वल्लालचरित · अध्याय 2.5
इत्यानन्दभट्टप्रोक्ते वल्लालचरिते दयिताप्रसाधनं नाम चतुर्थो ऽध्यायः ।
[[032]]
अथ पञ्चमो ऽध्यायः
उत्थायाहर्म्मुखे राजा क्रोधमाहारयन् भृशम् ।
घातुकानादिशद्धन्तुमुपांशु तनयं प्रियम्
श्रुत्वा स्वस्य बधादेशं तपस्वी लक्ष्मणमस्ततः ।
व्याकुलो मन्त्रयामास कान्तया सह निर्ज्जने
रजन्यां गाहमानायामामन्त्र्य रहसि प्रियाम् ।
गुप्तां तरणिमारुह्य पलायत महाभयात्
प्रभातायां विभावर्य्यां ज्ञात्वा तस्य पलायनम् ।
दुर्गावाडीं ययौ राजा चिन्ताजृम्भविलोचनः
प्रविशन् मन्दिरं तत्र भित्तिकायां महीपतिः ।
स्वस्नुषालिखितं श्लोकं दृष्ट्वेममपठत् स्वयम्
पतत्यविरतं वारि नृत्यन्ति शिखिनो मुदा ।
अद्य कान्तः कृतान्तो वा दुःखस्यान्तं करिष्यति
श्लोकमेतं वाचयित्वा वल्लालो धरणीपतिः ।
पुत्रस्नेहचलच्चित्तः कैवर्त्तानाजुहाव ह
तान् प्राप्तानब्रवीद्राजा हंहो नौकर्म्मजीविनः ।
मत्प्रियं यदि कर्त्तव्यं श्रयतां वचनं मम
इतो ऽपक्रान्तस्तनयो लक्ष्मणः क्रोधलक्षणः ।
युष्मभ्यमीप्सितं दद्यामन्विष्यानयताञ्जसा
नाविका ऊचुः:
भूधरे कन्दरे दुर्गे कान्तारे सलिलेश्वरे ।
पाताले वानयिष्यामस्तिष्ठन्तमपि माचिरात्
इत्युक्त्वा चाभिवाद्याथ राजानं नाविका मुदा ।
आनेतुं लक्ष्मणं जग्मुः कृत्वा कोलाहलं भृशम्
अरित्राणां द्विसप्तत्या वाहयन्तस्तरीं द्रुतम् ।
आनिन्युर्लक्ष्मणं द्वाभ्यामहोभ्यां जालजीविनः
ततस्तेभ्यो ददौ राजा सन्तोषविमलाननः ।
धनरत्नवस्त्रभारान् हालिक्यञ्चोपजीवनम्
मूल पाठ: Vallālacarita · Edition: Haraprasāda Śāstrī: Vallāla Caritam, Calcutta : Asiatic Society 1904 (Bibliotheca Indica, 164) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0