ग्रंथ पाठ
वाक्यपदीय · अध्याय 3.4
3.4.1
संसर्गरूपात् संभूताः संविद्रूपाद् अपोद्धृताः
शास्त्रे विभक्ता वाक्यार्थात् प्रकृतिप्रत्ययार्थवत् ॥
3.4.2
निमित्तभूताः साधुत्वे शास्त्राद् अनुमितात्मकाः
के चित् पदार्था वक्ष्यन्ते संक्शेपेण यथागमम् ॥
3.4.3
वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते
द्रव्यम् इत्य् उच्यते सो ऽर्तो भेद्यत्वेन विवक्शितः ॥
मूल पाठ: Vākyapadīya · Data entry Yves Ramseier · GRETIL (Göttingen) · CC BY-NC-SA 4.0