यायः ।
चतुर्थो ऽध्यायः
ततः कालेन कियता क्रीडारत्नसमुत्सुकः ।
एकदान्तःपुरं राजा विवेश रजनीमुखे
प्रविश्य शयनागारं दयितां भूमिशायिनीम् ।
ददृशे सुकुमाराङ्गीं कृत्तमूललतामिव
वाससा मुखमाच्छाद्य रुदतीं कमलेक्षणाम् ।
अदुःखार्हां प्रियतरामात्मनो जीवितादपि
तां दृष्ट्वा मलिनाकारां लुठन्तीं धरणीतले ।
जुघूर्ण मस्तकं तस्य नेत्राभ्यां ददृशे तमः
विस्मयानो नरपतिस्तस्या नयनजं जलं ।
परिमृज्याकुलीभूतः सभयं वाक्यमब्रवीत्
राजोवाच:
किंन्विदं मृगशावाक्षि नेत्राभ्यां स्रवते जलम् ।
अवाङ्मुखी किमर्थं त्वं भूमावेव विलुण्ठसे
नत्वहं विप्रियं किञ्चिदकार्षं तव भामिनि ।
क्रन्दनेन दुःखयसे कथं मां तनुमध्यमे
कथं कौसुम्भवसनं सौवर्णम्बा शुचिस्मिते ।
नानुगृह्णासि सुश्रोणि मणिवीजपयोधरे
[[026]]
धम्मिल्लरचना सुभ्रु मल्लीदाम्ना सुगन्धिना ।
कुचयोश्चन्द्रलेखेव पत्राङ्का च न कारिता
पुरानितम्बसंसर्गात् यत्ते सारसनोत्तमम् ।
शोभितं नाधुना भूमौ पतितं तद्विराजते
मक्तावली भ्राजते न च्युता तव कुचद्वयात् ।
ग्रैवेयकं च्युतं कण्ठादनाभरणतां गतम्
पूर्णिमाकौमुदीकान्तिनिर्ज्जितस्मितशोभिना ।
किं नो वदसि वक्तेन कुशेशयसुगन्धिना
सर्व्वथाम्बुजपत्राक्षि तवास्मि वचनङ्करः ।
प्रतीक्षन्ते तवादेशं मज्जनाश्च सदा प्रिये
कथं नादिशसे प्राग्वत् स्मितपूर्व्वाभिभाषिणि ।
प्रपन्नं प्रपदे प्राप्तं दासं हिमकरानने
त्वत्त्वः प्रियतरा नान्या वर्त्तते मम सुन्दरि ।
त्वं हि मे जीवनं प्राणाः त्वं हि मे परमा गतिः
श्रवणामृतवाक्येन मां जीवय सुहासिनि ।
कायस्थञ्चाप्यकायस्थं स्फुरन्तमपि मां मृतम्
दास्ये प्रत्ययकारिण्याः कोटिं प्रत्ययकारिणि ।
रत्नालङ्कारभारं वा यत्ते मनसि वर्त्तते
अप्यहं लक्ष्मणं जह्याम् त्वत्प्रियार्थं वरानने ।
गाङ्गेयं सागरं बाले प्रविशेयम् हुताशनम्
[[027]]
किमाभीलकारणं ते जीवितेश्वरि कथ्यताम् ।
तत्प्रियं प्राकरिष्यामि शपे ते ललिताङ्घ्रिणा
निरीक्षसे किं न सुभ्रु प्रेष्य मां तव सुन्दरि ।
केनावमानितासि त्वमग्नौ कः शलभायते
अनाट्यः को भवेदाढ्यः आढ्यो यायादनाट्यताम् ।
को वद्धो मुच्यतामद्य को ऽवध्यो वा निहन्यताम्
श्रुत्वैवं भाषितं तस्य कामस्य वशवर्त्तिनः ।
साभिमानवती राज्ञः स्थिता नतमुखी तदा
व्यावृत्तवदनं रामा किञ्चित् साचीकृतेक्षरणा ।
सकृद्विलोक्य नृपतिं तस्थौ नतमुखी पुनः
श्वासकम्पदृढोरोजा स्फुरद्विम्बाधरा ततः ।
परिमृज्याञ्चलेनास्रं बभाषे गद्गदस्वना
पद्माक्ष्युवाच:
यदि ते मत्प्रियं कार्य्यं मां प्रेषय पितुर्गृहम् ।
दुःखार्हां दुःखिनीं नाथ काननान्तरचारिणीम्
भोगिनीं कृपाणां मां मन्नामधेयञ्च विस्मर ।
राज्यं भुङ्क्ष्व महाराज मां विहाय सुखं सदा
प्राप्तोसि सुमहद्दुखं नृपते मम कारणात् ।
देशदेशान्तरे कान्त मद्धैतोस्त्वं कलङ्कभाक्
[[028]]
राज्ञां वा राजपुत्राणां प्राज्ञानामभिजन्मनाम् ।
पुरा नाज्ञासिषं नाथ प्रकृतिं वनचारिणी
अद्य लोकचरित्राणां जाताभिज्ञावनीपते ।
जीवेयं यदि पश्येयं तदा किं किं न किल्बिषम्
धनादौ नहि मे कार्य्यं किमलङ्करणादिना ।
पतित्वा धवलेश्वर्य्यां निमज्जेयमहं ध्रुवम्
एवं विलपमानां तां वल्लालः क्षौणिपालकः ।
प्रवेशयन् वक्षसीव तां पुनर्वाक्यमब्रवीत्
राजोवाच:
शिरो मे घूर्णते जाये वदनञ्च विशुष्यति ।
किमु तत्कारणं यस्मात् त्वमेवं भृशमाकुला
त्वं हि मे जीवनं पत्नि त्वं हि मे परमं तपः ।
त्वमेव मे राजधर्म्मः प्राणानामीश्वरी च मे
त्वया हीनं न काङ्क्षेयं काञ्चीशत्वमपि प्रिये ।
त्वया सह विशालाक्षि वने वासो वरं मम
प्राणा अपि मया शक्यास्त्यक्तुं न त्वां कदाचन ।
शक्नुयामसितापाङ्गि कलङ्केषु च का कथा
[[029]]
पादानतं महादेवि किं नानुकम्पसे पतिम् ।
प्राणैर्म्मम शापितासि वद त्रैलोक्यसुन्दरि
त्वमेव महिषी राज्ञि भर्त्ताहं ते महागुरुः ।
आचक्ष हृद्गतं भावमेषोहं विहिताञ्जलिः
पतामि त्वत्पदौ मूर्द्ध्ना कस्मान्न दयसे पतिम् ।
भक्तमन्यास्वनासक्तं प्रसीदाम्बजलोचने
एवं तदा व्याहरन्तं राजानमुत्पलेक्षणा ।
उवाच दारुणं वाक्यमुच्छसन्ती मुहुर्मुहुः
राज्ञ्युवाच:
अवक्तव्यमपि स्वामिन् त्वां वदामि शृण प्रभो ।
आकर्ण्य च प्राणनाथ यत्कर्त्तव्यं तदाचर
भर्त्ता हि रक्षकः स्त्रीणां युवतीनां विशेषतः ।
भर्त्तारं यदि नो वच्मि कं वदामि सयौवना
भर्त्ता गतिर्हि नारीनां भर्त्ता परमदेवता ।
ब्राह्मणस्य मुखात् पित्रालये देव मया श्रुतम्
पातिव्रत्यं परो धर्म्मः श्रयते योषितामिति ।
नाहमत्याचरामि त्वां मनसापि कदाचन
नाहं प्राकृतनारीव पतिभक्तिविवर्ज्जिता ।
हृत्पद्मासनमास्थाप्य सदा त्वां पूजयाम्यहम्
येनाहं सततं पूज्या प्रणिपातेन भक्तितः ।
तेनाहं नीचवृत्तेन विमार्गेणावमानिता
[[030]]
धिक् तं स किल्विषाचारः कामान्धो व्यत्थितेन्द्रियः ।
मातरं यः कामयते दुरात्मा मां पतिव्रताम्
अद्य साहं गता नाथ पायुक्षालनमन्दिरम् ।
एकाकिनीमसौ दृष्ट्वा स्मयन्ननुससार माम्
भीतया यन्मयाहूता सखी तत्र द्रुतं गता ।
ततो दुष्टात्मना नाथ न तेन मलिनीकृता
धर्मेण रक्षिता साहं त्वाम् वदामि यथायथम् ।
कम्पन्ते मम गात्राणि स्मृत्वा तस्य कुचेष्टितम्
भीतास्मि कुत्सिताचारात् तस्मादहमरक्षिता ।
विपत्स्ये निर्णायकेव चमूरायोधनं गता
इत्युक्त्वा दारुणं वाक्यं क्रूरा वल्लालवल्लभा ।
विररामोत्सृजन्त्यस्रं तदा वल्लभवक्षसि
तच्छ्रुत्वा वचनं राजा प्रियास्यकमलच्युतम् ।
कोपेनासौ प्रजज्वाल दावेनेव धराधरः
तदा क्रुद्धस्य म्लेच्छास्यसदृशास्यमहीक्षितः ।
स्फुरत् सर्व्वाङ्गस्य नेत्रयुगलं लोहितायते
तां वारणवल्लभोरु वल्लालो वल्लभां ततः ।
पुत्रे दण्डं प्रतिज्ञाय सान्त्वयामास विक्लवाम्
पुत्रदुश्चेष्टितं ध्यायन् तल्पे कोपाकुलो नृपः ।
जाग्रदेव यामिनीं तां कथञ्चिदत्यवाहयत्
मूल पाठ: Vallālacarita · Edition: Haraprasāda Śāstrī: Vallāla Caritam, Calcutta : Asiatic Society 1904 (Bibliotheca Indica, 164) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0