वाक्यपदीय · अध्याय 3.5
संसर्गि भेदकं यद् यत् सव्यापारं प्रतीयते
गुणत्वं परतन्त्रत्वात् तस्य शास्त्र उदाहृतम् ॥
द्रव्यस्याव्यपदेशस्य य उपादीयते गुणः
भेदको व्यपदेशाय तत्प्रकर्षो ऽभिधीयते ॥
सर्वस्यैव प्रधानस्य न विना भेदहेतुना
प्रकर्षो विद्यते नापि ऽशब्दस्योपैति वाच्यताम् ॥
विद्यमानाः प्रधानेषु न सर्वे भेदहेतवः
विशेषशब्दैर् उच्यन्ते व्यावृत्तार्थाभिधायिभिः ॥
वस्तूपलक्षणे तत्र विशेषो व्यापृतो यदि
प्रकर्षो नियमाभावात् स्याद् अविज्ञातहेतुकः ॥
सर्वं च सर्वतो ऽवश्यं नियमेन प्रकृष्यते
संसर्गिणा निमित्तेन निकृष्टेनाधिकेन वा ॥
नापेक्षते निमित्तं च प्रकर्षे व्यापृतं यदि
द्रव्यस्य स्याद् उपादानं प्रकर्षं प्रत्य् अनर्थकं ॥
सव्यापारो गुणस् तस्मात् स्वप्रकर्षनिबन्धनः
द्रव्यात्मानं भिनत्त्य् एव स्वप्रकर्षं निवेशयन् ॥
अरूपं पररूपेण द्रव्यम् आख्यायते यथा
अप्रकर्षं प्रकर्षेण गुणस्याविश्यते तथा ॥
मूल पाठ: Vākyapadīya · Data entry Yves Ramseier · GRETIL (Göttingen) · CC BY-NC-SA 4.0