वल्लालचरित · अध्याय 2.2
इत्यानन्दभट्टप्रोक्ते वल्लालचरिते वल्लालपरिचयो नाम प्रथमो ऽध्यायः ।
[[017]]
अथ द्वितीयो ऽध्यायः ।
पुरोदन्तपुराधीशं जिगीषुरवनीपतिः ।
वित्ताढ्याद्वल्लभानन्दाग्निष्ककोटिं गृहीतवान्
वारं वारं जितो राजा यतो मणिपुराहवे ।
ततो ऽभियानं घोरं स कर्त्तुमासीत्समुद्यतः
वल्लभे ऽदातुकामे ऽपि दृष्ट्वा संविद्व्यतिक्रमम् ।
प्रेषयामास दूतं स वणिजाय महात्मने
स दूतः सङ्ककोटस्थं वल्लभं समुपागतः ।
विज्ञापयामास तदा वल्लालनृपशासनम्
वल्लाल उवाच:
यथास्माभि र्हि कर्त्तव्यं संयानं प्रति कीकटम् ।
विधाय सुमहोद्योगं षड्ङ्गबलसंयुतैः
ततो वल्लभचन्द्रः स गृह्णन् प्राणित्यलेखनम् ।
प्रेषयन् तु सार्द्धकोटिं सुवर्णमिति माचिरम्
वल्लभ उवाच:
अमितव्ययिना राज्ञा कालिका पातिता सकृत् ।
किं ब्रूमो नृपतिं नैवं मया दृष्टः सतां विधिः
[[018]]
कस्माद्वा समरोद्योगः लब्धस्य परिपालनम् ।
राष्ट्रस्यैवोचितं कर्त्तुं युद्धमेतदकारणम्
त्यज्यताम् ग्रांवारबुद्धिः प्रजानां हितकाम्यया ।
प्रजाक्षयकरं युद्धमधर्म्म्यं निरयप्रदम्
यदृच्छाचारो नृपती राजधर्म्मं न पश्यति ।
अरक्षणे महद्दोषः किं गुणो राष्ट्रवर्द्धनैः
क्षेत्रियं भगवद्भक्तमथवा मुषलं धनुः ।
न को ऽपि पुरुषः कर्त्तुं कदाचिद्भवति प्रभुः
अरक्षित्वा प्रजा राजा केवलं वलिमाददत् ।
अयशो महदाप्नोति निरयञ्चैव गच्छति
इत्याहुः कोशातकिनः किं राजनयचर्च्चया ।
राजनीति र्हि विज्ञेयं शत्रूणां परिमर्दनम्
अथवा विग्रहैर्यस्मात् पीड्यन्ते ऽस्मद्विधा जनाः ।
उलपा इव सामान्या ब्रवीमि तेन हेतुना
यदि स्यान्नृपति र्द्दद्यात् करादानसमन्वितम् ।
आधित्वे हरिकेलीयं ऋणं दातुं तदोत्सहे
तस्य तद्भाषितं सर्व्वं स दूतः श्रान्तवाहनः ।
विक्रमं पुरमागत्य वल्लालाय न्यवेदयत्
एतच्छ्रुत्वाथ सन्देशं वल्लालः पृथिवीपतिः ।
मन्युना स प्रजज्वाल कुटङ्को वह्निना यथा
तदास्य कोपताम्रास्यात् सुस्राव स्वेदशम्बरम् ।
अग्निसंयोगतः स्विन्नदह्यमानेन्धनाद् यथा
वल्लभे ज्रातसंरोषो निर्द्दोषेषु वणिक्ष्वपि ।
क्रुद्धो भूत्वा स वल्लालः चकार कदनं भृशम्
शुल्कादानमिषेणापि जहार वणिजां बलात् ।
व्यवहारे धृतं वस्तु केषाञ्चित् क्रोशतामपि
असवर्णाविवाहस्तु निषिद्धोपि कलौ युगे ।
गोविन्दाढ्यस्य कन्यां स जहार वणिजो बलात्
नहर्द्देवो ऽपि सौवर्णादनुदर्शं चकार ह ।
कुलवृद्धैः सहागत्य नापि प्रत्यग्रहीच्च तम्
ततः स मन्त्रयन् राजा गूढ्ं चाटुविटैः सह ।
पीडयामास वणिजो दूतञ्चेदमुवाच ह
वल्लाल उवाच:
सुवर्णा वणिजो राष्ट्रे दुःशीला धनगर्व्विताः ।
ब्राह्मणान् ते तूलयन्ति ब्रह्मक्षत्रञ्च मामपि
[[020]]
वल्लभानन्दनामा च वणिग्गणमहत्तरः ।
अशिष्टः कुलजन्मन्यो दाम्भिकश्च विशेषतः
इत्यादीन् सुवहून् दोषानारोप्य पण्यजीविषु ।
वल्लभाय सङ्ककोटे राजा दूतं व्यसर्जयत्
आसेधं विपुलं चक्रे भयं मैत्रं च दर्शयन् ।
येन केन प्रकारेण तं वशीकरणेच्छया
तदाददे द्विगुणितमन्यायेन करं भरम् ।
माद्दादावाहरच्छुल्कमसकृच्छौल्किकच्छलात्
मूल पाठ: Vallālacarita · Edition: Haraprasāda Śāstrī: Vallāla Caritam, Calcutta : Asiatic Society 1904 (Bibliotheca Indica, 164) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0