वल्लालचरित · अध्याय 2.11
इति वल्लालचरिते व्यासपुराणे स्वायम्भुववंशकथनं नाम दशमो ऽध्यायः ।
[[050]]
एकादशो ऽध्यायः
सिंहगिरिरुवाच:
ब्रह्मणो मानसादत्रिः सोमस्तत्पुत्रतां गतः ।
तस्य वंशं प्रवक्ष्यामि यत्र जातो ऽसि पार्थिव
व्यास उवाच:
कृत्वा सोमो राजसूयं त्रैलोक्यं दक्षिणां ददौ ।
सदस्येभ्यश्च मुख्येभ्यो ब्रह्मर्षिः परन्तपाः
समाप्तेवभृथे सोमं तद्रूपालोकनेप्सवः ।
कामवाणाभितप्ताङ्ग्यो नवदेव्यः सिषेविरे
शिनीवाली कर्द्दमञ्च हविष्मन्तं क्रतुः स्वयम् ।
द्युतिर्विभावसुं त्यक्त्वा पुष्टिर्धातारमव्ययम्
प्रभा प्रभाकरं त्यक्त्वा वसुर्मारीचिकाश्यपम् ।
कीर्त्तिर्जयन्तं भर्त्तारं नन्दीं त्यक्त्वा पतिं धृतिः ।
लक्ष्मीनारायणं त्यक्त्वा सोममेवाभजत् तदा
सोमो ऽपि कामयामास स्वकीया इव तास्तदा ।
वृहस्पतेः स वै भार्य्यां तारां नाम यशस्विनीम्
जहार तरसा सोमो ह्यवमत्याङ्गिरः सुतम् ।
स याच्यमानो देवैश्च सोमो देवर्षिर्भिः सह
आङ्गिरसे तदा तस्मै तारां नैव व्यवसर्ज्जयत् ।
स संरब्धस्ततस्तस्मिन् देवाचार्यो वृहस्पतिः
उशनास्तस्य जग्राह पार्ष्णिमाङ्गिरसस्तदा ।
स हि शिष्यो महातेजाः पितुः पूर्व्वो वृहस्पतेः
तेन स्नेहेन भगवान् रुद्रस्तस्य वृहस्पतेः ।
पार्ष्णिग्राहो ऽभवद्देवः प्रगृह्मायगवं धनुः
तेन ब्रह्मशिरो नाम परमास्त्रं महात्मना ।
उद्दिश्य दैत्यानुत्सृष्टं येनैषां नाशितं यशः
तत्र युद्धमभूद्घोरं प्रख्यातं तारकामयम् ।
देवानां दानवानाञ्च लोकक्षयकरं महत्
तत्र शिष्टास्तु ये देवाः तुषिताश्चैव पार्थिवाः ।
ब्रह्माणं शरणं जग्मुरादिदेवं सनातनम्
ब्रह्मा निवार्योशनसं तारामाङ्गिरसे ददौ ।
तामन्तःप्रसवां दृष्ट्वा गर्भं त्यजाब्रवीद्गुरुः
गर्भस्त्यक्तः प्रदीप्तो ऽथ प्राहाहं सोमसम्भवः ।
एवं सोमाद्वुधः पुत्रः पुत्रस्तस्य पुरूरवाः
उर्व्वश्यां जज्ञिरे यस्य पुत्राः सप्त महात्मनः ।
गन्धर्व्यां सुमहात्मानः आयुर्धीमानमावसुः
विश्वायुश्चैव धर्म्मात्मा श्रुतायुश्च तथापरः ।
दृढायुश्च वनायुश्च शतायुश्चोर्व्वशीसुताः
स्वर्भानुतनयायां तु प्रभायां जज्ञिरे पुरा ।
[[052]]
सिंहगिरिरुवाच:
तेषां वंशेषु वल्लाल महात्मानो महौजसः ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा जाताः सहस्रशः
व्यास उवाच:
आयुषः नहुषः पुत्रो वृद्धशर्म्मा ततः परम् ।
रम्भो रजिरनेनाश्च रजेः पुत्रशतं ह्यभूत्
राजेयमिति विख्यातं विष्णुदत्तवरो रजिः ।
युद्धे देवासुरे दैत्यानबधीत् सुरयाचितः
उत्पन्ना पितृकन्यायां विरजायां महौजसः ।
नहुषस्य सुताः सप्त षडिन्द्रोपमतेजसः
यतिर्ययातिः संयाति रायातिः पाञ्चिको भवः ।
सुयातिः षष्टस्तेषां वै ययातिः पार्थिवो ऽभवत्
यतिस्तु मोक्षमास्थाय ब्रह्मभूतो ऽभवन्मुनिः ।
तेषां ययातिः पञ्चानां विजित्य वसुधामिमाम् ।
देवयानीमुशनसः सुतां भार्य्यामवाप सः
शर्म्मिष्ठामासुरीं चैव तनयां वृषपर्व्वणः ।
यदुञ्च तुर्व्वसुञ्चैव देवयानी व्यजायत ।
दुह्युं चानुं पुरुञ्चैव शर्म्मिष्ठा वार्षपर्व्वणी
यदुः पुरुश्चाभवतां तेषां वंशविवर्द्धनौ ।
शृणुताथ यदोस्तस्य वंशमद्भुतपौरुषम्
बभूवुस्तु यदोः पुत्राः पञ्च देवसुतोपमाः ।
सहस्रदः पयोदश्च क्रोष्टा नीलो ऽञ्जिकस्तथा
सहस्रदस्य दायादास्त्रयः परमधार्म्मिकाः ।
हैहयश्च हयश्चैव राजा वेणुहयस्तथा
हैहयस्याभवत्पत्नी धर्म्मनेत्र इति श्रुतः ।
धर्म्मनेत्रस्य कार्त्तस्तु साहञ्जस्तस्य चात्मजः ।
साहञ्जनी नाम पुरी तेन राज्ञा निवेशिता
साहञ्जस्य तु दायादो महिष्मान्नाम पार्थिवः ।
माहीष्मती नाम पुरी तेन राज्ञा निवेशिता
आसीन्महिष्मतः पुत्रो भद्रश्रेण्यः प्रतापवान् ।
वाराणस्यधिपो राजा पुराणे परिकीर्त्तितः
भद्रश्रेण्यस्य दायादो दुर्दमो नाम विश्रुतः ।
दुर्दमस्य सुतो राजा कणको नाम विश्रुतः
कणकात् कृतवीर्य्यस्तु कृताग्निः करवीरकः ।
कृतौजाश्च चतुर्थो ऽभूत् कृतवीर्य्यादथार्ज्जुनः
यः स बाहुसहस्रेण सप्तद्वीपेश्वरो भवत् ।
जिगाय पृथिवीमेको रथेनादित्यवर्च्चसा
लङ्केशं मोहयित्वा तु सबलं रावणं बलात् ।
असौ बद्ध्वा धनुर्ज्याभि रुत्सिक्तं पञ्चभिः शरैः
निर्ज्जित्यैव समानीय माहिष्मत्यां बबन्ध तम् ।
तस्य बाहुसहस्रन्तु युध्यतो भुवनेश्वराः ।
योगाद्योगेश्वरस्यैव प्रादुर्भवति मायया
अहो वत मृधे वीर्य्यं भार्गवो ऽस्य यदाच्छिनत् ।
राज्ञो बाहुसहस्रन्तु हैमतालवनं यथा
[[054]]
जामदग्नात्तदा रामात् बाहुजान् क्षत्रियान् घ्नतः ।
कार्त्तवीर्य्यस्य महिषी पलायत सुदारुणात्
अन्तर्व्वत्नी तु सा देवी सुषुवे कौशिकाश्रमे ।
पुत्रं सुभौमनामानम् बालार्कमिव सुन्दरम्
स मात्रा वर्द्धितः काले पुत्रः सरसिजाननः ।
कौशिकात् प्रतिजग्राह धनुर्वेदं महाभुजः
ब्राह्मणं पितृहन्तारं श्रुत्वा मातृमुखाद्युवा ।
जगाम ब्राह्मणान् हन्तुं दिक्षु क्रोधारुणेक्षणः
एकविंशतिवारान् स महीमब्राह्मणामिमाम् ।
चकारातो न विद्यन्ते ब्राह्मणा मुखजाः कलौ
शवरान् कढुकैवर्त्तान् विलोक्य भार्गवस्ततः ।
अब्राह्मण्ये तदा देशे तेषां सूत्रमकल्पयत्
तुष्यन्ति भूषणैर्नार्य्यो गावः स्वच्छन्दचारतः ।
कुञ्जराः पांशुवर्षेण किं त्वेते परनिन्दया
जामदग्न्यं ततो युद्धे जघानार्ज्जुननन्दनः ।
एवं स ब्राह्मणान् जित्वा सुभीमो ऽभूज्जयध्वजः
ततो विप्राः सुतार्थिन्यः क्षत्रियानुपतस्थिरे ।
जातयो जज्ञिरे तासु कदम्बपल्लवादयः
ब्रह्महत्या पापविद्धो निर्वृतिं सो ऽलभन्नृपः ।
अयष्ट वाजिमेधेन यज्ञं पापविनाशनम्
तस्य ययोः प्रतिकृतिरद्याप्यस्ति शिलामयी ।
माहिष्मतीपुरे रम्ये नर्म्मदातटिनीतटे
कार्त्तवीर्य्यस्य तु शतं पुत्राणाम् पञ्च वै पराः ।
शूरसेनश्च शूरश्च धृष्टोक्तः कृष्ण एव च ।
जयध्वज इति ख्यातः सुभौमश्च महावलः
जयध्वजात् तालजङ्घः तालजङ्घात् शतं सुताः ।
तालजङ्घा इति ख्याताः शूरा उत्तमपौरुषाः
तेषां कुले ऽतिविमले हेहयानां महात्मनाम् ।
वीतिहोत्राः स्वयं जाताः भोजाश्चावन्तयः स्मृताः
तौण्डिकेयाश्च विख्यातास्तालजङ्घास्तथैव च ।
भरताश्च सुजाताश्च पुराणे कथिता मया
वृषप्रभृतयो वीराः यादवाः पुण्यकर्म्मिणः ।
वृषो वंशधरस्तत्र तस्य पुत्रो ऽभवन्मधुः
मधोः पुत्रशतं त्वासीत् वृषणस्तस्य वंशकृत् ।
वृषणात् वृष्णयः सर्व्वे मधोस्तु माधवाः स्मृताः
यादवाश्च यदोर्जाता वहुत्वान्नानुकीर्त्त्यते ।
तुर्व्वसोर्यवना जाता भोजा द्रुह्योः सुताः स्मृताः ।
अनोर्म्लेच्छजातयस्तु पुरोस्तु पौरवाः स्मृताः
मूल पाठ: Vallālacarita · Edition: Haraprasāda Śāstrī: Vallāla Caritam, Calcutta : Asiatic Society 1904 (Bibliotheca Indica, 164) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0