वल्लालचरित · अध्याय 2.23
इत्यानन्दभट्टप्रोक्ते शरणदत्तीये वल्लालचरिते वणिजावमाननं नाम द्वाविंशो ऽध्यायः ।
अथ त्रयोविंशो ऽध्यायः
अथान्येद्युः सभासीनमभ्येत्य पृथिवीश्वरं ।
ऊचे भूमिन्यस्तजानुर्भीमो नृपतिवल्लभः
देव सर्व्वे शूद्रगण भोजनैः परितोषिताः ।
सुवर्णा वणिजो दर्पादभुक्त्वैव विनिर्गताः
वणिजो ऽतिदुरात्मानो ऽविनीताः कुलगर्व्विताः ।
ब्रह्मक्षत्रपंक्तिभोज्यं ते काङ्क्षन्ति दुराशयाः
भोज्यभूमिं विलोक्यापि विहीनं वृषलैर्जनैः ।
श्रीमन्तमवजानन्तो गतवन्तो यथागतम्
सर्व्वेषां वणिजां नेता वल्लभः स दुराशयः ।
पालैर्हृतो महाराज त्वया सह विरुध्यते
वर्णमानो ऽस्य भवति जामाता मगधेश्वरः ।
धरां स मन्यते तेन शरावमिव गर्वितः
एतदाकर्ण्य नृपतिर्भीमसेनवचस्तदा ।
ज्वलनो हवनेनेव प्रजज्वाल स मन्युना
दन्तान् कटकटाय्यासौ राजा राजासनोपरि ।
चकाशे गगणरूढस्तडित्वानिव घोषवान्
पपात मस्तकात्तस्य किरीटं हीरकोज्ज्वलम् ।
कम्पमानतनोः सायमुल्कापिण्डमिवाम्बरात्
[[108]]
तदानीं राजवल्लालः क्रोधघूर्णद्विलोचनः ।
वणिजां दर्पचूर्णार्थं शपथं कृतवान् भृशम्
राजोवाच:
यदि दाम्भिखान् सुवर्णान् वणिजः शूद्रत्वे न पातयिष्यामि, वल्लभचन्द्रसौदागिरस्य दुरात्मनो दण्डं न विधास्यामि, तदा गोब्राह्मणघातेन यानि पातकानि भवितव्यानि तानि मे भविष्यन्तीति । धार्त्तराष्ट्राणां विनाशाय भीमसेनेन यादृशः शपथः कृतः एतेषां पातनाय शपथो मे तादृशो ज्ञातव्यः, अद्यावधि एते सत्रे शूद्रवद्ग्राह्याः । व्यर्थमेषां यज्ञसूत्नधारणमतःपरमेतेषां याजनाध्यापने प्रतिग्रहञ्च ये ब्राह्मणाः करिष्यन्ति, ते ज्वलन्तो ऽपि पतिष्यन्ति, नान्यथा
अचिरेणायमादेशो ऽभवद्राष्ट्रे प्रचारितः ।
तच्छ्रुत्वा मन्त्रयामासु र्वणिजो मिलितास्तदा
अविचारात्ततो राज्ञः क्रोधकम्पत्कलेवराः ।
रुरुधुर्नगराद्गौडाद् दासानां व्यवसायिनः
द्विगुणं त्रिगुणं मूल्यं दासानां प्रददुर्विशः ।
दासाभावात् महाकष्टं बभूव सर्व्वजातिषु
एवम्भूते महाकष्टे प्रजावर्गैर्निवेदितः ।
कर्त्तव्यं चिन्तयामास तदानीं भुवनेश्वरः
नान्योपायं तदा दृष्ट्वा ब्राह्मणानन्वशादिदम् ।
कार्य्या लोकहितार्थाय कैवर्त्ता दास्यकर्म्मसु
दास्यकामास्तु कैवर्त्ता श्रुत्वा नृपतिशासनम् ।
आजग्मुस्ते राजकुलं शतशो ऽथ सहस्रशः
तान् चाब्रवीत्ततो राजा गलवस्त्रकृताञ्जलीन् ।
वृत्तिर्वो दीयते सेवा गच्छध्वं व्यवहारताम्
महामाण्डलिकं कृत्वा ततस्तेषां महत्तरं ।
महेशं दक्षिणाघाटे प्रेरयामास पार्थिवः
मालाकाराः कुम्भकाराः कर्म्माराश्च ततो ऽन्यदा ।
युक्तहस्ता गलेवस्त्राः पुरस्तस्थुर्महीक्षितः
सन्तुष्टः सेवया तेषां व्याजहार वचो नृपः ।
यूयं सत्शूद्रवद्ग्रह्या भवेत वचनान्मम
अशुचिर्वचनाद्यस्य शुचिर्भवति मानवः ।
शुचिश्चैवाशुचिः सम्यक् कथं राजा न दैवतम्
कालेन गच्छता राजा दासानां व्यवसायिनः ।
ब्रह्मत्वाच्च्यावयामास ब्रह्मबन्धून् सुदुर्म्मतीन्
स्वसेवायां नियुक्तश्च धावञ्चक्रे महत्तरम् ।
ठक्कुरं च चकारासौ प्रसन्नो राजनापितम्
[[110]]
अनाहतस्वधर्म्मान् स विलोक्य वणिजस्ततः ।
आदिशत् तान् नृपः सर्व्वान् यज्ञसूत्राणि वर्ज्जितुम्
त्यजन्तु यज्ञसूत्राणि वणिजो राष्ट्रवासिनः ।
त्यजेद्यो न स दण्ड्यः स्यात् सेवकान्नृप इत्यशात्
आहत्य डिण्डिमान् भृत्या नगरे नगरे विशाम् ।
राजाज्ञां घोषयामासुश्चत्वरेषु च वीथिषु
राजाज्ञामवजानन्तो धर्म्मभीता महाजनाः ।
त्वरमाणा दिशो जग्मुः सदारादिपरिच्छदाः
अयोध्यां प्रययुः केचित् केचिन्मुद्गगिरिं तथा ।
चन्द्रमायुतं पाट्लीञ्च ताम्रलिप्तीञ्च केचन
तथोदयं पुरं केचित् केचिन्मानगढं ययुः,
विनीतञ्च पुरं केचिच्छ्रिङ्खलामपि केचन
येन यातास्तु ते सर्व्वे राजदण्डभयार्द्दिताः ।
तत्यजुर्यज्ञसूत्राणि हैमानि तान्तवाणि च
तत्रानेहसि वल्लालो विलोक्य व्याकुलं कुलम् ।
ब्रह्मणाञ्च क्षत्रियाणां मन्त्रयामास वैदिकैः
विविच्य वीजमाहात्म्यं ततः संस्कारयंश्च तान् ।
ब्रह्मत्वं क्षत्रियत्वञ्च कल्पयामास स प्रभुः
मूल पाठ: Vallālacarita · Edition: Haraprasāda Śāstrī: Vallāla Caritam, Calcutta : Asiatic Society 1904 (Bibliotheca Indica, 164) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0