वल्लालचरित · अध्याय 2.16
इति वल्लालचरिते व्यासपुराणे दानमाहात्मादिकीर्त्तनं नाम पञ्चदशो ऽध्यायः ।
अथ षोडशो ऽध्यायः
व्यास उवाच:
उपाध्यायः पिता ज्येष्ठभ्राता चैव महीपतिः ।
मातुलः श्वशुरस्त्राता मातामहपितामहौ
बन्धुर्ज्येष्ठः पितृव्यश्च पुंस्येते गुरवः स्मृताः ।
माता मातामही चैव पितृमातृष्वसादयः
श्वश्रूः पितामही ज्येष्ठा धात्री च गुरवः स्त्रियः ।
इत्युक्तो गुरुवर्गो ऽयं मातृतः पितृतो नृपाः ।
अनुवर्त्तनमेतेषां मनोवाक्कायकर्म्मभिः
गुरुं दृष्ट्वा समुत्तिष्ठेदभिवाद्य कृताञ्जलिः ।
नैतैरुपविशेत् सार्द्धं विवदेत् नात्मकारणात्
जीवितार्थमपि द्वेषात् गुरुभिर्नैव भाषणम् ।
उदितो ऽपि गुणैरन्यै र्गुरुद्धेषी पतत्यधः
गुरूणाञ्चैव सर्व्वेषां पूज्याः पञ्च प्रयत्नतः ।
तेषामाद्यास्त्रयः श्रेष्ठास्तेषु माता गरीयसी
यो भावयति या सूते येन विद्योपदिश्यते ।
ज्येष्ठभ्राता च भर्त्ता च पञ्चैते गुरवः स्मृताः
आत्मनः सर्व्वयत्नेन प्राणत्यागेन वा पुनः ।
[[082]]
पूजनीया विशेषेण पञ्चैते भूतिमिच्छता ।
नास्ति पितृसमो देवो नास्ति मातृसमो गुरुः
तयोर्नित्यं प्रियं कुर्य्यात् कर्म्मणा मनसा गिरा ।
न ताभ्यामननुज्ञातो धर्म्ममन्यं समाश्रयेत्
गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ।
पतिरेको गुरुः स्त्रीणां सर्व्वत्राभ्यागतो गुरुः
ब्राह्मणं प्रणमेद् यस्तु विष्णुबुद्ध्या नरोत्तमः ।
आयुः पुत्रश्च कीर्त्तिश्च सम्पत्तिस्तस्य वर्द्धते
दुःशीलो ऽपि द्विजः पूज्यो न शूद्रो विजेतेन्द्रियः ।
विप्रा हि क्षत्रियात्मानो नावज्ञेयाः कदाचन
धर्म्मशास्त्ररथारूढा वेदखड्गधरा द्विजाः ।
क्रीडार्थमपि यद्ब्रूयुः स धर्म्मः परमः स्मृतः
मूल पाठ: Vallālacarita · Edition: Haraprasāda Śāstrī: Vallāla Caritam, Calcutta : Asiatic Society 1904 (Bibliotheca Indica, 164) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0