भाषा

ENहिગુ
ग्रंथ पाठ

वाक्यपदीय · अध्याय 3.6

3.6.1

दिक् साधनम् क्रिया काल इति वस्त्वभिधायिनः
शक्तिरूपे पदार्थानाम् अत्यन्तम् अनवस्थिताः ॥

3.6.2

व्यतिरेकस्य यो हेतुर् अवधिप्रतिपाद्ययोः
ऋज्व् इत्य् एवम् यतो ऽन्येन विना बुद्धिः प्रवर्तते ॥

3.6.3

कर्मनो जातिभेदानाम् अभिव्यक्तिर् यदाश्रया
सा स्वैर् उपाधिभिर् भिन्ना शक्तिर् दिग् इति कथ्यते ॥

3.6.4

परापरत्वे मूर्तिनां देशभेदनिबन्धने
तत एव प्रकल्पेते क्रमरूपे तु कालतः ॥

3.6.5

आकाशस्य प्रदेशेन भागैश् चान्यैः पृथक् पृथक्
सा संयोगविभागानाम् उपाधित्वाय कल्पते ॥

3.6.6

दिशो व्यवस्था देशानां दिग्व्यवस्था न विद्यते
शक्तयः खलु भावानाम् उपकारप्रभाविताः ॥

3.6.7

प्रत्यस्तरूपा भावेषु दिक् पूर्वेत्य् अभिधीयते
पूर्वबुद्धिर् यतो दिक् सा समाख्यामात्रम् अन्यथा ॥

3.6.8

स्वाङ्गाद् व्यवस्था या लोके न तस्याम् नियता दिशः
प्रत्यङ्मुखस्य यत् पश्चात् तत् पुरस्ताद् विपर्यये ॥

3.6.9

देशव्यवस्थानियमो दिक्षु न व्यवतिष्ठते
रूढम् अप्य् अपरत्वेन पूर्वम् इत्य् अभिधीयते ॥

3.6.10

अतो भाषितपुंस्कत्वात् पुंवद्भावो न सिध्यति
अस्मिन्न् अर्थे न शब्देन प्रसवः क्व चिद् उच्यते ॥

3.6.11

दिक्शक्तेर् अभिधाने तु नियतं दिशि दर्शनम्
पूर्वादिनां यथा षष्टेर् जीवितस्यावधारणे ॥

3.6.12

छायाभाभ्यां नगादीनाम् भागभेदः प्रकल्पते
अतद्धर्मसु भावेषु भागभेदो न कल्पते ॥

3.6.13

परमाणोर् अभागस्य दिशा भागो विधीयते
भागप्रकल्पनाशक्तिं प्रथमां तां प्रचक्षते ॥

3.6.14

अदेशाश् चाप्य् अभागाश् च निष्क्रमा निरुपाश्रयाः
भावाः संसर्गिरूपात् तु शक्तिभेदः प्रकल्पते ॥

3.6.15

निर्भागात्मकता तुल्या परमाणोर् घटस्य च
भागः शक्त्यन्तरं तत्र परिमाणं च यत् तयोः ॥

3.6.16

यतः प्रकल्पते भेदो भेदस् तत्रापि दृश्यते
अदृष्टोपरतिं भेदम् अतो ऽयुक्ततरं विदुः ॥

3.6.17

सर्वत्र तस्य कार्यस्य दर्शनाद् विभुर् इष्यते
विभुत्वम् एतद् एवाहुर् अन्यः कायवतां विधिः ॥

3.6.18

चैतन्यवत् स्थिता लोके दिक्कालपरिकल्पना
प्रकृतिं प्राणिनां तां हि को ऽन्यथा स्थापयिष्यति ॥

3.6.19

संकरो व्यवहाराणां प्रकृतेः स्याद् विपर्यये
तस्मात् त्यजन्न् इमान् भावान् पुनर् एवावलम्बते ॥

3.6.20

तस्यास् तु शक्तेः पूर्वादि भेदो भावान्तराश्रयः
भिन्ना दिक् तेन भेदेन भेदायैवोपकल्पते ॥

3.6.21

अवधित्वेन चापेक्षा योगे दिग्लक्षणो विधिः
पूर्वम् अस्येति षष्ठ्य् एव दृष्टा धर्मान्तराश्रये ॥

3.6.22

पूर्वादिनां विपर्यासो ऽदृष्टश् चावध्यसंकरे
ऋज्व् एतद् अस्येत्य् एतच् च लिङ्गं न व्यतिकीर्यते ॥

3.6.23

अन्तःकरणधर्मो वा बहिर् एवं प्रकाशते
अस्यां त्व् अन्तर्बहिर्भावः प्रक्रियायां न विद्यते ॥

3.6.24

एकत्वम् आसां शक्तीनां नानात्वं वेति कल्पने
अवस्तुपतिते ज्ञात्वा सत्यतो न परामृशेत् ॥

3.6.25

विकल्पातीततत्त्वेषु संकेतोपनिबन्धनाः
भावेषु व्यवहारा ये लोकस् तत्रानुगम्यते ॥

3.6.26

नैकत्वम् अस्त्य् अनानात्वं विनैकत्वेन नेतरत्
परमार्थे तयोर् एष भेदो ऽत्यन्तं न विद्यते ॥

3.6.27

न शक्तीनां तथा भेदो यथा शक्तिमताम् स्थितिः
न च लौकिकम् एकत्वं तासाम् आत्मसु विद्यते ॥

3.6.28

नैकत्वं व्यवतिष्ठेत नानात्वं चेन् न कल्पयेत्
नानात्वं चावहीयेत यद्य् एकत्वं न कल्पयेत् ॥

मूल पाठ: Vākyapadīya · Data entry Yves Ramseier · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc