भाषा

ENहिગુ
ग्रंथ पाठ

वल्लालचरित · अध्याय 2.22

2.22.1

इत्यानन्दभट्टप्रोक्ते शरणदत्तीये वल्लालचरिवे यज्ञोत्सवो नाम एकविंशो ऽध्यायः ।
अथ द्वाविंशो ऽध्यायः
ज्ञातयश्च कुटुम्बाश्च मिलिताश्च ततो ऽन्यदा ।
भोज्यशालां प्रविविशूराणका राजपुत्रकाः

2.22.2

आसनेषूपविष्टेषु ततस्तेषु महात्मसु ।
भुज्यमानेषु सर्वेषु वल्लालेन मुदा सह

2.22.3

सत्शूद्राणां गणास्तत्रापरा भोजनशालिकाः ।
स्पर्द्धया विविशुर्भोक्तुं विशां न दृश्यते स्थली

2.22.4

तस्मिन्नवसरे वैश्या मन्त्रयन्तः परस्परम् ।
उत्तस्थु र्निर्य्यातुकामास्तदानीं राजसद्मनः

2.22.5

यदा केचिद्वहिर्याताः केचिद्वा गमनोद्यताः ।
तदा ताननुगत्याह भीमसेनो विनीतवत्

2.22.6

अनाहाराः किमर्थं भो निर्गच्छथ महाजनाः ।
अस्मासु वो यदाकूतं सर्व्वथार्हथ भाषितुम्

2.22.7

तच्छ्रुत्वा वणिजः प्राहुः श्रूयतां भो महाशय ।
स्पृष्टास्पृष्टिः समभवत् तदर्थं भोक्तुमक्षमाः

2.22.8

अनाहत्य यतस्तेषां भीमसेनो ऽतिकोपनः ।
शूद्राणामीदृशी स्पर्द्धा इत्युक्त्वा तानवाक्षिपत्

2.22.9

[[106]]
ततो वादातिवादाश्च बभूवुः कुपितस्तदा ।
भीमसेनो ऽब्रवीद्वाक्यं परुषं राजवल्लभः

2.22.10

ततस्ते वणिजः सर्व्वे निर्ययूराजसद्मनः ।
आक्रोशन्तो विक्रोशन्तो वर्षान्ते वारिदा इव

मूल पाठ: Vallālacarita · Edition: Haraprasāda Śāstrī: Vallāla Caritam, Calcutta : Asiatic Society 1904 (Bibliotheca Indica, 164) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc