वल्लालचरित · अध्याय 2.14
इति वल्लालचरिते व्यासपुराणे वर्णधर्म्मादिकीर्त्तनं नाम त्रयोदशो ऽध्यायः ।
[[070]]
अथ चतुर्दशो ऽध्यायः
व्यास उवाच:
शस्ता स्त्री चारुसर्व्वाङ्गी मत्तमातङ्गगामिनी ।
गुरूरुजघना या च कृष्णसारमृगेक्षणा
सुनीलकेशी तन्वङ्गी विलोमाङ्गी मनोहरा ।
समभूमिस्पृशौ पादौ संहतौ च तथा स्तनौ
नाभिः प्रदक्षिणावर्त्ता गुह्यमश्वत्थपत्रवत् ।
गुल्फौ निगूढौ मध्येन नाभिरङ्गुष्ठमानिका ॥ वल्च्_2,14.3
गण्डैर्मधूकपुष्पाभैर्न शिराला न लोमशा ।
न संहतभ्रूकुटिला पतिप्राणा पतिप्रिया
बाला खेलनकैः काले दत्तैर्दिव्यफलाशनैः
मोदते युवती वस्त्रालङ्कारालिङ्गनादिभिः
हृष्येन्मध्यवयाः प्रौढा रतक्रीडासु कौशलैः ।
वृद्धा तु मधुरालापै र्गौरवेण च युज्यते
षोडशाब्दा भवेद्बाला त्रिंशताद्भूतयौवना ।
पञ्च पञ्चाशता प्रौढा वृद्धा स्त्री तदनन्तरम्
कामाधीना एव नार्य्यस्तदर्थं रत्नसंग्रहः ।
सेव्यास्ता नातिसेव्याश्च भूभुजा विषयैषिणा
स्त्रियां षोडशवर्षायां चतुर्व्विंशतिहायनः ।
बुद्धिमानुद्यमं कुर्य्याद्विशिष्टसुखकाङ्क्षया
तथा पूर्णाङ्गवीर्य्यौ तौ पुत्त्रं जनयतः परम् ।
सर्व्वेन्द्रियसमायुक्तं बलवन्तं शतायुषम्
निदाघशरदोर्ब्बला हिता विषयिणी मता ।
तरुणी शीतसमये मध्या वर्षावसन्तयोः
नित्यं बाला सेव्यमाना नित्यं वर्द्धयते बलम् ।
युवती ह्रासयेच्छक्तिं मध्योद्भावयते जराम्
सद्यो मांसं च शाल्यन्नं बालास्त्रीसेवनं घृतम् ।
क्षीरमुष्णोदके स्नानं सद्यः प्राणकराणि षट्
सेवेत कामतः कामी बलात् वाजीकृतो हिमे ।
प्रकामं तु निषेवेत सुरतं शिशिरागमे
शीते रात्रौ दिने ग्रीष्मे वसन्ते च दिवानिशि ।
वर्षायामम्बुदध्वाने काले शरदि सस्मरः
अभिकामः समुल्लास्य पूर्व्वमालिङ्गनादिभिः ।
समेयात् प्रमदां युक्त्या वाजीकरणवृंहितः
नित्यमुष्णाम्भसा स्नानं पयःपानं नवा स्त्रियः ।
राजानः पथ्यमेतद्वः सुस्निग्धमल्पभोजनम्
कपित्थचूर्णयोगेन तथा दध्ना सृजा तथा ।
घृतं सुगन्धि भवति दुग्धैः क्षिप्तैस्तथा यवैः
[[072]]
भोज्यस्य कल्पनैवं स्याद्गन्धमुक्तिः प्रदर्श्यते ।
शौचमाचमनं सम्यक् तथैव च विरेचनम्
भावना चैव पाकश्च बोधनं धूपनं तथा ।
वासनञ्चैव निर्द्दिष्टं कर्म्माष्टकमिदं स्मृतम्
कपित्थविल्वजम्ब्वाम्र-करवीरक पल्लवैः ।
कृत्वोदकन्तु यद्द्रव्यं शोचितं शौचनन्तु तत्
तेषामभावे शौचन्तु मृगदर्पाम्भसा भवेत् ।
नखं कुष्ठं घनं मांसं स्पृक्का शैलेयजं जलम्
तथैव कुङ्कुमं लाक्षा चन्दनागुरुनीरदम् ।
सरलं देवकाष्ठञ्च कर्परं कान्तया सह
बाला कुन्दुरकश्चैव गुग्गुलुः श्रीनिवासकः ।
सह सर्ज्जरसेनैव धूपद्रव्यैकविंशतिः
धूपद्रव्यगणादस्मादेकविंशाद्यथेच्छया ।
द्वे द्वे द्रव्ये समादाय सर्ज्जभागैर्नियोजयेत्
नखपिण्याकमलयैः संयोज्य मधुना तथा ।
धूपयोगा भवन्तीह यथावत् स्वेच्छया कृताः
त्वचं नाडीं फलं तैलं कुङ्कुमं ग्रन्थिपर्णकम् ।
शैलेयं तगरं कान्ताम् चोलकर्पूरमेव च
मासीं मुराञ्च कुष्ठञ्च स्नानद्रव्याणि निर्दिशेत् ।
एतभ्यस्तु समादाय द्रव्यत्रयमथेच्छया ।
मृगदर्पयुतं स्नानं कार्य्यं कन्दर्पवर्द्धनम्
त्वङ्मुरानलदैस्तुल्यैर्वासकार्द्धसमायुतैः ।
स्नानमुत्पलगन्धि स्यात् सतैलं कुङ्कुमायते
जातिपुष्पसुगन्धि स्यात् तगरार्द्धेन योजितम् ।
सद्वासकं स्याद्वकुलैस्तुल्यगन्धि मनोहरम्
मञ्जिष्ठा तगरं चोलं त्वचं व्याघ्रनखं नखम् ।
गन्धपत्रञ्च विन्यस्य गन्धतैलं भवेच्छुभम्
मल्लीभिर्गन्धितात् तैलं तिलात् स्यात् प्रमदाप्रियम् ।
तैलं निपीडितं घानौ तिलैः पुष्पाधिवासितैः ।
वासनात् पुष्पसदृशं गन्धेन तु भवेद्ध्रुवम्
एला-लवङ्ग-कक्कोल-जातीफल-निशाकराः ।
जातिपत्रिकया सार्द्धं स्वतन्त्रा मुखवासकाः
कर्पूरं कुङ्कुमं कान्ता मृगदर्पं हरेणुकम् ।
कक्कोलैलालवङ्गञ्च जाती कोशकमेव च
त्वक्पत्रं त्रुटिमुस्तौ च लतां कस्तुरिकं तथा ।
कण्टकानि लवङ्गस्य फलपत्रे च जातितः
कुटकञ्च फलं गृह्य कार्षिकाण्युपकल्पयेत् ।
तच्चूर्णे खदिरं सारं दद्यात्तुर्य्यन्तु वासितम्
सहकाररसेनास्मात् कर्त्तव्या गुटिकाः शुभाः ।
मुखे न्यस्ता सुगन्धास्ता मुखरोगविनाशकाः
पूगं प्रक्षालितं सम्यक् पञ्चपल्लववारिणा ।
शक्त्या तु गुटिका द्रव्यैर्वासितं मुखवासकम्
[[074]]
कटुकं दण्डकाष्ठञ्च गोमूत्रवासितं त्र्यहम् ।
कृतञ्च पूगवत् सम्यक् मुखसौगन्धिकारकम्
त्वक्पथ्ययोः समावंशौ शशिभागार्द्धसंयुतौ ।
नागवल्लीसमो भाति मुखवासो मनोहरः
एवं कुर्य्यात् सदा स्त्रीणां रक्षणं पृथिवीपतिः ।
न चासां विश्वसेज्जातु पुत्रमातुर्व्विशेषतः
मूल पाठ: Vallālacarita · Edition: Haraprasāda Śāstrī: Vallāla Caritam, Calcutta : Asiatic Society 1904 (Bibliotheca Indica, 164) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0