वल्लालचरित · अध्याय 2.15
इति वल्लालचरिते व्यासपुराणे स्त्रीलक्षणादिकीर्त्तनं नाम चतुर्दशो ऽध्यायः ।
अथ पञ्चदशो ऽध्यायः
व्यास उवाच:
तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते ।
द्वापरे यज्ञमेवाहुर्दानमेकं कलौयुगे
दानधर्म्मात् परो धर्म्मो भूतानां नेह विद्यते ।
स्वर्गायुर्भूतिकामेन देयं पापोपशान्तये
न दानादधिकं किञ्चिद्दृश्यते भुवनत्रये ।
दानेन प्राप्यते स्वर्गः श्री दानेनैव लभ्यते
दानेन शत्रुञ्जयति व्याधिर्दानेन नश्यति ।
दानेन लभ्यते विद्या दानेन युवतीजनः
दानेन भोगानाप्नोति दानेनायुश्च विन्दति ।
धर्म्मार्थकाममोक्षाणां साधनं परमं स्मृतम्
दद्यात् पूर्व्वमुखो दानं घ्णीयादुत्तरामुखः ।
आयुर्व्विवर्द्धते दातुर्गृहीतुः क्षीयते न तत्
मातुः शतगुणं दानं सहस्रं पितुरुच्यते ।
अनन्तं दुहितुर्दानं सोदर्ये दत्तमक्षयम्
अमनुष्ये समं दानं पापे ज्ञेयं महाफलम् ।
वर्णसङ्करे द्विगुणं शूद्रे दानं चतुर्गुणम्
[[076]]
वैश्ये चाष्टगुणं क्षत्रे षोडशत्वं द्विजब्रुवे ।
वेदाध्याये शतगुणमनन्तं वेदबोधके
गुरौ पुरोहितादौ च दानमक्षयमुच्यते ।
श्रीविहीनेषु यद्दत्तन्तदनन्तञ्च यज्वनि
अभयं सर्वदैवत्यं भूमि र्वै विष्णुदेवता ।
कन्या दासास्तथा दासी प्राजापत्याः प्रकीर्त्तिताः
प्राजापत्यो गजः प्रोक्तस्तुरगो यमदैवतः ।
तथा चैकशफाः सर्व्वे याम्यश्च महिषस्तथा
उष्ट्रश्च नैरृतो धेनू रौद्रीछागोनलस्तथा ।
आप्यो मेषो हरिः क्रोडः आरण्याः पशवो निलाः
जलाशयं वारुणं स्यात् वारिधानी घटादयः ।
समुद्रजानि रत्नानि हेमलौहानि चानलः
प्राजापत्यानि शस्यानि पक्वान्नमपि पार्थिवाः ।
गान्धर्ब्ब गन्धमित्याहु र्वस्त्रं वार्हस्पतं स्मृतम्
वायव्याः पक्षिणः सर्व्वे विद्या ब्राह्मी तथाङ्गकम् ।
सारस्वतं पुस्तकादि विश्वकर्म्मा तु शिल्पके
वनस्पतिर्द्रुमादीनां द्रव्यदेवा हरेस्तनुः ।
छत्रं कृष्णाजिनं शय्या रथ आसनमेव च
उपानहौ तथा यानमष्टावाङ्गिर ईरितम् ।
रथोपकरणं शस्त्रं ध्वजाद्यं सर्व्वदैवतम्
गृहञ्च सर्व्वदैवत्यं सर्व्वेषां विष्णुदेवता ।
शिवो वा न ततो द्रव्यं व्यतिरिक्तं यतो ऽस्ति हि
शृणताहं प्रवक्ष्यामि महादानानि षोडश
तुलापुरुष आद्यन्तु हिरण्यगर्भदानकम् ।
ब्रह्माण्डं कल्पवृक्षश्च गोसहस्रञ्च पञ्चमम्
हिरण्यकामधेनुश्च हिरण्याश्वश्च सप्तमम् ।
हिरण्याश्वरथस्तद्वद्धेमहस्तिरथस्तथा
पञ्चलाङ्गलकं तद्वद्धरादानं महाफलम् ।
द्वादशं विष्नुचक्रञ्च ततः कल्पलतात्मकम्
सप्तसागरदानञ्च रत्रधेनुस्तथैव च ।
महाभूतघटस्तद्वत् दानं शुभदिने ऽर्पयेत्
मण्डपे मण्डले दानं देवान् प्राच्यार्पयेद्द्विजे ।
द्रव्यस्य नाम गृह्णीयात् ददानि च तथा वदेत्
तोयं दद्यात्ततो हस्ते दाने विधिरयं स्मृतः ।
मनसा पात्रमुद्दिश्य जलं भूमौ विनिक्षपेत्
विद्यते सागरस्यान्तो दानस्यान्तो न विद्यते
यथानाम सगोत्राय प्रवरायामुकाय च ।
वेदवेदाङ्गयुक्ताय पात्राय सुमहात्मने
मातापित्रोरात्मनश्च पुण्ययशोभिवृद्धये ।
सर्व्वपापोपशान्त्यर्थं स्वर्गार्थं भुक्तिमुक्तये
यथानाम महाद्रव्यं विष्णुरुद्रादिदैवतम् ।
एतत्तुभ्यं सम्प्रददे प्रीयतां मे हरिः शिवः
एतद्दानप्रतिष्ठार्थं सुवर्णं दक्षिणां ददे ।
अनेन दानवाक्येन सर्व्वदानानि वै ददेत्
[[078]]
सुवर्णे दीयमाने तु रजतं दक्षिणेष्यते ।
अन्येषामपि दानानां सुवर्णं दक्षिणा स्मृता
सुवर्णं रजतं ताम्रं तण्डुलं धान्यमेव च ।
नित्यश्राद्धं देवपूजा सर्व्वमेतददक्षिणम्
रजतं दक्षिणा पित्र्ये धर्म्मकामार्थसाधनम् ।
सुवर्णं रजतं ताम्रं मणिमुक्तावसूनि च
सर्व्वमेतत् महाप्राज्ञे ददाति वसुधां ददत् ।
पित्ःश्च पितृलोकस्थान्देवस्थाने च देवता
सन्तर्पयति शान्तात्मा यो ददाति वसुन्धराम् ।
खर्व्वटं खेटकं वापि ग्रामं वा शस्यशालिनम्
निवर्त्तनशतं वापि तदर्द्धं वा गृहादिकम् ।
अप्याढावापमात्रं वा दत्त्वोर्व्वीं फलभाक् भवेत्
इक्षुभिः सन्ततां भूमिं यवगोधमशालिनीम् ।
ददाति वेदविदुषे स न भूयोभिजायते
फालकृष्टां महीं दत्त्वा सवृक्षां शस्यशालिनीम् ।
यावत् सूर्य्यकरालोकास्तावत् स्वर्गे महीयते
विप्राय दद्याच्च गुणान्विताय
तपोभियुक्ताय जितेन्द्रियाय ।
यावन्मही तिष्ठति सागरान्ता
तावत् फलं तस्य भवेदनन्तम्
यथा वीजानि रोहन्ति प्रकीर्णानि महीतले ।
एवं कामाः प्ररोहन्ति भूमिदानसमार्जिताः
यथाप्सु पतितः सद्यस्तैलविन्दुः प्रसर्पति ।
एवं भूमिकृतं दानं शस्ये शक्ष्ये प्ररोहति
अन्नदाः सुखिनो नित्यं वस्त्रदश्चैव रूपवान् ।
स नरः सर्व्वदो भूपा यो ददाति वसुन्धराम्
यथा गौर्भरते वत्सं क्षीरमुत्सृज्य क्षीरिणी ।
एवं दत्ता महीपाला भूमिर्भरति भूमिदम्
आदित्यो वरुणो विष्णुर्ब्रह्मा सोमो हुताशनः ।
शूलपाणिश्च भगवानभिनन्दति भूमिदम्
आस्फोटयन्ति पितरो वर्णयन्ति पितामहाः ।
भूमिदाता कुले जातः स नस्त्राता भविष्यति
बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः ।
यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम्
भूमिं यः प्रतिगृह्णाति यश्च भूमिं प्रयच्छति ।
उभौ तौ पुण्यकर्म्माणौ नियतौ स्वर्गगामिणौ
दद्याद्भूमिं निबन्धं वा कृत्वा लेख्यञ्च कारयेत् ।
आगामिभद्रनृपतिपरिज्ञानाय पार्थिवः
पटे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम् ।
अभिलेख्यात्मनो वंशानात्मानञ्च महीपतिः
प्रतिग्रहपरिच्छेददानाच्छेदोपवर्णनम् ।
स्वहस्तकालसम्पन्नं शासनं कारयेत् स्थिरम्
सुवर्णदानं गोदानं भूमिदानञ्च पार्थिवाः ।
एतत् प्रयच्छमानस्तु सर्व्वपापैः प्रमुच्यते
[[080]]
अग्नेरपत्यं प्रथमं सुवर्णम्
भूर्वैष्णवी सूर्यसुताश्च गावः ।
यः काञ्चनं गाञ्च महीञ्च दद्यात्
दत्तास्त्रयस्तेन भवन्ति लोकाः
यस्तटाकं नवं कुर्य्यात् पुराणं वापि खानयेत् ।
स सर्व्वं कुलमुद्धृत्य स्वर्गे लोके महीयते
कृत्वापि पापकर्म्माणि यो दद्यादन्नमर्थिने ।
ब्राह्मणाय विशेषेण स पापेन न लिप्यते
त्रिसप्तकुलमुद्धृत्य कन्यादो ब्रह्मलोकभाक् ।
देवालयञ्च प्रतिमां कारयन् सर्वमाप्नुयात्
दासीदस्तु द्विजेन्द्रेभ्यो ह्यप्सरोलोकमाप्नुयात् ।
तस्य शिश्नेन्द्रियं भूपा नाग्निर्दहति कर्हिचित्
सिंहगिरिरुवाच:
स्वालङ्कृता वसनभूषणगन्धपुष्पैः कैशोर्य्यरूपकमनीयवपुःसुभोग्याः ।
दासीः प्रदाय बहुशो द्विजसत्तमेभ्यः श्रीलादिशूरनृपतीरमते ऽप्सरोभिः
मूल पाठ: Vallālacarita · Edition: Haraprasāda Śāstrī: Vallāla Caritam, Calcutta : Asiatic Society 1904 (Bibliotheca Indica, 164) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0