वल्लालचरित · अध्याय 2.17
इति वल्लालचरिते व्यासपुराणे गुरुवर्गकीर्त्तनं नाम षोडशो ऽध्यायः ।
अथ सप्तदशो ऽध्यायः
व्यास उवाच:
मानव्यश्च काश्यपश्च काङ्कायन-रहूगणौ ।
भरद्वाजो गौतमश्च कल्विषश्च सुकालिनः
आर्ष्टिषेणो ऽग्निवेशश्च कृष्णचियवशिष्ठकौ ।
विश्वामित्रो गालवश्च चन्द्रात्रेयश्च कौशिकः
घृतकौशिक-मौद्गल्यौ लाभायन-पराशरौ ।
सौपायनात्रिकुहलाः वासुकी रोहितस्तथा
वार्ध्यश्वो वैयाघ्रपद्यो दर्भःशालावतः कपिः ।
जमदग्निः काञ्चनश्च कात्यायन-वृहस्पती
विशुवृद्धश्च साङ्कृत्यो गर्गः कौण्डिन्य-बंपुलौ ।
सावर्णाङ्गिरसौ मौनः कौश्यो यौगन-जैमिनी
शक्त्रिः कात्यायनो वात्स्यो लोगाक्षिः शुनकस्तथा ।
अगस्तिः सोमराजश्च सन्दानो माधवो भृगुः
मैत्रायणिश्च शाण्डिल्य उपमन्युर्धनञ्जयः ।
मधुकुल्यो हारितश्च विदलो गोभिलस्तथा
कास्कायनश्च यास्कश्च वार्ष्णेयो ब्रह्मक्षत्रकः ।
युवनाश्वश्च वैण्यश्च जातूकर्णो ऽघमर्षणः
[[084]]
अम्बरीष इध्मवाहो लौहित्य इन्द्रकौशिकः ।
अजश्च निध्रुवो रेभ ऋषयो गोत्रकारकाः
मूल पाठ: Vallālacarita · Edition: Haraprasāda Śāstrī: Vallāla Caritam, Calcutta : Asiatic Society 1904 (Bibliotheca Indica, 164) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0