भाषा

ENहिગુ
ग्रंथ पाठ

वल्लालचरित · अध्याय 2.21

2.21.1

इति वल्लालचरिते व्यासपुराणे रुद्रगीतोपनिषत्सु विंशो ऽध्यायः ।
[[100]]
एकविंशो ऽध्यायः
सिंहगिरिरुवाच:
एतत्ते कथितं व्यास पुराणं मनुजेश्वर ।
राजर्षिभ्यो यथा प्राह पुरा व्यासो महामुनिः

2.21.2

भुङ्क्ष भोगान् यथाकामं पित्ःन् देवान् च तर्पय ।
ब्राह्मणांश्च प्रजानाथ दानैर्वहुविधैः सदा

2.21.3

कुरुपितृपिण्डयज्ञं सह राज्ञ्या नवीनया ।
शिलादेव्या महीपाल तस्यां पुत्रो भविष्यति

2.21.4

तुलापुरुषदानञ्च यज्ञे तत्र परन्तप ।
विधत्स्व नियतः कृच्छ्रञ्चरित्वा धरणीपते

2.21.5

स्वस्त्यस्तु ते गमिष्यामि जगन्नाथपुरीं प्रति ।
पुनरेवागमिष्यामि यदा मां संस्मरिष्यसि

2.21.6

शरणदत्त उवाच:
आख्यायैवं पार्थिवाय मुनिः सिंहगिरिस्ततः ।
जगाम तैर्वृतः शिष्ये र्यैः स राजन् समागतः

2.21.7

गते सिंहगिरौ राजा चिन्तयन् मनसि क्षणम् ।
पिण्डयज्ञे च दानेषु मनो दध्रे पुनः पुनः

2.21.8

यज्ञादीनां फलं ध्यायन् मन्त्रिणा च पुरोधसा ।
वलदेवेन विप्रैश्च मन्त्रयामाश्च पार्थिवः

2.21.9

मन्त्रयित्वा ततो राजा तदानीं ब्राह्मणैः सह ।
यज्ञञ्च दानानि कर्त्तुं करणाण्युपचक्रमे

2.21.10

आज्ञापयत् ततो भूप आदिदेवं रहस्विनम् ।
मन्त्रिणं सद्गुणैर्युक्तं कर्त्तव्यानि च सर्व्वशः

2.21.11

राजोवाच:
आनयन्तु यथा प्रोक्तं वलदेवादिभिर्द्विजैः ।
सर्व्वद्रव्यं यथायोगं यज्ञे चैव विहापिते

2.21.12

हरदासो विष्णुदासो दुर्गासिंहश्च सत्वरम् ।
अन्नादीनाञ्च सम्भारान् शकटैश्च यथाक्रमम्

2.21.13

विधीयतां यज्ञवाटः पताकादिविभूषितः ।
कार्य्यन्तामुपकार्य्याश्च राजन्यानां महात्मनाम्

2.21.14

शतञ्च सूत्रकण्टानां पाके च परिवेशने ।
वीणावादञ्च गायन्ताम् नृत्यन्तां नटनर्त्तकाः

2.21.15

प्रेक्षागृहाश्च कार्य्यन्तां सर्व्वान्तःपुरयोषिताम् ।
आमन्त्र्यन्तां ब्रह्मक्षत्रवेश्यसत्शूद्रजातयः

2.21.16

अन्नादिसुसमृद्धानि कार्य्यन्तां शरणान्युत ।
ब्राह्मणा वेदवेत्तारो वसेयुर्य्येषु पूजिताः

2.21.17

[[102]]
आहूय लक्ष्मणं राजा प्राहेदं वचनं ततः ।
आमन्त्रयस्व यज्ञाय गत्वा त्वं विक्रमं पुरम्

2.21.18

श्रीसुखसेनं पितृव्यं कुमारञ्च ध्रुवं तथा ।
आगच्छन्तु च सर्व्वाणि तयो रन्तःपुराणि च

2.21.19

शरणदत्त उवाच:
गत्वासौ विक्रमपुरं लक्ष्मणः परवीरहा ।
सुखमामन्त्रयाञ्चक्रे अभिवाद्य कृताञ्जलिः

2.21.20

ध्रुवश्च सुखसेनश्च सत्कृत्यामन्त्रितो मुदा ।
यज्ञाय जग्मतुर्गौडं गृहीत्वान्तःपुराणि तौ

2.21.21

यज्ञं वल्लालसेनस्य संश्रुत्य वैदिका द्विजाः ।
जग्मुः प्रहृष्टमनसो यज्ञं यज्ञविदस्तदा

2.21.22

अनाहूता रवाहूता ब्राह्मणाश्च धनाशया ।
समापेतुः सर्व्वदिग्भ्यः शतशो ऽथ सहस्रशः

2.21.23

ययुः सामन्तराजानो गृहीत्वोपायनानि च ।
सानुगा विविधैर्यानैरनुभोक्तुं महोत्सवम्

2.21.24

आवसथान् ददुस्तेषां नृपतेरधिकारिणः ।
सुवहून् शोभनाकारान् भक्ष्यभोज्यसमन्वितान्

2.21.25

वल्लालं ते ततो दृष्ट्वा तेनाथ प्रतिपूजिताः ।
यथोद्दिष्टानावसथान् जग्मुस्ते मण्डलेश्वराः

2.21.26

संविश्रम्य ततः कामं राजराजन्यकादयः ।
ददृशुस्ते प्रजानाथं पाण्डवं तं सदोगतम्

2.21.27

ततो विप्रा यथाकाले वेदवेदाङ्गपारगाः ।
दीक्षयामासुर्नृपतिं वल्लालं मल्हनात्मजम्

2.21.28

सुखसेनं विष्णुमल्लं प्रत्युद्गम्य धरापतिः ।
अभिवाद्याभिवादार्हौ इदं वचनमब्रवीत्

2.21.29

धरसेनं यज्ञसेनं धर्म्मसिंहं ध्रवं तथा ।
प्रसीदन्तु भवन्तो मां यज्ञादिदानकर्म्मसु

2.21.30

एवमुक्त्वा ततस्तान् स धार्म्मिको धरणीपतिः ।
यथायोग्याधिकारेषु युयोजाधिकृतान् तदा

2.21.31

भक्ष्यभोज्याधिकारेषु भीमसेनमयोजयत् ।
अयुजद्दानाधिकारे दानाचार्य्यं वृहस्पतिम्

2.21.32

अन्येष्वप्यधिकारेषु पुरुषान् संन्ययोजयत् ।
परिग्रहे ब्रह्मक्षत्रविशां लक्ष्मणमुक्तवान्

2.21.33

राज्ञो यज्ञसभा गौडे नानापादपशोभिता ।
भ्राजिष्णु र्विश्रामवेश्मवती रम्या सुरूपिणी

2.21.34

नानारत्नैः कुप्यरत्नैः कुथैश्चित्रैर्वितानकैः ।
पर्य्यङ्कैश्च पताकाभिर्ध्वजैश्च पर्य्यशोभत

2.21.35

स्थानान्यपकल्पितानि सगणानां पृथक् पृथक् ।
ब्राह्मणानां क्षत्रियाणां वणिजाञ्चान्त्यजन्मनाम्

2.21.36

[[104]]
ब्राह्मणाः क्षत्रिया वैश्यास्तथा सत्शूद्रजातयः ।
नृपेणामन्त्रिताः सर्व्वे तत्र रासे रसं गताः

2.21.37

भोजका राजपुत्राश्च राजराजन्यकादयः ।
महामाण्डलिकाः सर्व्वे चान्तरङ्गा महापदाः

2.21.38

यथायोग्येष्वासनेषु निषेदुः प्रतिपूजिताः ।
वल्लालेन सभायां ते दिवीव त्रिदिवौकसः

2.21.39

भ्राजमानः सभामध्ये सुत्रामेव सुधर्म्मणि ।
देवान् पित्ःंश्च यज्ञेन पापघ्नेनायजन्नृपः

2.21.40

अथ सखड्गः सोष्णीषः सर्व्वाभरणभूषितः ।
पुष्टिकामो ऽकरोद्राजा दानं कर्ण इवापरः

2.21.41

तत्रात्मपरिमाणेन काञ्चनेन धरामरान् ।
दानेन तोषयामास सहस्रदक्षिणावता

2.21.42

अपवर्गे ऽभिरूपान् स ब्राह्मणान् नृपतिस्ततः ।
अन्यांश्च भोजयामास शतशो ऽथ सहस्रशः

2.21.43

देवा वभूवुः पितरश्च तत्र हृद्यैश्च कव्यै र्नितरां सुतृप्ताः ।
भूदेव वर्गास्तपनीयदानैर्भोज्यान्नपानैर्वहुदक्षिणाभिः

मूल पाठ: Vallālacarita · Edition: Haraprasāda Śāstrī: Vallāla Caritam, Calcutta : Asiatic Society 1904 (Bibliotheca Indica, 164) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc