वल्लालचरित · अध्याय 2.13
इति वल्लालचरिते व्यासपुराणे पुरुवंशकीर्त्तनं नाम द्वादशो ऽध्यायः ।
अथ त्रयोदशो ऽध्यायः ।
व्यास उवाच:
वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।
सम्यक्संकल्पजः कामो धर्म्ममूलमिदं स्मृतम्
अध्यापनञ्चाध्ययनं यजनं याजनं तथा ।
दानं प्रतिग्रहं कर्म्म ब्राह्मणानामुदाहृतम्
श्रूतिस्मृती च विप्राणां चक्षुषी देवनिर्म्मिते ।
काणस्तत्रैकया हीनः द्वाभ्यामन्धः प्रकीर्त्तितः
वैवाहिकेग्नौ कुर्व्वीत गृह्यकर्म्म यथाविधि ।
पञ्चयज्ञविधानञ्च पक्तिञ्चान्वहिकीं गृही
अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ।
होमो दैवो बलिभोतो नृयज्ञो ऽतिथिपूजनम्
देवतातिथिभृत्यानां पित्ःणामात्मनश्च यः ।
न निर्व्वपति पञ्चानामुच्छ्वसन्न स जीवति
एकरात्रं वसन् विप्रः क्षत्रियश्चातिथिः स्मृतः ।
अनित्या हि स्थिति र्यस्मात्तस्मादतिथिरुच्यते
वैश्यशूद्रावपि प्राप्तौ कुटुम्बे ऽतिथिधर्म्मिणौ ।
भोजयेत् सहभृत्यै स्तावानृशंस्यं प्रदर्शयन्
[[064]]
स्वदारनिरतो नित्यं परदारविवर्ज्जितः ।
कृतहोमस्तु भुञ्जीत सायंप्रातरुदारधीः
सर्व्वतः प्रतिगृह्णीयादवृत्त्या कर्षितो द्विजः ।
न भवेद्दोषभाक् तेन ज्वलनार्कसमो हि सः
भूतानां रक्षणं दानमिज्याध्ययनमेव च ।
शिवार्चनं क्षत्रियाणां तथा नारायणार्च्चनम्
नित्योद्युक्तो दस्युवधे रणे कुर्य्यात् पराक्रमम् ।
नास्य कृत्यतमं किञ्चित् राज्ञो दस्युविनिग्रहात्
चाटभाटतस्करेभ्यो महासाहसिकादिभिः ।
पीड्यमानाः प्रजा रक्षेत् कायस्थैश्च विशेषतः
सम्मानदानसत्कारैः वैदिकान् वासयेत् सदा ।
राजन्यो धर्म्मकृत्यञ्च कुर्य्यादेव प्रयत्नतः
पण्डितं नीतिशास्त्रज्ञं नित्यञ्च प्रतिपालयेत् ।
नियोजयेत् सभामध्ये नित्यं सद्भिश्च संयुतः
संविशेत् तूर्य्यघोषेण प्रतिबुध्येत्तथैव च ।
शास्त्राणि चिन्तयेद्बुद्ध्या सर्व्वकर्त्तव्यतां तथा
दृष्ट्वा ज्योतिर्व्विदो वैद्यान् दद्यात् गां काञ्चनं महीम् ।
निवेशिकानि च तथा श्रोत्रियाणां गृहानि च
य एव धर्म्मो नृपतेः स्वराष्ट्रप्रतिपालने ।
तमेव कृत्स्नमाप्नोति परराष्ट्रं वशं नयन्
देवब्राह्मणभक्तश्च पितृकार्य्यपरायणः ।
स्वभार्य्यानिरतो नित्यं षड्भागार्हः सदा नृपः
एकांशेन बलं धार्य्यं दानमंशद्वयेन च ।
एकांशेन प्रकृतय एकांशेनाधिकारिणः
एकांशेनात्मभोगश्च कुटुम्बादिप्रपालनम् ।
आयस्यैवं षडविभागै र्व्ययं कुर्य्यान्महीपतिः
सन्ध्यामुपास्य कुरुते गीतं वाद्यं मनोहरम् ।
नृत्यगीतैश्च जग्धीं वा स्त्रीभिर्निशि सुखावहाम्
गोरक्षां कृषिवाणिज्यं कुर्य्याद्वैश्यो यथाविधि ।
दानं देयं यथाशक्त्या ब्राह्मणानाञ्च भोजनम्
दम्भमोहविनिर्म्मुक्तस्तथा वागनसूयकः ।
स्वदारनिरतो दान्तः परदारविवर्ज्जितः
धनैर्विप्रान् भोजयित्वा यज्ञकाले तु याजकान् ।
अप्रभुत्वञ्च वर्त्तेत धर्म्मेष्वादेहपातनात्
यज्ञाध्ययनदानानि कुर्य्यान्नित्यमतन्द्रितः ।
पितृकार्य्यपरश्चैव विष्णुशिवार्च्चनापरः
वर्णत्रयस्य शुश्रूषां कुर्य्याच्छूद्रः प्रयत्नतः ।
दासवद्ब्राह्मणानां च विशेषेण समाचरेत्
अयाचितप्रदाता स्यात् कृषिं वृत्त्यर्थमाश्रयेत् ।
शुद्धा तु वृत्तिस्तस्यैव कारु-चारण-कर्म्म च
पाकयज्ञविधानेन यजेद्देवानतन्द्रितः ।
तस्य तु द्विजशुश्रूषा परो धर्म्मः प्रकीर्त्तितः
धारणं जीर्णवस्त्रस्य विप्रस्योच्छिष्टभोजनम् ।
स्वदारेषु रतिश्चैव परदारविवर्जनम्
[[066]]
लवणं मधुतैलं च दधि तक्रं घृतं पयः ।
न दुष्येच्छूद्रजातीनां कुर्य्यात् सर्व्वस्य विक्रयम्
क्रियाभेदैस्तु सर्व्वेषां भृतिवृत्तिरनिन्दिता ।
सीरभेदैः कृषिः प्रोक्ता मन्वाद्यैर्ब्राह्मणादिषु
ब्राह्मणैः षोडशगबं चतुरूनं तथापरैः ।
द्विगवं वान्त्यजैः सीरं दृष्ट्वा भूमार्द्दवं तथा
भूमिं भित्वौषधिं छित्वा हत्वा कीटपिपीलिकाम् ।
पुनन्ति खलु यज्ञेन कर्षका देवपूजनात्
वैदिकैः कर्म्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम् ।
कार्य्यः शरीरसंस्कारः पावनः प्रेत्य चेह च
गर्भाधानमृतौ पुंसः सवनं स्पन्दनात् पुरा ।
तुर्य्ये ऽष्टमे वा सीमन्तो जनने जातकर्म्म च
निष्क्रमस्तृतीयमासि नाम व्युष्टे शताहनि ।
षष्ठे ऽन्नप्राशनं चूडा जन्यब्दे वा यथाकुलम्
कर्णवेधो व्रतादेशो वेदारम्भः क्रियाविधिः ।
केशान्तः स्नानमुद्वाहो विवाहाग्निपरिग्रहः
त्रेताग्निसंग्रहश्चेति संस्काराः षोडश स्मृताः ।
नवैताः कर्णवेधान्ताः मन्त्रवर्ज्जं क्रिया स्त्रियाः
विप्रो गर्भाष्टमे वर्षे क्षत्र एकादशे तथा ।
द्वादशे वैश्यजातिस्तु व्रतोपनयमर्हति
तस्य प्राप्तव्रतस्यायं कालः स्याद्विगुणाधिकः ।
वेदव्रतच्युतो व्रात्यः स व्रात्यस्तोममर्हति
ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः ।
गान्धर्ब्बो राक्षसश्चैव पैशाचश्चाष्टमो ऽधमः
एते धर्म्मास्तु चत्वारः पूर्व्वं विप्रे प्रकीर्त्तिताः ।
गान्धर्ब्बो राक्षसश्चैव क्षत्रियस्य प्रशस्यते
अप्रार्थितः प्रयत्नेन ब्राह्मस्तु परिकीर्त्तितः ।
प्रार्थितार्थप्रदानेन प्राजापत्यः प्रकीर्त्तितः
आसुरो द्रविणादानात् गान्धर्ब्बः समयान्मिथः ।
राक्षसो युद्धहरणात् पैशाचः कन्यकाच्छलात्
तिस्रस्तु भार्य्याः क्षत्रस्य भार्यैका ब्राह्मणस्य तु ।
एकैव भार्य्या वैश्यस्य शूद्रस्य च विधीयते
क्षत्रिया वैश्या शूद्रा च क्षत्रियस्य प्रकीर्त्तिता ।
एकैव भार्य्या विप्रस्य ब्राह्मणी तु विधीयते
वैश्यैव भार्य्या वैश्यस्य शूद्रा शूद्रस्य कीर्त्तिता ।
ब्राह्मणो नोद्वहेत् कन्यामसवर्णां कदाचन
ब्राह्मणाद्वैश्यकन्यायामम्बष्ठो यो व्यजायत ।
स तु शूद्रत्वमापन्नो विवहेन्न ततो विशाम्
शूद्राभार्य्यस्य पातित्यं राजन्यस्य यदुच्यते ।
नैतन्मम मतं ज्ञेयं सा तेनोन्नीयते यतः
पतेत् विप्रश्च वैश्यश्च शूद्रां कन्यामुदावहन् ।
पातित्यं नास्ति क्षत्रस्य शद्रूदारोपसंग्रहात्
विप्रकन्याविवाहो ऽपि कृतो राजर्षिभिः पुरा ।
तेजीयसां न दोषाय वह्नेः सर्व्वभुजो यथा
[[068]]
राजा नो नावमन्तव्यो नृबुद्ध्या मनुरब्रवीत् ।
महती देवता ह्येषा नररूपेण तिष्ठति
अनुष्ठितन्तु यद्देवैर्मुनिभिर्यदनुष्ठितम् ।
नानुष्ठेयं मनुष्यैस्तदुक्तं कर्म्म समाचरेत्
ऊढायां हि सवर्णायामविप्रां काममुद्वहेत् ।
तस्यामुत्पादितः पुत्रो न सवर्णात् प्रहीयते
क्षत्राज्जातः क्षत्रियायां क्षत्रियः स्यात् न संशयः ।
वैश्यायां च तथैव स्यात् शद्रायामपि चैव हि
यावन्न विन्दते जायां तावदर्द्धो भवेत्पुमान् ।
नार्द्धं प्रजायते सर्व्वं प्रजायेते इति श्रुतिः
सकामायान्तु कन्यायां सङ्गमे नास्त्यतिक्रमः ।
किन्त्वलंकृत्य सत्कृत्य स एवैनां समुद्वहेत्
सवर्णामुद्वहेत् भार्य्यां प्रथमं धर्म्मसिद्धये ।
ततोह्यप्रतिलोमेन यथाकामं वहेन्नृपः
विषाद्यथामृतं ग्राह्यममेध्यात् काञ्चनं यथा ।
नीचाद्यथोत्तमा विद्या स्त्रीरत्नं दुष्कुलात्तथा
स्त्रियोरत्नान्यथो विद्या धर्म्मः शौचं सुभाषितम् ।
विविधानि च शिल्पानि समादेयानि सर्व्वतः
यत्र नार्य्यस्तु पूज्यन्ते रमन्ते तत्र देवताः ।
यत्रैतास्तु न पूज्यन्ते सर्व्वास्तत्राफलाः क्रियाः
प्रजनार्थं महाभागा पूजार्हा गृहदीप्तयः ।
स्त्रियः श्रियश्च गेहेषु न विशेषो ऽस्ति कश्चन
उत्पादनमपत्यस्य जातस्य परिपालनम् ।
प्रत्यहं लोकयात्रायाः प्रत्यक्षं स्त्री निबन्धनम्
अपत्यं दारकर्म्माणि शुश्रषा रतिरुत्तमा ।
दाराधीनस्तथा स्वर्गः पित्ःणामात्मनश्च वै
मूल पाठ: Vallālacarita · Edition: Haraprasāda Śāstrī: Vallāla Caritam, Calcutta : Asiatic Society 1904 (Bibliotheca Indica, 164) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0