वल्लालचरित · अध्याय 2.12
इति वल्लालचरिते व्यासपुराणे सोमवंशवर्णनं नाम एकादशो ऽध्यायः ।
[[056]]
अथ द्वादशो ऽध्यायः ।
सिंहगिरिरुवाच:
शृणु राजन् व्यासप्रोक्तं वंशमुत्तमपौरुषम् ।
विस्तरेणानुपूर्व्व्या च यत्र जातो ऽसि पार्थिव
व्यास उवाच:
पुरोः पुत्रो महावीर्य्यो राजासीज्जनमेजयः ।
प्रचिन्वांस्तु सुतस्तस्य यः प्राचीमजयद्दिशम्
प्रचिन्वतः प्रवीरो ऽभुत् मनस्युस्तस्य चात्मजः ।
राजा चाभयदो नाम मनस्योरभवत् सुतः
तथैवाभयदस्यासीत् सुधन्वा नाम पार्थिवः ।
सुधन्वनो वहुगवः सम्पातिस्तस्य चात्मजः
सम्पातेस्तु रहम्पाती रौद्राश्वस्तस्य वै सुतः ।
रौद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनवः
ऋचेयुः प्रथमस्तेषां कृकनेयु र्द्वितीयकः ।
कक्षेयुः स्थण्डिलेयुश्च सन्नतेयुर्महामतिः
दशार्णेयुर्जलेयुश्च स्थलेयुश्च महाबलः ।
बलनित्यो बलेयुश्च रोद्राश्वसूनवो दश
कक्षेयोस्तनयास्त्वासन् त्रय एव महावलाः ।
सभानरश्चाक्षुषश्च परमन्थुस्तथैव च
सभानरस्य पुत्त्रस्तु विद्वान् कालानलो नृपः ।
कालानलस्य धर्म्मज्ञः सृञ्जयो नाम वै सुतः
सृञ्जयस्याभवत् पुत्रो वीरो राजा पुरञ्जयः ।
पुरञ्जयात्मजः श्रीमान् राजाभूज्जनमेजयः
महाशालस्तु राजर्षिर्जनमेजयदेहजः ।
देवेषु स परिज्ञातः प्रतिष्ठितयशा भुवि
महामना नाम सुतो महाशालस्य धार्म्मिकः ।
जज्ञे वीरः शूरगणैः पूजितः स महामनाः
महामनास्तु पुत्रौ द्वौ जनयामास सत्तमः ।
उशीनरञ्च धर्म्मज्ञं तितिक्षुञ्च महाबलम्
उशीनरस्य पत्न्यस्तु पञ्चराजर्षिवंशजाः ।
मृगा कृमिर्नवा दर्व्वा पञ्चमी च दृषद्वती
उशीनरस्य पुत्रास्तु पञ्च तासु कुलोद्वहाः ।
तपसा चैव महता जाता वृद्धस्य चात्मजाः
नृगायान्तु नृगः पुत्रः कृम्यां कृमिरजायत ।
नवायास्तु नवः पुत्रो दर्व्वायाः सुव्रतो ऽभवत्
दृषद्वत्यास्तु संजज्ञे शिविरौशीनरो नृपः ।
शिवेस्तु शिवयः ख्याताः यौधेयास्तु मृगस्य ह
[[058]]
नवस्य नवराष्ट्रन्तु कृमेस्तु कृमिला पुरी ।
सुव्रतस्य तथाम्बष्ठाः शिविपुत्रान् निबोधत
शिवेस्तु शिवयः पुत्राश्चत्वारो लोकविश्रुताः ।
वृषदर्भः सुवीरश्च कैकेयो मद्रकस्तथा
तेषां जनपदाः स्फीताः कैकेया मद्रकास्तथा ।
वृषदर्भाः सुवीराश्च तितिक्षोः शृणुत प्रजाः
तैतिक्षवो भवद्राजा पूर्वस्यां दिशि पार्थिवाः ।
उषद्रथो महासत्वः फेणस्तस्य सुतो ऽभवत्
फेणात्त सुतपा जज्ञे सुतः सुतपसो वलिः ।
जातो मानुषयौनौ स नृपतिः काञ्चनेषुधिः
महायोगी स तु बलिर्बभूव नृपतिः पुरा ।
पुत्रानुत्पादयामास पञ्च वंशकरान् भुवि
अङ्गः प्रथमतो जज्ञे वङ्गः सुह्मस्तथैव च ।
पुण्ड्रः कलिङ्गश्च तथा बालेयं क्षत्रमुच्यते
बालेया ब्राह्मणाश्चैव तस्य वंशकरा भुवि ।
बलेस्तु ब्रह्मणा दत्तो वरः प्रीतेन धीमता
महायोगित्वमायुश्च कल्पस्य परिमाणतः ।
संग्रामे चाप्यजेयत्वं धर्म्मे चैव प्रधानता ।
त्रैलोक्यदर्शनञ्चापि प्राधान्यं प्रसवे तथा
बले चाप्रतिमत्वं वै धर्म्मतत्त्वाभिदर्शनम् ।
चतुरो नियतान् वर्णान् त्वञ्च स्थापयितेति ह
इत्युक्ते विभुना राजा बलिः शान्तिं परां ययौ ।
बलिस्तानभिषिच्येह पञ्चपुत्रानकल्मषान्
कृतार्थो योगयुक्तात्मा योगमाश्रित्य स प्रभुः ।
अधृष्यः सर्व्वभूतानाम् कालापेक्षी चरन्नृषिः
कालेन महता धीरः स्वञ्च स्थानमुपागमत् ।
तेषां जनपदाः पञ्च अङ्गा वङ्गा ससुह्मका
कलिङ्गाः पुण्ड्रकाश्चैव त्वङ्गस्य शृणुत प्रजाः ।
अङ्गपुत्रो महानासीत् राजेन्द्रो दधिवाहनः
दधिवाहनपुत्रस्तु राजा दिविरथो ऽभवत् ।
विद्वान् धर्म्मरथो नाम तस्य चित्ररथः सुतः
तेन धर्म्मरथेनाथ तदा विष्णुपदे गिरौ ।
यजता सह शक्रेण सोमः पीतो महात्मना
अथ चित्ररथस्यापि पुत्रो दशरथो ऽभवत् ।
लोमपाद इति ख्यातो यस्य शान्ता सुताभवत्
तस्य दाशरथिर्वीरः चतुरङ्गो महायशाः ।
ऋष्वशृङ्गप्रसादेन जज्ञे कुलविवर्द्धनः
चतुरङ्गस्य पुत्रस्तु पृथुलाक्ष इति श्रुतः ।
पृथुलाक्षसुतो राजा चम्पो नाम महायशाः
चम्पस्य तु पुरी चम्पा या मालिन्यभवत्पुरा ।
पूर्णभद्रप्रसादेन हर्य्यक्षोस्य सुतो ऽभवत्
ततो वैभाण्डकिस्तस्य वारणं शत्रुवारणम् ।
भुव्यवतारयामास मन्त्रैर्वाहनमुत्तमम्
[[060]]
हर्य्यक्षस्य तु दायादो राजा भद्ररथः स्मृतः ।
पुत्रो भद्ररथस्यासीत् वृहत्कर्म्मा प्रजेश्वरः
वृहदर्भः सुतस्तस्य यस्मात् यज्ञे वृहन्मनाः ।
वृहन्मनास्तु राजेन्द्रो जनयामास वै सुतम्
नाम्ना जयद्रथं वीरं यस्माद्दृढरथो नृपः ।
आसीत् दृढरथस्यापि विश्वजित् कुलनन्दनः
दायादस्तस्य कर्णस्तु विकर्णस्तस्य चात्मजः ।
तस्य पुत्रशतन्त्वासीदङ्गानां कुलवर्धनम्
वृहदर्भसुतो यस्तु राजा नाम्ना वृहन्मनाः ।
तस्य पत्नीद्वयं चासीत् वैनतेयसुते शुभे
यशोदेवी च सत्या च ताभ्यां वंशस्तु विद्यते ।
जयद्रथस्तु राजेन्द्रो यशोदेव्यां व्यजायत
सत्यायां विजयो नाम ब्रह्मक्षत्रोत्तरः स्मृतः ।
विजयस्य धृतिः पुत्रस्तस्य पुत्रो धृतव्रतः
धृतव्रतस्य पुत्रस्तु सत्यकर्म्मा महायशाः ।
तस्य पुत्रस्त्वधिरथः सुत इत्यपराभिधः
यः कर्णं प्रतिजग्राह तेन कर्णस्तु सूतजः ।
कर्णस्य वृषसेनस्तु पृथुसेनस्तदात्मजः
पृथुसेनान्वये वीरो वीरसेनो भविष्यति ।
गौडब्राह्मणकन्यां यः सोमटामुद्वहिष्यति
तदन्ववायजन्मानो राजानो ऽमितपौरुषाः ।
सप्तद्वीपपतीन् वीराः करिष्यन्ति वशानुगान्
तद्वंशे सामन्तसेनो भूत्वा पालयिता वली ।
आविन्ध्यादासेतुबन्धाद्धरित्रीं सागराम्बराम्
सिंहगिरिरुवाच:
तस्माद्धेमन्तसेनो ऽभूद्राजन् तव पितामहः ।
धाम धाम्नां महिम्नाञ्च द्विषद्बलहुताशनः
तस्माद्विजयसेनो ऽभूच्चोडगङ्गसखो नृपः ।
यो ऽजयत् पृथिवीं कृत्स्नां चतुःसागरमेखलाम्
तस्य पुत्रो ऽसि वल्लाल सार्व्वभौममहीक्षितः ।
प्रत्यर्थि-पृथिवीपाला यस्य ते शरणं गताः
ब्रह्मक्षत्रस्य यो योनिर्व्वंशः क्षत्रियपूर्व्वजः ।
सेनवंशस्ततोजातः यस्मिञ्जातो ऽपि पाण्डव
द्वेष्टि यः पाण्डवं मूढो दुर्बुद्धिश्च विनिन्दति ।
स विष्ठायां कृमिर्भूत्वा पच्येत नरके चिरम्
स वल्लभानन्दचन्द्रश्चन्द्रमायुतवल्लभः ।
तस्येदानीं महाराज कार्य्यं भवति शासनम्
तस्यास्ति कन्यकारत्नं रूपेणानुपमं भुवि ।
सुप्रभामिव नाभागस्तां कन्यां हर पौरव
[[062]]
उच्चन्द्रे सा याति वाला गौरीं स्नातुं यदा यदा ।
तदा तदा त्वरयति द्रष्टुं तामरुणो ऽरुणम्
दण्डद्वयावशेषायां रजन्यामरुणोदयम् ।
विलोक्य घरियारेषु विश्वसन्ति न नैगमाः
मूल पाठ: Vallālacarita · Edition: Haraprasāda Śāstrī: Vallāla Caritam, Calcutta : Asiatic Society 1904 (Bibliotheca Indica, 164) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0