भाषा

ENहिગુ
ग्रंथ पाठ

वल्लालचरित · अध्याय 2.20

2.20.1

इति वल्लालचरिते शूद्रवर्गकथनं नाम ऊनविंशो ऽध्यायः ।
अथ विंशो ऽध्यायः
व्यास उवाच:
अतःपरं रुद्रगीता कथ्यते मनुजेश्वराः ।
शृणतावहिता भूत्वा इमां गीतां सनातनीम्

2.20.2

नमस्ते मन्यवे रुद्र उतोत इषवे नमः ।
नमामि तव वाहुभ्यां गिरिशन्त गिरीश्वर

2.20.3

रुद्रस्ते ऽपापकाशिन्या शिवया घोररूपया ।
तन्वानो ऽभि चाकशीहि सुखं शन्तमया शिव

2.20.4

यामिषुमस्तवे हस्ते गिरिशन्त विभर्षि च ।
तां गिरित्र कुरु शिवां मा हिंसीः पुरुषं जगत्

2.20.5

शिवेन वचसाच्छत्वा वदामो गिरिश प्रभो ।
यथा यक्ष्मं सुमनसो जगत्सर्व्वमिदं भवेत्

2.20.6

अध्यवोचदधिवक्ता प्रथमो देव्यको भिषक् ।
अहींश्च जम्भयन् सर्व्वान् यातुधानीः परासुव

2.20.7

असौ यस्ताम्र आदित्य उत वभ्रूः सुमङ्गलः ।
ये चैनं रुद्रा अभितो दिक्ष्वेषां हेडईमहे

2.20.8

असाववसर्पति यो नीलग्रीवो विलोहितः ।
गोपाःस्त्रियो ऽप्यदृश्रन् यं स दृष्टोमृडयाति नः

2.20.9

[[092]]
नमो ऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे ।
सन्त्यथो ये ऽस्य सत्वा नस्तेभ्यो ऽहमकरं नमः

2.20.10

धन्वनस्त्वं प्रमुञ्चार्त्न्यो रुभयोर्ज्यामुमाधव ।
याश्च ते हस्त इषवो भगवन् ताः परा वप ।
कपर्द्दिनो धनुर्दिव्यं विशल्यो वाणवानुत ।
अनेशन्निषवश्चास्य चाभुरस्तु निषङ्गधीः

2.20.11

या मीढुष्टम ते हेतिर्हस्ते प्रविद्यते धनुः ।
अयक्षन् या तथास्मान् त्वं विश्वतः परिपालय

2.20.12

अस्मान् ते धन्वनो हेतिः परिवृणक्तु विश्वतः ।
अथो यश्चेषुधी रुद्र अस्मदारे निधेहि तम्

2.20.13

अवतत्य धनुः शल्यमुखानि विनिशीर्य्य च ।
शतेषुधे सहस्राक्ष शिवो नः सुमना भव

2.20.14

आयुधाय नमस्ते ऽस्तु धृष्णवे ऽनातताय च ।
उभाभ्यामुत वाहुभ्यां नमस्ते ऽस्तु च धन्वने

2.20.15

मा नो महान्त मुत मा नो अर्भकम्
मा न उक्षन्तमुतमा न उक्षितम् ।
मा नो वधीः पितरम्मोत मातरम्
मा नः प्रियास्तन्वो रुद्र रीरिषः

2.20.16

मानस्तोके च तनये गवाश्वेषु च रीरिषः ।
आयूंषि भामिनो वीरान् मावधीस्त्वां हवामहे

2.20.17

सेनान्ये दिशाम् पतये नमो हिरण्यवाहवे ।
वृक्षेभ्यो हरिकेशेभ्यः पशूनाम्यतये नमः

2.20.18

शष्यिञ्जाय त्विषीमते पथीनाम्पतये नमः ।
सूत्रिणे हरिकेशाय पुष्टानाम्पतये नमः

2.20.19

वभ्लुशाय नमो व्याधिने ऽन्नानाम्पतये नमः ।
भवस्य हेत्यै जगताम् पतये च नमो नमः

2.20.20

रुद्रायाततायिने च क्षेत्राणाम्पतये नमः ।
नमोस्त्वहन्त्रे सूताय वनानाम्पतये नमः

2.20.21

रोहिताय स्थपतये वृक्षाणम्पतये नमः ।
भुवन्तये नमस्तस्मै वरिवस्यकृताय च

2.20.22

मन्त्रिणे वै वाणिजाय कक्षाणाम्पतये नमः ।
घोषायोच्चैः क्रन्दयते पत्तीनाम्पतये नमः

2.20.23

धावते कृत्स्नवीताय सत्वानाम्पतये नमः ।
नमो ऽस्तु सहमानाय नमो निव्याधिने नमः

2.20.24

आव्याधिनीनाम्पतये ककुभाय निषङ्गिणे ।
निचेरवे नमस्तुभ्यं स्तेनानाम्पतये नमः

2.20.25

नमो ऽरण्यानाम्पतये नमः परिचराय च ।
स्तायूनाम्पतये तुभ्यं वञ्चते परिवञ्चते

2.20.26

प्रणमामीषुधिमते नमस्तुभ्यं निषङ्गिणे ।
तस्कराणान्ते पतये नमामि च पुनः पुनः

2.20.27

सृकायिभ्यो जिघांसद्भ्यो मुष्णताम्पतये नमः ।
असिमद्भ्यो विकृन्तानाम् पतये ते नमोनमः

2.20.28

नक्तञ्चरेभ्यो रुद्रेभ्यो धावद्भ्यश्च नमोनमः ।
उष्णीषिणे कुलुञ्चानाम्पतये ते नमोनमः

2.20.29

[[094]]
धन्वायिभ्य इषुमद्भ्यो नमो गिरिचराय ते ।
आतन्वाभ्यो वश्च प्रतिदधानेभ्यो नमोनमः

2.20.30

आयच्छद्भ्यो नमो ऽस्यद्भ्यो विसृजद्भ्यो नमो नमः ।
विध्यद्भ्यश्च स्वपद्भ्यश्च जाग्रद्भ्यश्च नमोनमः

2.20.31

शयानेभ्य आसीनेभ्यस्तिष्ठद्भ्यो वो नमो नमः ।
नमः सभापतिभ्यो वः सभाभ्यश्च नमोनमः

2.20.32

अश्वेभ्यो ऽश्वपतिभ्यश्चाव्याधिनीभ्यो नमोनमः ।
विविध्यन्तीभ्यश्च नमः उगणाभ्यो नमोनमः

2.20.33

तृंहतीभ्यो गणेभ्यश्च व्रातेभ्यश्च नमोनमः ।
नमो गणपति-व्रातपतिभ्यश्च नमोनमः

2.20.34

गृत्सपतिभ्यो गृत्सेभ्यो विरूपेभ्यो नमोनमः ।
विश्वरूपेभ्यश्च नमः सेनाभ्यश्च नमोनमः

2.20.35

सेनानीभ्यो रथिभ्यो वो अरथेभ्यो नमोनमः ।
क्षत्तृभ्यः संग्रहीतृभ्यो महद्भ्यश्च नमोनमः

2.20.36

अर्भकेभ्यस्तक्षकेभ्यो रथकृद्भ्यो नमोनमः ।
कर्म्मारेभ्यः कुलालेभ्यो निषादेभ्यो नमोनमः

2.20.37

पुञ्जिष्ठेभ्यः श्वनिभ्यश्च मृगयुभ्यश्च वो नमः ।
श्वभ्यश्च श्वपतिभ्यश्च रुद्राय च भवाय च

2.20.38

नीलग्रीवाय सर्व्वाय पशूनाम्पतये नमः ।
नमस्ते शितिकण्ठाय नमस्तेस्तु कपर्द्दिने

2.20.39

सहस्राक्षाय च व्यप्तकेशाय शतधन्वने ।
गिरिशाय नमस्तुभ्यं शिपिविष्टाय ते नमः

2.20.40

मीढुष्टमायेषुमते ह्रस्वाय वामनाय च ।
वृहते च वर्षीयसे वृद्धाय सवृधे नमः

2.20.41

प्रथमाय नमो ऽग्राय आशवे चाजिराय च ।
नमः शीघ्राय शीभ्याय ऊर्म्मायावस्वनाय च

2.20.42

नादेयाय नमस्तुभ्यं द्वीप्याय च नमोनमः ।
ज्येष्ठाय च कनिष्ठाय पूर्व्वजाय नमोनमः

2.20.47

मध्यमायापगल्भाय वुध्न्यायापरजाय च ।
जघन्याय च सोम्याय प्रतिसर्य्याय ते नमः

2.20.44

नमो याम्याय क्षेम्याय श्लोक्याय च नमोनमः ।
उर्वर्य्यायावसान्याय खल्याय च नमस्तु ते

2.20.45

नमो वन्द्याय कक्ष्याय श्रवाय च नमोनमः ।
प्रतिश्रवाय च नमः आशुषेणाय ते नमः

2.20.46

आशुरथाय च नमः शूराय चावभेदिने ।
विल्मिने च कवचिने वर्म्मिणे च वरूथिने

2.20.47

श्रुताय श्रुतसेनाय दुन्दुभ्याय नमोनमः ।
अहन्याय धृष्णवे च प्रमृषाय नमोनमः

2.20.48

तीक्ष्णोषवे चायुधिने स्वायुधाय सुधन्वने ।
नमः सत्याय पथ्याय काट्याय च नमोनमः

2.20.49

नीप्याय च नमस्तुभ्यं कुल्याय च नमोनमः ।
सरस्याय नादेयाय वैशन्ताय नमोनमः

2.20.50

अवट्याय च कुप्याय वीघ्राय च नमोनमः ।
आतप्याय च मेध्याय विद्युत्याय नमोनमः

2.20.51

[[096]]
अवर्ष्याय च वर्षाय वात्याय च नमोनमः ।
नमो ब्रात्याय रेष्माय वास्तव्याय नमोनमः

2.20.52

वास्तुपाय च सोमाय रुद्राय च नमोनमः ।
अरुणाय च ताम्राय शङ्गवे च नमोनमः

2.20.53

नम उग्राय भीमायाग्रेवधाय नमो ऽस्तु ते ।
दूरेवधाय हन्त्रे च नमो हनीयसे नमः

2.20.54

सम्भवाय शङ्कराय मयोभवाय ते नमः ।
मयस्कराय च शिवतराय च शिवाय च

2.20.55

अवार्य्याय च पार्य्याय नमः प्रतरणाय च ।
उत्तरणाय तीर्य्याय कुब्जाय च नमोनमः

2.20.56

नमः शष्याय फेण्याय सिकत्याय नमोनमः ।
प्रवाह्याय किंशिलाय क्षयणाय नमोनमः

2.20.57

इरिण्याय प्रपथ्याय नमस्तुभ्यं पुलस्तये ।
नमो व्रज्याय गोष्ठाय तल्पाय च नमोनमः

2.20.58

गेह्याय च हृदय्याय निवेष्याय च ते नमः ।
गह्वरेष्ठाय शुष्काय हरित्याय नमोनमः

2.20.59

पांसव्याय रजस्याय लोप्याय च नमो ऽस्तु ते ।
उलप्याय च ऊर्व्वाय सर्व्वाय च नमोनमः

2.20.60

पर्णशदाय पर्णाय नमश्चाभिघ्नते नमः ।
नम उद्गुरमाणाय नमः आखिदते नमः

2.20.61

इषुकृद्भो धनुष्कृद्भ्यो नमः प्रखिदते नमः ।
किरिकेभ्यश्च देवानां हृदयेभ्यो नमोनमः

2.20.62

विचिन्वत्केभ्यो वो विक्षिणत्केभ्यश्च नमो नमः ।
आनिर्हतेभ्यो युष्मभ्यं नमामि च पुनः पुनः

2.20.63

भो अन्धसस्पते द्रापे दरिद्र नीललोहित ।
प्रजानां नः पशूनाञ्च माभेर्मारोक् कथञ्चन

2.20.64

इमा नो रुद्राय मतीस्तवसे प्रभरामहे ।
ग्रामे विश्वे यथा शंस्वाद्विपदे च चतुष्पदे

2.20.65

या ते रुद्र शिवतनूः शिवविश्वाहभेषजी ।
रुद्रस्य भेषजी रुद्र तया नो मृड् जीवसे

2.20.66

रुद्रस्य हेतिः परितो वृणक्त त्वेषस्य चास्मासु न दुर्म्मतिश्च ।
स्थिराणि रुद्र अवतारय त्वम् तोकाय पौत्राय सुखं यथा स्यात्

2.20.67

मीढुष्टम शिवतम शिवो नः सुमना भव ।
निधाय परमे वृक्षे आयुधं तव शङ्कर

2.20.68

कृत्तिं वसान आगच्छ पिनाकं धारयन् शिवः ।
नमस्तुभ्यं भगवते विकिरिद्रविलोहित

2.20.69

या हेतयः सहस्रन्ते ऽस्मदन्यं निवपन्तु ताः ।
यास्तव हेतयो वाह्वोः सहस्राणि सहस्रशः

2.20.70

तासामीशानो भगवन् पराचीना मुखाकृधि ।
असंख्याताः सहस्राणि ये रुद्रा अधि भूतले

2.20.71

तेषां सहस्रयोजने धन्वानि ह्यवतन्मसि ।
अस्मिन्महत्यन्तरीक्षे ऽर्णवे सन्ति भवास्तु ये

2.20.72

[[098]]
तेषां सहस्रयोजने धन्वानि चावतन्मसि ।
नीलग्रीवाः श्वेतकण्ठाः दिवं रुद्रा उपश्रिताः

2.20.73

तेषां सहस्रयोजने धन्वानि चावतन्मसि ।
नीलग्रीवाः श्वेतकण्ठाः अधः शर्व्वाः क्षमाचराः ।
तेषां सहस्रयोजने धन्वानि चावतन्मसि

2.20.74

शष्पिञ्जरा वृक्षेषु ये नीलग्रीवा विलोहिताः ।
तेषां सहस्रयोजे धन्वानि चावतन्मसि

2.20.75

ये च भूतानामधिपा विशिखासः कपर्दिनः ।
तेषां सहस्रयोजने धन्वानि चावतन्मसि

2.20.76

ऐलवृदा आयुर्युधो ये पथाम्यतिरक्षसः ।
तेषां सहस्रयोजने धन्वानि चावतन्मसि

2.20.77

ये च चरन्ति तीर्थानि सृकाहस्ता निषङ्गिणः ।
तेषां सहस्रयोजने धन्वानि चावतन्मसि

2.20.78

ये चान्नेषु विविध्यन्ति पात्रेषु पिवतो जनान् ।
तेषां सहस्रयोजने धन्वानि चावतन्मसि

2.20.79

एतावन्तश्च भूयांसो दिशो रुद्रा वितस्थिरे ।
तेषां सहस्रयोजने धन्वानि चावतन्मसि

2.20.80

नमो रुद्रेभ्यो दुःस्थेभ्यो येषां वर्षन्तु सायकाः ।
सर्वदिक् विदिक्षु च तेषां कुर्व्वे दशाङ्गुलीः

2.20.81

नमो ऽस्तु तेभ्यो नो ऽवन्तु तथास्मान् मृडयन्तु ते ।
जम्भे दध्मस्तमेतेषां यन्द्विष्मो यश्च द्वेष्टि नः

2.20.82

नमस्तेभ्यो ऽन्तरिक्षे ये येषां वातस्तु सायकाः ।
सर्व्वदिक्षु विदिक्ष्वेव तेषां कुर्व्वे दशाङ्गुली

2.20.83

नमस्तु तेभ्यो नो ऽवन्तु तथास्मान् मृडयन्तु ते ।
जम्भे दध्मस्तमेतेषां यंद्विष्मो यश्च द्वेष्टि नः

2.20.84

नमो रुद्रेभ्यो ये पृष्व्यां येषामन्नन्तु सायकाः ।
सर्व्वदिक्षु विदिक्षेव तेषां कुर्व्वे दशाङ्गुली

2.20.85

नमस्तु तेभ्यो नो ऽवन्तु तथास्मान् मृडयन्तु ते ।
जम्भेदध्मस्तमेतेषां यंद्विष्मो यश्च द्वेष्टि नः

2.20.86

इमां गीतां नरो रौद्रीं पठंश्चापि श्रवन् स्मरन् ।
प्रयाति रुद्रसालोक्यं न चासौ जायते पुनः

मूल पाठ: Vallālacarita · Edition: Haraprasāda Śāstrī: Vallāla Caritam, Calcutta : Asiatic Society 1904 (Bibliotheca Indica, 164) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc