भाषा

ENहिગુ
ग्रंथ पाठ

वाक्यपदीय · अध्याय 3.7

3.7.1

स्वाश्रये समवेतानां तद्वद् एवाश्रयान्तरे
क्रियाणाम् अभिनिष्पत्तौ सामर्थ्यं साधनं विदुः ॥

3.7.2

शक्तिमात्रासमूहस्य विश्वस्यानेकधर्मणः
सर्वदा सर्वथा भावात् क्व चित् किं चिद् विवक्ष्यते ॥

3.7.3

साधनव्यवहारश् च बुद्ध्यवस्थानिबन्धनः
सन्न् असन् वार्थरूपेषु भेदो बुद्ध्या प्रकल्प्यते ॥

3.7.4

बुद्ध्या समीहितैकत्वान् पञ्चालान् कुरुभिर् यदा
पुनर् विभजते वक्ता तदापायः प्रतीयते ॥

3.7.5

शब्दोपहितरूपांश् च बुद्धेर् विषयतां गतान्
प्रत्यक्षम् इव कंसादीन् साधनत्वेन मन्यते ॥

3.7.6

बुद्धिप्रवृत्तिरूपं च समारोप्याभिधातृभिः
अर्थेषु शक्तिभेदानां क्रियते परिकल्पना ॥

3.7.7

व्यक्तौ पदार्थे शब्दादेर् जन्यमानस्य कर्मणः
साधनत्वं तथा सिद्धं बुद्धिरूपप्रकल्पितम् ॥

3.7.8

स्वतन्त्रपरतन्त्रत्वे क्रमरूपं च दर्शितम्
निरीहेष्व् अपि भावेषु कल्पनोपनिबन्धनम् ॥

3.7.9

शक्तयः शक्तिमन्तश् च सर्वे संसर्गवादिनाम्
भावास् तेष्व् अस्वशब्देषु साधनत्वं निरूप्यते ॥

3.7.10

घटस्य दृशिकर्मत्वे महत्त्वादीनि साधनम्
रूपस्य दृशिकर्मत्वे रूपत्वादीनि साधनम् ॥

3.7.11

स्वैः सामान्यविशेषैश् च शक्तिमन्तो रसादयः
नियतग्रहणा लोके शक्तयस् तास् तथाश्रयैः ॥

3.7.12

इन्द्रियार्थमनःकर्तृ संबन्धः साधनं क्व चित्
यद् यदा यदनुग्राहि तत् तदा तत्र साधनम् ॥

3.7.13

स्वशब्दैर् अभिधाने तु स धर्मो नाभिधीयते
विभक्त्यादिभिर् एवासाव् उपकारः प्रतीयते ॥

3.7.14

निमित्तभावो भावानाम् उपकारार्थम् आश्रितः
नतिर् आवर्जनेत्य् एवं सिद्धः साधनम् इष्यते ॥

3.7.15

स तेभ्यो व्यतिरिक्तो वा तेषाम् आत्मैव वा तथा
व्यतिरेकम् उपाश्रित्य साधनत्वेन कल्प्यते ॥

3.7.16

संदर्शनं प्रार्थनायां व्यवसाये त्व् अनन्तरा
व्यवसायस् तथारम्भे साधनत्वाय कल्पते ॥

3.7.17

पूर्वस्मिन् या क्रिया सैव परस्मिन् साधनं मता
संदर्शने तु चैतन्यं विशिष्टं साधनं विदुः ॥

3.7.18

निष्पत्तिमात्रे कर्तृत्वं सर्वत्रैवास्ति कारके
व्यापारभेदापेक्षायां करणत्वादिसंभवः ॥

3.7.19

पुत्रस्य जन्मनि यथा पित्रोः कर्तृत्वम् उच्यते
अयम् अस्याम् इयं त्व् अस्माद् इति भेदो विवक्षया ॥

3.7.20

गुणक्रियाणां कर्तारः कर्त्रा न्यक्कृतशक्तयः
न्यक्तायाम् अपि संपूर्णैः स्वैर् व्यापारैः समन्विताः ॥

3.7.21

करणत्वादिभिर् ज्ञाताः क्रियाभेदानुपातिभिः
स्वातन्त्र्यम् उत्तरं लब्ध्वा प्रधाने यान्ति कर्तृताम् ॥

3.7.22

यथा राज्ञा नियुक्तेषु योद्धृत्वं योद्धृषु स्थितम्
तेषु वृत्तौ तु लभते राजा जयपराजयौ ॥

3.7.23

तथा कर्त्रा नियुक्तेषु सर्वेष्व् एकार्थकारिषु
कर्तृत्वं करणत्वादेर् उत्तरं न विरुध्यते ॥

3.7.24

अनाश्रिते तु व्यापारे निमित्तं हेतुर् इष्यते
आश्रितावधिभावं तु लक्षणे लक्षणं विदुः ॥

3.7.25

द्रव्यादिविषयो हेतुः कारकं नियतक्रियम्
कर्ता कर्त्रन्तरापेक्षः क्रियायां हेतुर् इष्यते ॥

3.7.26

क्रियायै करणं तस्य दृष्टः प्रतिनिधिस् तथा
हेत्वर्था तु क्रिया तस्मान् न स प्रतिनिधीयते ॥

3.7.27

प्रातिलोम्यानुलोम्याभ्यां हेतुर् अर्थस्य साधकः
तादर्थ्यम् आनुलोम्येन हेतुत्वानुगतं तु तत् ॥

3.7.28

सर्वत्र सहजा शक्तिर् यावद्द्रव्यम् अवस्थिता
क्रियाकाले त्व् अभिव्यक्तेर् आश्रयाद् उपकारिणी ॥

3.7.29

कुड्यस्यावरणे शक्तिर् अस्यादीनां विदारणे
सर्वदा स तु सन् धर्मः क्रियाकाले निरूप्यते ॥

3.7.30

स्वा"न्गसंयोगिनः पाशा दैत्यानां वारुणा यथा
व्यज्यन्ते विजिगीषूणां द्रव्याणां शक्तयस् तथा ॥

3.7.31

तैक्ष्ण्यगौरवकाठिन्य संस्थानैः स्वैर् असिर् यदा
छेद्यं प्रति व्याप्रियते शक्तिमान् गृह्यते तदा ॥

3.7.32

प्रा"न् निमित्तान्तरोद्भूतं क्रियायाः कैश् चिद् इष्यते
साधनं सहजं कैश् चित् क्रियान्यैः पूर्वम् इष्यते ॥

3.7.33

प्रवृत्तिर् एव प्रथमं क्व चिद् अप्य् अनपाश्रिता
शक्तीर् एकाधिकरणे स्रोतोवद् अपकर्षति ॥

3.7.34

अपूर्वं कालशक्तिं वा क्रियां वा कालम् एव वा
तम् एवम्लक्सनम् भावम् के चिद् आहुह् कथम् च न ॥

3.7.35

नित्याः षट् शक्तयो ऽअन्येषां भेदाभेदसमन्विताः
क्रियासंसिद्धये ऽर्थेषु जातिवत् समवस्थिताः ॥

3.7.36

द्रव्याकारादिभेदेन ताश् चापरिमिता इव
दृश्यन्ते तत्त्वम् आसां तु षट् शक्तीर् नातिवर्तते ॥

3.7.37

निमित्तभेदाद् एकैव भिन्ना शक्तिः प्रतीयते
षोढा कर्तृत्वम् एवाहुस् तत्प्रवृत्तेर् निबन्धनम् ॥

3.7.38

तत्त्वे वा व्यतिरेके वा व्यतिरिक्तं तद् उच्यते
शब्दप्रमाणको लोकः स शास्त्रेणानुगम्यते ॥

3.7.39

परमार्थे तु नैकत्वं पृथक्त्वाद् भिन्नलक्षणम्
पृथक्त्वैकत्वरूपेण तत्त्वम् एव प्रकाशते ॥

3.7.40

यत् पृथक्त्वम् असंदिग्धं तद् एकत्वान् न भिद्यते
यद् एकत्वम् असंदिग्धं तत् पृथक्त्वान् न भिद्यते ॥

3.7.41

द्यौः क्षमा वायुर् आदित्यः सागराः सरितो दिशः
अन्तःकरणतत्त्वस्य भागा बहिर् अवस्थिताः ॥

3.7.42

कालविच्छेदरूपेण तद् एवैकम् अवस्थितम्
स ह्य् अपूर्वापरो भावः क्रमरूपेण लक्ष्यते ॥

3.7.43

दृष्टो ह्य् अव्यतिरेके ऽपि व्यतिरेको ऽन्वये ऽसति
वृक्षाद्यर्थान्वयस् तस्माद् विभक्त्यर्थो ऽन्य इष्यते ॥

3.7.44

सामान्यं कारकं तस्य सप्ताद्या भेदयोनयः
षट् कर्माख्यादिभेदेन शेषभेदस् तु सप्तमी ॥

3.7.45

निर्वर्त्यं च विकार्यं च प्राप्यं चेति त्रिधा मतम्
तत्रेप्सिततमं कर्म चतुर्धान्यत् तु कल्पितम् ॥

3.7.46

औदासीन्येन यत् प्राप्यं यच् च कर्तुर् अनीप्सितम्
संज्ञान्तरैर् अनाख्यातं यद् यच् चाप्य् अन्यपूर्वकम् ॥

3.7.47

सती वाविद्यमाना वा प्रकृतिः परिणामिनी
यस्य नाश्रियते तस्य निर्वर्त्यत्वं प्रचक्षते ॥

3.7.48

प्रकृतेस् तु विवक्षायां विकार्यं कैश् चिद् अन्यथा
निर्वर्त्यं च विकार्यं च कर्म शास्त्रे प्रदर्शितम् ॥

3.7.49

यद् असज् जायते सद् वा जन्मना यत् प्रकाश्यते
तन् निर्वर्त्यं विकार्यं च कर्म द्वेधा व्यवस्थितम् ॥

3.7.50

प्रकृत्युच्छेदसंभूतं किं चित् काष्ठादिभस्मवत्
किं चिद् गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् ॥

3.7.51

क्रियाकृता विशेषाणां सिद्धिर् यत्र न गम्यते
दर्शनाद् अनुमानाद् वा तत् प्राप्यम् इति कथ्यते ॥

3.7.52

विशेषलाभः सर्वत्र विद्यते दर्शनादिभिः
केषां चित् तदभिव्यक्ति सिद्धिर् दृष्टिविषादिषु ॥

3.7.53

आभासोपगमो व्यक्तिः सोढत्वम् इति कर्मणः
विशेषाः प्राप्यमाणस्य क्रियासिद्धौ व्यवस्थिताः ॥

3.7.54

निर्वर्त्यादिषु तत् पूर्वम् अनुभूय स्वतन्त्रताम्
कर्त्रन्तराणां व्यापारे कर्म संपद्यते ततः ॥

3.7.55

तद्व्यापारविवेके ऽपि स्वव्यापारे व्यवस्थितम्
कर्मापदिष्टांल्लभते क्व चिच् छास्त्राश्रयान् विधीन् ॥

3.7.56

निवृत्तप्रेषणं कर्म स्वक्रियावयवे स्थितम्
निवर्तमाने कर्मत्वे स्वे कर्तृत्वे ऽवतिष्ठते ॥

3.7.57

तानि धात्वन्तराण्य् एव पचिसिध्यतिवद् विदुः
भेदे ऽपि तुल्यरूपत्वाद् एकत्वपरिकल्पना ॥

3.7.58

एकदेशे समूहे च व्यापाराणां पचादयः
स्वभावतः प्रवर्तन्ते तुल्यरूपसमन्विताः ॥

3.7.59

न्यग्भावना न्यग्भवनं रुहौ शुद्धे प्रतीयते
न्यग्भावना न्यग्भवनं ण्यन्ते ऽपि प्रतिपद्यते ॥

3.7.60

अवस्थां पञ्चमीम् आहुर् ण्यन्ते तां कर्मकर्तरि
निवृत्तप्रेषणाद् धातोः प्राकृते ऽर्थे णिज् उच्यते ॥

3.7.61

ब्रवीति पचतेर् अर्थं सिध्यतिर् न विना णिचा
स ण्यन्तः पचतेर् अर्थे प्राकृते व्यवतिष्ठते ॥

3.7.62

केषां चिद् देवदत्तादेर् व्यापारो यः सकर्मके
स विना देवदत्तादेः कटादिषु विवक्ष्यते ॥

3.7.63

निवृत्तप्रेषणं कर्म स्वस्य कर्तुः प्रयोजकम्
प्रेषणान्तरसंबन्धे ण्यन्ते लेनाभिधीयते ॥

3.7.64

सदृशादिषु यत् कर्म कर्तृत्वं प्रतिपद्यते
आपत्त्यापादने तत्र विषयत्वं प्रति क्रिये ॥

3.7.65

कुतश् चिद् आहृत्य पदम् एवं च परिकल्पने
कर्मस्थभावकत्वं स्याद् दर्शनाद्यभिधायिनाम् ॥

3.7.66

विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता
क्रियाव्यवस्था त्व् अन्येषां शब्दैर् एव प्रकाश्यते ॥

3.7.67

कालभावाध्वदेशानाम् अन्तर्भूतक्रियान्तरैः
सर्वैर् अकर्मकैर् योगे कर्मत्वम् उपजायते ॥

3.7.68

आधारत्वम् इव प्राप्तास् ते पुनर् द्रव्यकर्मसु
कालादयो भिन्नकक्ष्यं यान्ति कर्मत्वम् उत्तरम् ॥

3.7.69

अतस् तैः कर्मभिर् धातुर् युक्तो ऽद्रव्यैर् अकर्मकः
लस्य कर्मणि भावे च निमित्तत्वाय कल्पते ॥

3.7.70

सर्वं चाकथितं कर्म भिन्नकक्ष्यं प्रतीयते
धात्वर्थोद्देशभेदेन तन् नेप्सिततमं किल ॥

3.7.71

प्रधानकर्म कथितं यत् क्रियायाः प्रयोजकम्
तत्सिद्धये क्रियायुक्तम् अन्यत् त्व् अकथितं स्मृतम् ॥

3.7.72

दुह्यादिवन् नयत्यादौ कर्मत्वम् अकथाश्रयम्
आख्यातानुपयोगे तु नियमाच् छेष इष्यते ॥

3.7.73

अन्तर्भूतणिजर्थानां दुह्यादीनां णिजन्तवत्
सिद्धं पूर्वेण कर्मत्वं णिजन्तनियमस् तथा ॥

3.7.74

करणस्य स्वकक्ष्यायां न प्रकर्षाश्रयो यथा
कर्मणो ऽपि स्वकक्ष्यायां न स्याद् अतिशयस् तथा ॥

3.7.75

कर्मणस् त्व् आप्तुम् इष्टत्व आश्रिते ऽतिशयो यतः
आश्रीयते ततो ऽत्यन्तं भेदः पूर्वेण कर्मणा ॥

3.7.76

णिजन्ते च यथा कर्ता सक्रियः सन् प्रयुज्यते
न दुह्यादौ तथा कर्ता निष्क्रियो ऽपि प्रयुज्यते ॥

3.7.77

भेदवाक्यं तु यन् ण्यन्ते नीदुहिप्रकृतौ च यत्
शब्दान्तरत्वान् नैवास्ति संस्पर्शस् तस्य धातुना ॥

3.7.78

यथैवैकम् अपादानं शास्त्रे भेदेन दर्शितम्
तथैकम् एव कर्मापि भेदेन प्रतिपादितम् ॥

3.7.79

निर्वर्त्यो वा विकार्यो वा प्राप्यो वा साधनाश्रयः
क्रियाणाम् एव साध्यत्वात् सिद्धरूपो ऽभिधीयते ॥

3.7.80

अहितेषु यथा लौल्यात् कर्तुर् इच्छोपजायते
विषादिषु भयादिभ्यस् तथैवासौ प्रवर्तते ॥

3.7.81

प्रधानेतरयोर् यत्र द्रव्यस्य क्रिययोः पृथक्
शक्तिर् गुणाश्रया तत्र प्रधानम् अनुरुध्यते ॥

3.7.82

प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते
यदा गुणे तदा तद्वद् अनुक्तापि प्रकाशते ॥

3.7.83

पचाव् अनुक्तं यत् कर्म क्त्वान्ते भावाभिधायिनि
भुजौ शक्त्यन्तरे ऽप्य् उक्ते तत् तद्धर्म प्रकाशते ॥

3.7.84

इषेश् च गमिसंस्पर्शाद् ग्रामे यो लो विधीयते
तत्रेषिणैव निर्भोगः क्रियते गमिकर्मणः ॥

3.7.85

पक्त्वा भुज्यत इत्य् अत्र केषां चिन् न व्यपेक्षते
ओदनं पचतिः सो ऽसाव् अनुमानात् प्रतीयते ॥

3.7.86

तथाभिनिविशौ कर्म यत् ति"नन्ते ऽभिधीयते
क्त्वान्ते ऽधिकरणत्वे ऽपि न तत्रेच्छन्ति सप्तमीम् ॥

3.7.87

यन् निर्वृत्ताश्रयं कर्म प्राप्तेर् अप्रचितं पुनः
भक्ष्यादिविषयापत्त्या भिद्यमानं तद् ईप्सितम् ॥

3.7.88

धातोर् अर्थान्तरे वृत्तेर् धात्वर्थेनोपसंग्रहात्
प्रसिद्धेर् अविवक्षातः कर्मणो ऽकर्मिका क्रिया ॥

3.7.89

भेदा य एते चत्वारः सामान्येन प्रदर्शिताः
ते निमित्तादिभेदेन भिद्यन्ते बहुधा पुनः ॥

3.7.90

क्रियायाः परिनिष्पत्तिर् यद्व्यापाराद् अनन्तरम्
विवक्ष्यते यदा तत्र करणत्वं तदा स्मृतम् ॥

3.7.91

वस्तुतस् तद् अनिर्देश्यं न हि वस्तु व्यवस्थितम्
स्थाल्या पच्यत इत्य् एषा विवक्षा दृश्यते यतः ॥

3.7.92

करणेषु तु संस्कारम् आरभन्ते पुनः पुनः
विनियोगविशेषांश् च प्रधानस्य प्रसिद्धये ॥

3.7.93

स्वकक्ष्यासु प्रकर्षश् च करणानां न विद्यते
आश्रितातिशयत्वं तु परतस् तत्र लक्षणम् ॥

3.7.94

स्वातन्त्र्ये ऽपि प्रयोक्तार आराद् एवोपकुर्वते
करणेन हि सर्वेषां व्यापारो व्यवधीयते ॥

3.7.95

क्रियासिद्धौ प्रकर्षो ऽयं न्यग्भावस् त्व् एव कर्तरि
सिद्धौ सत्यां हि सामान्यं साधकत्वं प्रकृष्यते ॥

3.7.96

अस्यादीनां तु कर्तृत्वे तैक्ष्ण्यादि करणं विदुः
तैक्ष्ण्यादीनां स्वतन्त्रत्वे द्वेधात्मा व्यवतिष्ठते ॥

3.7.97

आत्मभेदे ऽपि सत्य् एवम् एको ऽर्थः स तथा स्थितः
तदाश्रयत्वाद् भेदे ऽपि कर्तृत्वं बाधकं ततः ॥

3.7.98

यथा च संनिधानेन करणत्वं प्रतीयते
तथैवासंनिधाने ऽपि क्रियासिद्धेः प्रतीयते ॥

3.7.99

स्तोकस्य वाभिनिर्वृत्तेर् अनिर्वृत्तेश् च तस्य वा
प्रसिद्धिं करणत्वस्य स्तोकादीनां प्रचक्षते ॥

3.7.100

धर्माणां तद्वता भेदाद् अभेदाच् च विशिष्यते
क्रियावधेर् अवच्छेद विशेषाद् भिद्यते यथा ॥

3.7.101

प्राग् अन्यतः शक्तिलाभान् न्यग्भावापादनाद् अपि
तदधीनप्रवृत्तित्वात् प्रवृत्तानां निवर्तनात् ॥

3.7.102

अदृष्टत्वात् प्रतिनिधेः प्रविवेके च दर्शनात्
आराद् अप्य् उपकारित्वे स्वातन्त्र्यं कर्तुर् उच्यते ॥

3.7.103

धर्मैर् अभ्युदितैः शब्दे नियमो न तु वस्तुनि
कर्तृधर्मविवक्षायां शब्दात् कर्ता प्रतीयते ॥

3.7.104

एकस्य बुद्ध्यवस्थाभिर् भेदे च परिकल्पिते
कर्तृत्वं करणत्वं च कर्मत्वं चोपजायते ॥

3.7.10@

उत्पत्तेः प्राग् असद्भावो बुद्ध्यवस्थानिबन्धनः
अविशिष्टः सतान्येन कर्ता भवति जन्मनः ॥

3.7.106

कारणं कार्यभावेन यदा वाव्यवतिष्ठते
कार्यशब्दं तदा लब्ध्वा कार्यत्वेनोपजायते ॥

3.7.107

यथाहेः कुण्डलीभावो व्यग्राणां वा समग्रता
तथैव जन्मरूपत्वं सताम् एके प्रचक्षते ॥

3.7.108

विभक्तयोनि यत् कार्यं कारणेभ्यः प्रवर्तते
स्वा जातिर् व्यक्तिरूपेण तस्यापि व्यवतिष्ठते ॥

3.7.109

भावेष्व् एव पदन्यासः प्रज्ञाया वाच एव वा
नास्तीत्य् अप्य् अपदे नास्ति न च सद् भिद्यते ततः ॥

3.7.110

बुद्धिशब्दौ प्रवर्तेते यथाभूतेषु वस्तुषु
तेषाम् अन्येन तत्त्वेन व्यवहारो न विद्यते ॥

3.7.111

आकाशस्य यथा भेदश् छायायाश् चलनं यथा
जन्मनाशाव् अभेदे ऽपि तथा कैश् चित् प्रकल्पितौ ॥

3.7.112

यथैवाकाशनास्तित्वम् असन् मूर्तिनिरूपितम्
तथैव मूर्तिनास्तित्वम् असदाकाशनिश्रयम् ॥

3.7.113

यथा तदर्थैर् व्यापारैः क्रियात्मा व्यपदिश्यते
अभेदग्रहणाद् एष कार्यकारणयोः क्रमः ॥

3.7.114

विकारो जन्मनः कर्ता प्रकृतिर् वेति संशये
भिद्यते प्रतिपत्तृणां दर्शनं लि"न्गदर्शनैः ॥

3.7.115

कॢपि संपद्यमाने या चतुर्थी सा विकारतः
सुवर्णपिण्डे प्रकृतौ वचनं कुण्डलाश्रयम् ॥

3.7.116

वाक्ये संपद्यतेः कर्ता स"न्घश् च्व्यन्तस्य कथ्यते
वृत्तौ सङ्घीभवन्तीति ब्राह्मणानां स्वतन्त्रता ॥

3.7.117

अत्वं संपद्यते यस् त्वं न तस्मिन् युष्मदाश्रया
प्रवृत्तिः पुरुषस्यास्ति प्राकृतः स विधीयते ॥

3.7.118

पूर्वावस्थाम् अविजहत् संस्पृशन् धर्मम् उत्तरम्
संमूर्छित इवार्थात्मा जायमानो ऽभिधीयते ॥

3.7.119

सव्यापारतरः कश् चित् क्व चिद् धर्मः प्रतीयते
संसृज्यन्ते च भावानां भेदवत्यो ऽपि शक्तयः ॥

3.7.120

विपरीतार्थवृत्तित्वं पुरुषस्य विपर्यये
गम्येत साधनं ह्य् अत्र सव्यापारं प्रतीयते ॥

3.7.121

त्वम् अन्यो भवसीत्य् एषा तत्र स्यात् परिकल्पना
राज्ञि भृत्यत्वमापन्ने यथा तद्वद् गतिर् भवेत् ॥

3.7.122

संभावनात् क्रियासिद्धौ कर्तृत्वेन समाश्रितः
क्रियायाम् आत्मसाध्यायां साधनानां प्रयोजकः ॥

3.7.123

प्रयोगमात्रे न्यग्भावं स्वातन्त्र्याद् एव निश्रितः
अविशिष्टो भवत्य् अन्यैः स्वतन्त्रैर् मुक्तसंशयैः ॥

3.7.124

निमित्तेभ्यः प्रवर्तन्ते सर्व एव स्वभूतये
अभिप्रायानुरोधो ऽपि स्वार्थस्यैव प्रसिद्धये ॥

3.7.125

प्रेषणाध्येषणे कुर्वंस् तत्समर्थानि चाचरन्
कर्तैव विहितां शास्त्रे हेतुसंज्ञां प्रपद्यते ॥

3.7.126

द्रव्यमात्रस्य तु प्रैषे पृच्छ्यादेर् लोड् विधीयते
सक्रियस्य प्रयोगस् तु यदा स विषयो णिचः ॥

3.7.127

गुणक्रियायां स्वातन्त्र्यात् प्रेषणे कर्मतां गतः
नियमात् कर्मसंज्ञायाः स्वधर्मेणाभिधीयते ॥

3.7.128

क्रियायाः प्रेरकं कर्म हेतुः कर्तुः प्रयोजकः
कर्मार्था च क्रियोत्पत्ति संस्कारप्रतिपत्तिभिः ॥

3.7.129

अनिराकरणात् कर्तुस् त्यागा"न्गं कर्मणेप्सितम्
प्रेरणानुमतिभ्यां च लभते संप्रदानताम् ॥

3.7.130

हेतुत्वे कर्मसंज्ञायां शेषत्वे वापि कारकम्
रुच्यर्थादिषु शास्त्रेण संप्रदानाख्यम् उच्यते ॥

3.7.131

भेदस्य च विवक्षायां पूर्वां पूर्वां क्रियां प्रति
परस्या"न्गस्य कर्मत्वान् न क्रियाग्रहणं कृतम् ॥

3.7.132

क्रियाणां समुदाये तु यदैकत्वं विवक्षितम्
तदा कर्म क्रियायोगात् स्वाख्ययैवोपचर्यते ॥

3.7.133

भेदाभेदविवक्षा च स्वभावेन व्यवस्थिता
तस्माद् गत्यर्थकर्मत्वे व्यभिचारो न दृश्यते ॥

3.7.134

विकल्पेनैव सर्वत्र संज्ञे स्याताम् उभे यदि
आरम्भेण न योगस्य प्रत्याख्यानं समं भवेत् ॥

3.7.135

त्यागरूपं प्रहातव्ये प्राप्ये संसर्गदर्शनम्
आस्थितं कर्म यत् तत्र द्वैरूप्यं भजते क्रिया ॥

3.7.136

निर्दिष्टविषयं किं चिद् उपात्तविषयं तथा
अपेक्षितक्रियं चेति त्रिधापादानम् उच्यते ॥

3.7.137

संयोगभेदाद् भिन्नात्मा गमिर् एव भ्रमिर् यथा
ध्रुवावधिर् अपायो ऽपि समवेतस् तथाध्रुवे ॥

3.7.138

द्रव्यस्वभावो न ध्रौव्यम् इति सूत्रे प्रतीयते
अपायविषयं ध्रौव्यं यत् तु तावद् विवक्षितम् ॥

3.7.139

सरणे देवदत्तस्य ध्रौव्यं पाते तु वाजिनः
आविष्टं यद् अपायेन तस्याध्रौव्यं प्रचक्षते ॥

3.7.140

उभाव् अप्य् अध्रुवौ मेषौ यद्य् अप्य् उभयकर्मजे
विभागे प्रविभक्ते तु क्रिये तत्र विवक्षिते ॥

3.7.141

मेषान्तरक्रियापेक्षम् अवधित्वं पृथक् पृथक्
मेषयोः स्वक्रियापेक्षं कर्तृत्वं च पृथक् पृथक् ॥

3.7.142

अभेदेन क्रियैका तु द्विसाध्या चेद् विवक्षिता
मेषाव् अपाये कर्तारौ यद्य् अन्यो विद्यते ऽवधिः ॥

3.7.143

गतिर् विना त्व् अवधिना नापाय इति गम्यते
वृक्षस्य पर्णं पततीत्य् एवं भाष्ये निदर्शितम् ॥

3.7.144

भेदाभेदौ पृथग्भावः स्थितिश् चेति विरोधिनः
युगपन् न विवक्ष्यन्ते सर्वे धर्मा बलाहके ॥

3.7.145

धनुषा विध्यतीत्य् अत्र विनापायविवक्षया
करणत्वं यतो नास्ति तस्मात् तद् उभयं सह ॥

3.7.146

एकैव वा सती शक्तिर् द्विरूपा व्यवतिष्ठते
निमित्तं संज्ञयोस् तत्र परया बाध्यते ऽपरा ॥

3.7.147

निर्धारणे विभक्ते यो भीत्रादीनां च यो विधिः
उपात्तापेक्षितापायः सो ऽबुधप्रतिपत्तये ॥

3.7.148

कर्तृकर्मव्यवहिताम् असाक्षाद् धारयत् क्रियाम्
उपकुर्वत् क्रियासिद्धौ शास्त्रे ऽधिकरणं स्मृतम् ॥

3.7.149

उपश्लेषस्य चाभेदस् तिलाकाशकटादिषु
उपकारास् तु भिद्यन्ते संयोगिसमवायिनाम् ॥

3.7.150

अविनाशो गुरुत्वस्य प्रतिबन्धे स्वतन्त्रता
दिग्विशेषाद् अवच्छेद इत्याद्या भेदहेतवः ॥

3.7.151

आकाशम् एव केषां चिद् देशभेदप्रकल्पनात्
आधारशक्तिः प्रथमा सर्वसंयोगिनां मता ॥

3.7.152

इदम् अत्रेति भावानाम् अभावान् न प्रकल्पते
व्यपदेशस् तम् आकाश निमित्तं संप्रचक्षते ॥

3.7.153

कालात् क्रिया विभज्यन्त आकाशात् सर्वमूर्तयः
एतावांश् चैव भेदो ऽयम् अभेदोपनिबन्धनः ॥

3.7.154

यद्य् अप्य् उपवसिर् देश विशेषम् अनुरुध्यते
शब्दप्रवृत्तिधर्मात् तु कालम् एवावलम्बते ॥

3.7.155

वसताव् अप्रयुक्ते ऽपि देशो ऽधिकरणं ततः
अप्रयुक्तं त्रिरात्रादि कर्म चोपवसौ स्मृतम् ॥

3.7.156

संबन्धः कारकेभ्यो ऽन्यः क्रियाकारकपूर्वकः
श्रुतायाम् अश्रुतायां वा क्रियायां सो ऽभिधीयते ॥

3.7.157

द्विष्ठो ऽप्य् असौ परार्थत्वाद् गुणेषु व्यतिरिच्यते
तत्राभिधीयमानः सन् प्रधाने ऽप्य् उपयुज्यते ॥

3.7.158

निमित्तनियमः शब्दात् संबन्धस्य न गृह्यते
कर्मप्रवचनीयैस् तु स विशेषो ऽवरुध्यते ॥

3.7.159

साधनैर् व्यपदिष्टे च श्रूयमाणक्रिये पुनः
प्रोक्ता प्रतिपदं षष्ठी समासस्य निवृत्तये ॥

3.7.160

निष्ठायां कर्मविषया षष्थी च प्रतिषिध्यते
शेषलक्षणया षष्ठ्या समासस्तत्र नेष्यते ॥

3.7.161

अन्येन व्यपदिष्टस्य यस्यान्यत्रोपजायते
व्यतिरेकः स धर्मौ द्वौ लभते विषयान्तरे ॥

3.7.162

प्राधान्यं स्वगुणे लब्ध्वा प्रधाने याति शेषताम्
सहयोगे स्वयोगे ऽतः प्रधानत्वं न हीयते ॥

3.7.163

सिद्धस्याभिमुखीभाव मात्रं संबोधनं विदुः
प्राप्ताभिमुख्यो ह्य् अर्थात्मा क्रियासु विनियुज्यते ॥

3.7.164

संबोधनं न वाक्यार्थ इति पूर्वेभ्य आगमः
उद्देशेन विभक्त्यर्था वाक्यार्थात् समपोद्धृताः ॥

3.7.165

विभक्त्यर्थे ऽव्ययीभाव वचनाद् अवसीयताम्
अन्यो द्रव्याद् विभक्त्यर्थः सो ऽव्ययेनाभिधीयते ॥

3.7.166

द्रव्यं तु यद् यथाभूतं तद् अत्यन्तं तथा भवेत्
क्रियायोगे ऽपि तस्यासौ द्रव्यात्मा नापहीयते ॥

3.7.167

तस्माद् यत् करणं द्रव्यं तत् कर्म न पुनर् भवेत्
सर्वस्य वान्यथाभावस् तस्य द्रव्यात्मनो भवेत् ॥

मूल पाठ: Vākyapadīya · Data entry Yves Ramseier · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc