वल्लालचरित · अध्याय 2.1
इत्यानन्दभट्टप्रोक्ते वल्लालचरिते पूर्व्वखण्डं सम्पूर्णम् ।
[[015]]
वल्लालचरितम्
उत्तरखण्डम्
अथ प्रथमो ऽध्यायः ।
वल्लालचरितं पूर्ब्बखण्डीयं कथितं मया ।
श्रूयतामुत्तरे खण्डे विस्तरात् कथ्यते ऽधुना
सेनवंशधरो राजा वल्लालो नाम विश्रुतः ।
पुरेमामभुनक् पृथ्वीं प्रभावाक्षतशासनः
प्रभुश्च यौवनस्थो ऽपि तस्मिन्नासीद्विवेकता ।
नाहारि ब्राह्मणी कन्या कदाचिदपि भूभृता ॥ वल्च्_2,1.3
कामाचारो ऽपि दृप्तो ऽपि स प्रियङ्करकिङ्करः ।
कदाचिच्च परस्त्रीणां जारत्वं नाकरोन्नृपः
असेवि चाण्डालकन्या राज्ञा द्वादशवार्षिकी ।
नटीकन्या च सिद्ध्यर्थं पाषण्डमतवर्त्तिना
यावन्नासीत् भट्टपादैरुपदिष्टो महीपतिः ।
तावत् स कृतवान् कर्म्म तत्तत् सज्जनगर्हितम्
[[016]]
भट्टानुव्रतिना तेन ततो विमलबुद्धिना ।
किं किं नानुष्ठितं कर्म्म ब्राह्मणानां प्रियङ्करम्
वङ्गवागदडिवारेन्द्रराढाभूर्मिथिलापि च ।
तस्यासीद्विपुलं राष्ट्रमेतद्विषयपञ्चकम्
वसतिस्म नृपः श्रीमान् पुरा गौडे पुरोत्तमे ।
कदाचिद्वा यथाकामं नगरे विक्रमे पुरे
स्वर्णग्रामे कदाचिद्वा प्रासादे सुमनोहरे ।
रममानः सह श्रीभिर्दिवीव त्रिदिवेश्वरः
वैहारिकासु विद्यासु वाजिपृष्ठे च पण्डितः ।
शस्त्रास्तेषु परं दक्षो दाने कर्ण इवापरः
मूल पाठ: Vallālacarita · Edition: Haraprasāda Śāstrī: Vallāla Caritam, Calcutta : Asiatic Society 1904 (Bibliotheca Indica, 164) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0