भाषा

ENहिગુ
ग्रंथ पाठ

वल्लालचरित · अध्याय 2.10

2.10.1

इति वल्लालचरिते व्यासपुराणे सृष्टिविसृष्टिकथनं नाम नवमो ऽध्यायः ।
[[046]]
अथ दशमा ऽध्यायः
व्यास उवाच:
विराजमसृजत्कालः सो ऽसृजत् पुरुषं विराट् ।
पुरुषं तं मनुं विद्धि विराज ऊरुसम्भवम्

2.10.2

स सृष्ट्वा तु प्रजास्त्वेव आपवः स प्रजापतिः ।
लब्धवान् पुरुषः पत्नीम् शतरूपामयोनिजाम्

2.10.3

वैराजात् पुरुषात् वीरं शतरूपा व्यजायत ।
प्रियव्रतोत्तानपादौ वीरात् काम्या व्यजायत

2.10.4

काम्या नाम महाभागा कर्दमस्य प्रजापतेः ।
कन्या पुत्राश्च चत्वारः सम्राट् कुक्षि र्विराट् प्रभुः

2.10.5

प्रियव्रतं समासाद्य पतिं सा जनयत् सुतान् ।
उत्तानपादं जग्राह पुत्त्रमत्रिः प्रजापतिः

2.10.6

उत्तानपादाच्चतुरः सुनृता सुषुवे सुतान् ।
धर्म्मस्य कन्या सुश्रोणी सुनृता नाम विश्रुता

2.10.7

उत्पन्ना वाजिमेधेन ध्रुवस्य जननी शुभा ।
ध्रुवञ्च कीर्त्तिमन्तञ्च आयुष्मन्तं वसुन्तथा ।
उत्तानपादो ऽजनयत् सुनृतायां प्रजापतिः

2.10.8

सप्तर्षीणां पुरःस्थानं ध्रुवश्च तपसाप्तवान् ।
तस्मात् श्लिष्टिञ्च भव्यञ्च ध्रुवाच्छम्भुर्व्यजायत

2.10.9

श्लिष्टेराधत्त सुच्छाया पञ्चपुत्रानकल्मषान् ।
रिपुं रिपुञ्जयं रिप्रं वृकलं वृकतेजसम्

2.10.10

रिपोराधत्त वृहती चाक्षुषं सर्व्वतेजसम् ।
अजीजनत् पुष्करिण्यां वीरण्यां चाक्षुषो मनुम्

2.10.11

प्रजापेतरात्मजायामरण्यस्य महात्मनः ।
मनोरजायन्त दश नड्वलायां महौजसः

2.10.12

कन्यायां मानवश्रेष्ठा वैराजस्य प्रजापतेः ।
ऊरुः पुरुः शतद्युम्नस्तपस्वी सत्यवाक् कविः

2.10.13

अग्निष्टुरतिरात्रश्च सुद्युम्नश्चेत्यमी नव ।
अभिमन्युश्च दशमो नड्वलायां महौजसः

2.10.14

ऊरोरजनयत् पुत्रान् षडाग्नेयी महाप्रभान् ।
अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसं गयम्

2.10.15

अङ्गात् सुनीथकन्यायां वेण एको व्यजायत ।
वेणस्य मथिते पाणौ सम्बभूव पृथुर्नृपः

2.10.16

पृथु र्वैण्यस्तदा चेमां ररक्ष क्षत्रपूर्व्वजः ।
राजसूयाभिषिक्तानामाद्यः स पृथिवीपतिः

2.10.17

तस्माच्चैव समुत्पन्नौ निपुणौ सुतमागधौ ।
पृथोः पुत्रौ तु धर्म्मज्ञौ जज्ञाते ऽन्तर्द्धिपालिनौ

2.10.18

[[048]]
शिखण्डिनी हविर्धानमन्तर्द्धामाद्व्यजायत ।
हविर्धानात् षडाग्नेयी धीषणा जनयत् सुतान्

2.10.19

प्राचीनवर्हिषं शुक्रं गयं कृष्णं व्रजाजिनौ ।
प्राचीनवर्हिर्भगवान् महानासीत् प्रजापतिः

2.10.20

समुद्रतनयायान्तु कृतदारो ऽभवत् प्रभुः ।
सुवर्णाधत्त सामुद्री दश प्राचीनवर्हिषः

2.10.21

सर्व्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः ।
प्रजापतित्वं सम्प्राप्य तुष्टाः प्राचीनवर्हिषः

2.10.22

भू खं व्याप्तं हि तरुभिस्तांस्तरूनदहंश्च ते ।
द्रुमक्षयमथो बुद्ध्वा किञ्चिच्छिष्टेषु शाखिषु ।
उपगम्याब्रवीदेतान् राजा सोमः प्रजापतीन्

2.10.23

कोपं यच्छत दास्यन्ति कन्यां वो मारिषां वराम् ।
तपस्विनो मुनेः कण्डोः प्रम्लोचायां ममैव च

2.10.24

भविष्यं जानता सृष्टा भार्य्या वो ऽस्तु कुलङ्करी ।
अस्यामुत्पत्स्यते दक्षः प्रजाः संवर्द्धयिष्यति

2.10.25

प्रचेतसस्तां जगृह दंक्षो ऽस्याञ्च ततो ऽभवत् ।
दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः

2.10.26

दक्षो जज्ञे महातेजाः सोमस्यांशेन भूमिपाः पुत्रानुत्पादयामास शतशो ऽथ सहस्रशः ।
हर्य्यश्य नाम दक्षस्य सहस्राणि च पञ्च च पुत्राणां वेदितुं पृथ्व्याः प्रमाणं हि गतादिशः

2.10.27

ततो ऽन्यपुत्रसाहस्रं तेषामन्वेषणे गतम् ।
अद्यापि न निवर्त्तन्ते समुद्रेभ्य इवापगाः

मूल पाठ: Vallālacarita · Edition: Haraprasāda Śāstrī: Vallāla Caritam, Calcutta : Asiatic Society 1904 (Bibliotheca Indica, 164) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc