वल्लालचरित · अध्याय 2.3
इत्यानन्दभट्टप्रोक्ते वल्लालचरिते वणिगावर्षणं नाम द्वितीयो ऽध्यायः ।
अथ तृतीयो ऽध्यायः ।
एकदारुह्य जवनमश्वं राजा यदृच्छया ।
प्रययौ धवलेश्वर्य्यास्तीन् रुचिरकाननम्
उपकूलेषु रम्येषु वनेषु सैकतेषु च ।
भ्रममाणो ददर्शासौ नदीतीरविचारिणीम्
वर्त्तुलौ स्फुटकेशोरौ दृढावविरलौ कुचौ ।
लज्जया वसनान्तेन छादयन्तीं सुलोचनाम्
सुकेशां शुद्धदशनां बालां सरसिजाननाम् ।
तन्वङ्गीं सुकोमलाङ्गीं सुनासां मृदुहासिनीम्
वृहन्नितम्बविम्बाढ्यां सुकपोलां मनोहराम् ।
स हितामेकया सख्या स्थलजामिव पद्मिनीम्
तस्याः परमकामिन्याः ललिताद्वदनाम्बुजात् ।
अपिवल्लावण्यरसं राज्ञो नयनषट्पदः
उन्मादनकटाक्षेण विविद्धाङ्गो महीपतिः ।
तां विलोक्य ययौ तूर्णं मन्मथस्य विधेयताम्
[[022]]
उपप्रयाय सुश्रोणिं स तां पद्मनिभेक्षणाम् ।
पश्यन्नेव निर्निमेषं तिष्ठन्तीं वाक्यमब्रवीत्
राजोवाच:
नेत्रेण नीलकमलं कमलं मुखेन
कुन्देन दन्तमधरेण सुपक्वविम्बम् ।
गात्रेण चम्पकदलं परिभूय भासि
का त्वं सरित्तटवने वनदेवतेव
सामन्तसङ्घपरिसेवितपादपद्मो
वैधव्यकारणविधिः परसुन्दरीणाम् ।
वल्लालसेननृपतिस्तव कुन्ददन्ति
यातो विधेयविषयः कुरु नेत्रपातम्
तच्छ्रुत्वा जातरागा सा भावमावृण्वती तदा ।
किञ्चिदवाङ्मुखी प्राह नृपतिं मृदुसुस्वना
कन्योवाच:
आचक्ष्व मैवमवनीश्वर मां कुमारीम् ।
वंशः क्व ते विधुभवः क्वच सम्भवो मे
चर्म्मारकोरितनया विदितास्मि लोके ।
नाहं त्वया ह्यकुलजा परिणेतुमर्हा
राजोवाच:
किं व्यामोहयसे बाले कोरिकन्येतिवादिनी ।
चर्म्मार्य्या ईदृशं रूपं किं स्यात् भुवनमोहनम्
चर्म्मारस्य नासि कन्या पालकः स तु केवलम् ।
राजकन्यासि भद्रे त्वं ध्रुवमेव न संशयः
को वा कापुरुषो लोके भवेदीदृक् वरानने ।
यस्त्वां निधिमिव प्राप्यामूल्यं करगतं त्यजेत्
कुलजाकुलजा वासि त्वमेव हृदयप्रिया ।
आयाहि त्वं मया सार्द्धं त्वां नयामि निजं पुरम्
तच्छ्रत्वा वचनं तस्य राज्ञः साचीकृतेक्षणा ।
सा सखीं नोदयामास वक्तुं तत्रोचितं तदा
सख्युवाच:
यद्यस्याः पाणिं विधिना ग्रहीतुं कृतनिश्चयः ।
तदैनां नय ते सार्द्धमेषात्मानं ददाति ते
राजोवाच:
गान्धर्वेण विधानेन इयं प्राप्ता स्वयंवरा ।
पतित्वेन भवाम्यस्या इयं मे जीवितेश्वरी
[[024]]
इत्युक्त्वा कोरिकन्यां स पुनरेव जगाद ताम् ।
सुमुखीं परमानन्दसन्दोहविकचाननः
राजोवाच:
चल मम साकं भव मम भार्य्या स्वारोहेदं वरयानम् ।
अवरोधे स्वामिनी च भव मम चैवान्तःपुराणाम्
इत्युक्त्वा स्मयमानस्त्वां वेपमानां समग्रहीत् ।
ससखीं याप्य यानेन निनाय विक्रमं पुरम्
ततस्तामनवद्याङ्गीं स्वस्य गेहे न्यवेशयन्
बुभुजे कामतो राजा राजकृत्ये हतादरः
अत्यन्तं लालिता सातु राज्ञा चर्म्मारदारिका ।
सिषेवे ऽवरोधमध्ये चलच्चामरमारुतम्
शुद्धान्तगतया सार्द्धं विहरन् स तया सुखम् ।
नृपतिर्बुबुधे नैव कालातिक्रमणं महत्
मूल पाठ: Vallālacarita · Edition: Haraprasāda Śāstrī: Vallāla Caritam, Calcutta : Asiatic Society 1904 (Bibliotheca Indica, 164) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0