वल्लालचरित · अध्याय 2.24
इत्यान्दभट्टप्रोक्ते शरणदत्तीये वल्लालचरिते जातीनां पातनोन्नयनादिनाम त्रयोविंशो ऽध्यायः ।
[[112]]
अथ चतुर्विंशो ऽध्यायः
पुरा श्रीराजवल्लालो वसन् गौडे पुरोत्तमे ।
अर्हतामनुरूपाणामुपाचक्रे पृथुप्रथः
कारयित्वा मठं सौम्यं न्यस्तचित्रशिलातलम् ।
पक्वेष्टकामयं दिव्यं शयनासनसंयुतम्
सुभौमं चित्रशालाढ्यम् दृढस्तम्भम् मनोहरम् ।
न्यस्तग्रन्थाधारभूतप्रत्यग्रनागदन्तकम्
नानापुष्पफलालोलरम्यारामविभूषितम् ।
अत्यच्छस्वादुपानीय-सम्पन्नसलिलाशयम्
द्वारवातायनोपेतं नानोपस्करसंयुतम् ।
सुधोपलिप्तम् श्वेताभम् सदन्नादिप्रपूरितम्
व्याख्यानध्यानहोमादिपठनस्थलशोभितम् ।
यतीनां पथिकानाञ्च वासवेश्मसमन्वितम्
गुह्यापचरकैर्युक्तं प्रद्युम्नेश्वरसन्निधौ ।
योगिनः श्रीसिंहगिरेर्विधिनासौ न्यवेदयत्
कौपीनेन्धनवस्त्रादिवस्तूनां प्राप्तये तथा ।
प्रददौ विपुलां भूमिं राजा श्रद्धासमन्वितः
ततः सर्व्वगुणोत्कर्षशुद्धबुद्धिर्नृपोत्तमः ।
ताम्रपट्टे कारयित्वा शासनं परशासनः
सुवर्णमुक्तिकस्यान्तर्ग्रामं कासारकं ददौ ।
वर्षवृद्धौ महाराजो गौतमानन्तशर्म्मणे
उपकृप्तभक्ष्यभोज्यसर्व्वधान्यसमन्वितम् ।
दासदासीसमायुक्तं सर्व्वोपस्करसंयुतम्
सुधावलिप्तं सुदृढं कपाटार्गलयन्त्रितम् ।
शुभप्रवेशनिष्काशं जालादिपरिशोभितम्
एवंविधं कारयित्वा बहुशो भवनं नृपः ।
दाक्षिणात्यान् ततस्तेषु वासयामास भूसुरान्
स्वर्णदानं रौप्यदानं गोदानञ्च धरापतिः ।
दानञ्च विविधञ्चक्रे नित्यनैमित्तिकादिकम्
नानोपभोगानुपभुञ्जतः सत्पात्रेषु दानं ददतश्च नित्यम् ।
जगाम कालः सुखतः समानो भूतो न कश्चिद्भवितास्ति चास्य
[[114]]
न येन भुक्ताः सुखदाः सुभोगाः दानं न दत्तं धनिनार्हताञ्च ।
अवाप्यते तेन कठोरघोर दुःसह्यदुःखमधिकं परत्र
मूल पाठ: Vallālacarita · Edition: Haraprasāda Śāstrī: Vallāla Caritam, Calcutta : Asiatic Society 1904 (Bibliotheca Indica, 164) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0