भाषा

ENहिગુ
ग्रंथ पाठ

वाक्यपदीय · अध्याय 3.8

3.8.1

यावत् सिद्धम् असिद्धं वा साध्यत्वेनाभिधीयते
आश्रितक्रमरूपत्वात् तत् क्रियेति प्रतियते ॥

3.8.2

कार्यकारणभावेन ध्वनतीत्य् आश्रितक्रमः
ध्वनिः क्रमनिवृत्तौ तु ध्वनिर् इत्य् एव कथ्यते ॥

3.8.3

श्वेते श्वेतत इत्य् एतच् छ्वेतत्वेन प्रकाशते
आश्रितक्रमरूपत्वाद् अभिधानं प्रवर्तते ॥

3.8.4

गुणभूतैर् अवयवैः समूहः क्रमजन्मनाम्
बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते ॥

3.8.5

समूहः स तत्बाभूतः प्रतिभेदम् समूहिसु
समाप्यते ततो भेदे कालभेदस्य संभवः ॥

3.8.6

क्रमात् सदसतां तेषाम् आत्मानो न समूहिनाम्
सद्वस्तुविषयैर् यान्ति संबन्धं चक्षुरादिभिः ॥

3.8.7

यथा गौर् इति सम्घातः सर्वो नेन्द्रियगोचरः
भागशस् तूपलब्धस्य बुद्धौ रूपं निरूप्यते ॥

3.8.8

इन्द्रियैर् अन्यथाप्राप्तौ भेदाम्शोपनिपातिभिः
अलातचक्रवद् रूपं क्रियाणां परिकल्प्यते ॥

3.8.9

यथा च भागाः पचतेर् उदकासेचनादयः
उदकासेचनादिनां ज्ञेया भागास् तथापरे ॥

3.8.10

यश् चापकर्षपर्यन्तम् अनुप्राप्तः प्रतीयते
तत्रैकस्मिन् क्रियाशब्दः केवले न प्रयुज्यते ॥

3.8.11

पूर्वोत्तरैस् तथा भागैः समवस्थापितक्रमः
एकः सो ऽप्य् असदध्यासाद् आख्यातैर् अभिधीयते ॥

3.8.12

कालानुपाति यद् रूपं तद् अस्तीत्य् अनुगम्यते
परितस् तु परिच्छिन्नं भाव इत्य् एव कथ्यते ॥

3.8.13

व्यवहारस्य सिद्धत्वान् न चेयं गुणकल्पना
उपचारो हि मुख्यस्य संभवाद् अवतिष्ठते ॥

3.8.14

आहितोत्तरशक्तित्वात् प्रत्येकं वा समूहिनः
अनेकरूपा लक्ष्यन्ते क्रमवन्त इवाक्रमाः ॥

3.8.15

अनन्तरं फलं यस्याः कल्पते ताम् क्रियाम् विदुः
प्रधानभूतां तादर्थ्याद् अन्यासां तु तदाख्यता ॥

3.8.16*

*क्रियाप्रवृत्तौ यो हेतुस् तदर्थं यद् विचेष्टितम्
अनपेक्ष्य प्रयुञ्जीत गच्छतीत्य् अवधारयन् ॥

3.8.17

सत्सु प्रत्ययरूपो ऽसौ भावो यावन् न जायते
तावत् परेषां रूपेण साध्यः सन्न् अभिधीयते ॥

3.8.18

सिद्धे तु साधनाकाङ्क्षा कृतार्थत्वान् निवर्तते
न क्रियावाचिनां तस्मात् प्रयोगस् तत्र विद्यते ॥

3.8.19

स चापूर्वापरिभूत एकत्वाद् अक्रमात्मकः
पूर्वापराणां धर्मेण तदर्थेनानुगम्यते ॥

3.8.20

असन् निवर्तते तस्माद् यत् सत् तद् उपलभ्यते
तयोः सदसतोश् चासाव् आत्मैक इव गृह्यते ॥

3.8.21

जातिम् अन्ये क्रियाम् आहुर् अनेकव्यक्तिवर्तिनीम्
असाध्या व्यक्तिरूपेण सा साध्येवोपलभ्यते ॥

3.8.22

अन्ते या वा क्रियाभागे जातिः सैव क्रिया स्मृता
सा व्यक्तेर् अनुनिष्पादे जायमानेव गम्यते ॥

3.8.23

स्वव्यापारविशिष्टानाम् सत्ता वा, कर्तृकर्मनाम्
क्रिया व्यापारभेदेषु सत्ता वा समवायिनी ॥

3.8.24

अन्त्ये वात्मनि या सत्ता सा क्रिया कैश् चिद् इष्यते
भाव एव हि धात्वर्थ इत्य् अविच्छिन्न आगमः ॥

3.8.25

बुद्धिं तज्जातिम् अन्ये तु बुद्धिसत्ताम् अथापरे
प्रत्यस्तरूपां भावेषु क्रियेति प्रतिजानते ॥

3.8.26

आविर्भावतिरोभावौ जन्मनाशौ तथापरैः
षट्सु भावविकारेषु कल्पितौ व्यावहारिकौ ॥

3.8.27

ताभ्यां सर्वप्रवृत्तीनाम् अभेदेनोपसम्ग्रहः
जन्मैवाश्रितसारूप्यं स्थितिर् इत्य् अभिधीयते ॥

3.8.28*

*जायमानान् न जन्र्नान्यद् विनाशे ऽप्य् अपदार्थता
अतो भावविकारेषु सत्तैका व्यवतिष्ठते ॥

3.8.29

*पूर्वभागस् तु यज् जातात् तज् जन्मेत्य् अपदिश्यते
आश्रितक्रमरूपेण निमित्तत्वे विवक्षिते ॥

3.8.30

आख्यातशब्दैर् अर्थो ऽसाव् एवंभूतो ऽभिधीयते
नामशब्दाः प्रवर्तन्ते संहरन्त इव क्रमम् ॥

3.8.31

फलं फलापदेशो वा वस्तु वा तद्विरोधि यत्
तद् अन्यद् एव पूर्वेषां नाग इत्य् अपदिश्यते ॥

3.8.32

नैवास्ति नैव नास्तीति वस्तुनो ग्रहनाद् विना
कल्पते पररूपेण वस्त्व् अन्यद् अनुगम्यते ॥

3.8.33

भावाभावौ घटादिनाम् अस्पृशन्न् अपि पाणिना
कश् चिद् वेदाप्रकाशे ऽपि प्रकाशे तत एव वा ॥

3.8.34

व्यापि सौक्ष्म्यं क्व चिद् याति क्व चित् संहन्यते पुनः
अकुर्वाणो ऽथ वा किं चित् स्वशक्त्यैवं प्रकाशते ॥

3.8.35

सर्वरूपस्य तत्त्वस्य यत् क्रमेणेव दर्शनम्
भागैर् इव प्रकॢप्तिश् च तां क्रियाम् अपरे विदुः ॥

3.8.36

सत्ता स्वशक्तियोगेन सर्वरूपा व्यवस्थिता
साध्या च साधनं चैव फलं भोक्ता फलस्य च ॥

3.8.37

क्रियाम् अन्ये तु मन्यन्ते क्व चिद् अप्य् अनपाश्रिताम्
साधनैकार्थकारित्वे प्रवृत्तिम् अनपायिनीम् ॥

3.8.38

सामान्यभूता सा पूर्वं भागशः प्रविभज्यते
ततो व्यापाररूपेण साध्येव व्यवतिष्ठते ॥

3.8.39

प्रकृतिः साधनानां सा प्रथमं तच् च कारकम्
व्यापाराणां ततो ऽन्यत्वम् अपरैर् उपवर्ण्यते ॥

3.8.40

बहूनां संभवे ऽर्थानां के चिद् एवोपकारिनः
संसर्गे कश् चिद् एसां तु प्राधान्येन प्रतीयते ॥

3.8.41

साध्यत्वात् तत्र चाख्यातैर् व्यापाराः सिद्धसाधनाः
प्राधान्येनाभिधीयन्ते फलेनापि प्रवर्तिताः ॥

3.8.42

एकत्वावृत्तिभावाभ्यां भेदाभेदसमन्वये
संख्यास् तत्रोपलभ्यन्ते संख्येयावयवक्रियाः ॥

3.8.43

सिद्धस्यार्थस्य पाकादेः कथं साधनयोगिता
साध्यत्वे वा तिङन्तेन कृतां भेदो न कश् चन ॥

3.8.44

तत्र कारकयोगाया यद्य् आख्यातं निबन्धनम्
षष्ठ्वाः सा लेन संबन्धे व्युदस्ता कर्तृकर्मनोः ॥

3.8.45

एकाभिधान एको ऽर्थो युगपच् च द्विधर्मभाक्
न संभवति सिद्धत्वे स साध्यः स्यात् कथं पुनः ॥

3.8.46

एतावत् साधनं साध्यम् एतावद् इति कल्पना
शास्त्र एव न वाक्ये ऽस्ति विभागः परमार्थतः ॥

3.8.47

आख्यातशब्दे भागाभ्यां साध्यसाधनवर्तिता
प्रकल्पिता यथा शास्त्रे स घञादिस्व् अपि क्रमः ॥

3.8.48

साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना
सत्त्वभावस् तु यस् तस्याः स घञादिनिबन्धनः ॥

3.8.49

बन्धुताभेदरूपेण बन्धुशब्दे व्यवस्थिता
समूहो बन्ध्ववस्था तु प्रत्ययेनाभिधीयते ॥

3.8.50

तत्र यम् प्रति साध्यत्वम् असिद्धा तं प्रति क्रिया
सिद्धा तु यस्मिन् साध्यत्वं न तम् एव पुनः प्रति ॥

3.8.51

राज्ञः पुत्रस्य नप्तेति न राज्ञि व्यतिरिच्यते
पुत्रस्यार्थः प्रधानत्वं न चास्य विनिवर्तते ॥

3.8.52

मृगो धावति पश्येति साध्यसाधनरूपता
तथा विषयभेदेन सरणस्योपपद्यते ॥

3.8.53

लकृत्यक्तखलर्थानां तथाव्ययकृताम् अपि
रूढिनिष्ठाघञादिनाम् धातुः साध्यस्य वाचकः ॥

3.8.54

साध्यस्यापरिनिष्पत्तेः सो ऽयम् इत्य् अनुपग्रहः
तिङन्तैर् अन्तरेणेवम् उपमानं ततो न तैः ॥

3.8.55

साधनत्वं प्रसिद्धं च तिङ्क्षु संबन्धिनां यतः
तेनाध्यारोप एव स्याद् उपमा तु न विद्यते ॥

3.8.56

न्यूनेषु च समाप्तार्थम् उपमानं विधीयते
क्रिया चैवाश्रये सर्वा तत्र तत्र समाप्यते ॥

3.8.57

येनैव हेतुना हंसः पततीत्य् अभिधीयते
आतौ तस्य समाप्तत्वाद् उपमार्थो न विद्यते ॥

3.8.58

क्रियाणां जातिभिन्नानां सादृश्यं नावधार्यते
सिद्धेश् च प्रक्रमे साध्यम् उपमातुम् न शक्यते ॥

3.8.59

वनम् वृक्षा इति यथा भेदाभेदव्यपाश्रयात्
अर्थात्मा भिद्यते भावे स बाह्याभ्यन्तरे क्रमः ॥

3.8.60

सामान्ये भाव इत्य् अत्र यल् लिङ्गम् उपलभ्यते
भेदानां अनुमेयत्वान् न तत् तेषु विवक्ष्यते ॥

3.8.61

निर्देशे चरितार्थत्वाल् लिङ्गं भावे ऽविवक्सितम्
उपमानविधित्वाच् च भावाद् अन्यत् पचादिसु ॥

3.8.62

भवतौ यत् पचादिनां तावद् अत्रोपदिश्यते
न च लिङ्गम् पचादिनां भवतौ समवस्थितम् ॥

3.8.63

एकश् च सो ऽर्थः सत्ताख्यः कथम् चित् कैश् चिद् उच्यते
लिङ्गानि चास्य भिद्यन्ते पचिरूपादिभेदवत् ॥

3.8.64

आचार्यो मातुलश् चेति यथैको व्यपदिश्यते
सम्बन्धिभेदाद् अर्थात्मा स विधिः पक्तिभावयोः ॥

मूल पाठ: Vākyapadīya · Data entry Yves Ramseier · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc