वाक्यपदीय · अध्याय 3.3
ज्ञानं प्रयोक्तुर् बाह्यो ऽर्थः स्वरूपं च प्रतीयते
शब्दैर् उच्चरितैस् तेषां संबन्धः समवस्थितः ॥
प्रतिपत्तुर् भवत्य् अर्थे ज्ञाने वा संशयः क्वचित्
स्वरूपेषूपलभ्येषु व्यभिचारो न विद्यते ॥
अस्यायं वाचको वाच्य इति षष्ठ्या प्रतीयते
योगः शब्दार्थयोस् तत्त्वम् अप्य् अतो व्यपदिश्यते ॥
नाभिधानं स्वधर्मेण संबन्धस्यास्ति वाचकम्
अत्यन्तपरतन्त्रत्वाद् रूपं नास्यापदिश्यते ॥
उपकारात् स यत्रास्ति धर्मस् तत्रानुगम्यते
शक्तीनाम् अपि सा शक्तिर् गुणानाम् अप्य् असौ गुणः ॥
तद्धर्मणोस् तु ताच्छब्द्यं संयोगसमवाययोः
तयोर् अप्य् उपकारार्था नियतास् तदुपाधयः ॥
का चिद् एव हि सावस्था कार्यप्रसवसूचिता
कस्य चित् केन चिद् यस्यां संयोग उपजायते ॥
निरात्मकानाम् उत्पत्तौ नियमः क्वचिद् एव यः
तेनैवाव्यपवर्गश् च प्राप्तभेदे स यत्कृतः ॥
आत्मान्तरस्य येनात्मा तदात्मेवावधार्यते
यतश् चैकत्वनानात्वं तत्त्वं नाध्यवसीयते ॥
तां शक्तिं समवायाख्यां शक्तीनाम् उपकारिणीम्
हेदाभेदाव् अतिक्रान्ताम् अन्यथैव व्यवस्थिताम् ॥
धर्मं सर्वपदार्थानाम् अतीतः सर्वलक्षणः
अनुगृह्णाति संबन्ध इति पूर्वेभ्य आगमः ॥
पदार्थीकृत एवान्यैः सर्वत्राभ्युपगम्यते
संबन्धस् तेन शब्दार्थः प्रविभक्तुं न शक्यते ॥
समवायात् स्व आधारः स्वा च जातिः प्रतीयते
एकार्थसमवायात् तु गुणाः स्वाधार एव ये ॥
द्रव्यत्वसत्तासंयोगाः स्वान्याधारोपबन्धनाः
तत्प्रदेशविभागाश् च गुणा द्वित्वादयश् च ये ॥
के चित् स्वाश्रयसंयुक्ताः के चित् तत्समवायिनः
संयुक्तसमवेतेषु समवेतास् तथापरे ॥
स्वाश्रयेण तु संयुक्तैः संयुक्तं विभु गम्यते
समवायस्य संबन्धो नापरस् तत्र दृश्यते ॥
संबन्धस्याविशिष्टत्वान् न चात्र नियमो भवेत्
तस्माच्छब्दार्थयोर् नैवं संबन्धः परिकल्प्यते ॥
अदृष्टवृत्तिलाभेन यथा संयोग आत्मनः
क्व चित् स्वस्वामियोगाख्यो ऽभेदे ऽन्यत्रापि स क्रमः ॥
प्राप्तिं तु समवायाख्यां वाच्यधर्मातिवर्तिनीम्
प्रयोक्ता प्रतिपत्ता वा न शब्दैर् अनुगच्छति ॥
अवाच्यम् इति यद् वाच्यं तद् अवाच्यतया यदा
वाच्यम् इत्यवसीयेत वाच्यम् एव तदा भवेत् ॥
अथाप्य् अवाच्यम् इत्य् एवं, न तद् वाच्यं प्रतीयते
विवक्षितास्य यावस्था सैव नाध्यवसीयते ॥
तथान्यथा सर्वथा च यस्यावाच्यत्वम् उच्यते
तत्रापि नैव सावस्था तैः शब्दैः प्रतिषिध्यते ॥
न हि संशयरूपे ऽर्थे शेषत्वेन व्यवस्थिते
अव्युदासे स्वरूपस्य संशयो ऽन्यः प्रवर्तते ॥
यदा च निर्णयज्ञाने निर्णयत्वेन निर्णयः
प्रक्रम्यते तदा ज्ञानं स्वधर्मे नावतिष्ठते ॥
सर्वं मिथ्या ब्रवीमीति नैतद् वाक्यं विवक्ष्यते
तस्य मिथ्याभिधाने हि प्रक्रान्तो ऽर्थो न गम्यते ॥
न च वाचकरूपेण प्रवृत्तस्यास्ति वाच्यता
प्रतिपाद्यं न तत् तत्र येनान्यत् प्रतिपाद्यते ॥
असाधिका प्रतिज्ञेति नेयम् एवाभिधीयते
यथा, तथास्य धर्मो ऽपि नात्र कश्चित् प्रतीयते ॥
व्यापारस्यापरो यस्मान् न व्यापारो ऽस्ति कश्चन
विरोधम् अनवस्थां वा तस्मात् सर्वत्र नाश्रयेत् ॥
इन्द्रियाणां स्वविषयेष्व् अनादिर् योग्यता यथा
अनादिर् अर्थैः शब्दानां संबन्धो योग्यता तथा ॥
असाधुर् अनुमानेन वाचकः कैश्चिद् इष्यते
वाचकत्वाविशेषे वा नियमः पुण्यपापयोः ॥
संबन्धशब्दे संबन्धो योग्यताञ्ं प्रति योग्यता
समयाद् योग्यतासंविन् मातापुत्रादियोगवत् ॥
शब्दः कारणम् अर्थस्य स हि तेनोपजन्यते
तथा च बुद्धिविषयाद् अर्थाच् छब्दः प्रतीयते ॥
भोजनाद्य् अपि मन्यन्ते बुद्ध्यर्थे यद् असंभवि
बुद्ध्यर्थाद् एव बुद्ध्यर्थे जाते तद् अपि दृश्यते ॥
अनित्येष्व् अपि नित्यत्वम् अभिधेयात्मना स्थितम्
अनित्यत्वं स्वशक्तिर् वा सा च नित्यान् न भिद्यते ॥
शब्देनार्थस्य संस्कारो दृष्टादृष्टप्रयोजनः
क्रियते सो ऽभिसंबन्धम् अन्तरेण कथं भवेत् ॥
नावश्यम् अभिधेयेषु संस्कारः स तथाविधः
दृस्यते न च संबन्धस् तथाभूतो विवक्षितः ॥
सति प्रत्ययहेतुत्वं संबन्ध उपपद्यते
शब्दस्यार्थे यतस् तत्र संबन्धो ऽस्तीति गम्यते ॥
नित्ये ऽनित्ये ऽपि वाप्य् अर्थे पुरुषेण कथंचन
संबन्धो ऽकृतसंबन्धैः शब्दैः कर्तुं न शक्यते ॥
व्यपदेशे पदार्थानाम् अन्या सत्तौपचारिकी
सर्वावस्थासु सर्वेषाम् आत्मरूपस्य दर्शिका ॥
स्फटिकादि यथा द्रव्यं भिन्नरूपैर् उपाश्रयैः
स्वशक्तियोगात् संबन्धं ताद्रूप्येणेव गच्छति ॥
तद्वच् छब्दो ऽपि सत्तायाम् अस्यां पूर्वं व्यवस्थितः
धर्मैर् उपैति संबन्धम् अविरोधिविरोधिभिः ॥
एवं च प्रतिषेध्येषु प्रतिषेधप्रकॢप्तये
आश्रितेषूपचारेण प्रतिषेधः प्रवर्तते ॥
आत्मलाभस्य जन्माख्या सता लभ्यं च लभ्यते
यदि सज् जायते कस्माद् अथासज् जायते कथम् ॥
सतो हि गन्तुर् गमनं, सति गम्ये प्रवर्तते
गन्तृवच् चेन् न जन्मार्थो, न चेत् तद्वन् न जायते ॥
उपचर्य तु कर्तारम् अभिधानप्रवृत्तये
पुनश् च कर्मभावेन तां क्रियां च तदाश्रयाम् ॥
अथोपचारसत्तैवं विधेयस् तत्र लादयः
जन्मना तु विरोधित्वान् मुख्या सत्ता न विद्यते ॥
आत्मानम् आत्मना बिभ्रद् अस्तीति व्यपदिश्यते
अन्तर्भावाच् च तेनासौ कर्मणा न सकर्मकः ॥
प्राक् च सत्ताभिसंबन्धान् मुख्या सत्ता कथं भवेत्
असंश् च नास्तेः कर्ता स्याद् उपचारस् तु पूर्ववत् ॥
तस्माद् भिन्नेषु धर्मेषु विरोधिष्व् अविरोधिनीम्
विरोधिख्यापनायैव शब्दैस् तैस् तैर् उपाश्रिताम् ॥
अभिन्नकालाम् अर्थेषु भिन्नकालेष्व् अवस्थिताम्
प्रवृत्तिहेतुं सर्वेषां शब्दानाम् औपचारिकीम् ॥
एतां सत्तां पदार्थो हि न कश् चिद् अतिवर्तते
सा च संप्रतिसत्तायाः पृथग् भाश्ये निदर्शिता ॥
प्रदेशस्यैकदेशं वा परतो वा निरूपणम्
विपर्ययम् अभावं वा व्यवहारो ऽनुवर्तते ॥
यथेन्द्रियस्य वैगुण्यान् मात्राध्यारोपवान् इव
जायते प्रत्ययो ऽर्थेभ्यस् तथैवोद्देशजा मतिः ॥
अकृत्स्नविषयाभासं शब्दः प्रत्ययम् आश्रितः
अर्थम् आहान्यरूपेण स्वरूपेणानिरूपितम् ॥
रूपणव्यपदेशाभ्यां लौकिके वर्त्मनि स्थितौ
ज्ञानं प्रत्य् अभिलापं च सदृशौ बालपण्डितौ ॥
सर्वार्थरूपता शुद्धिर् ज्ञानस्य निरुपाश्रया
ततो ऽप्य् अस्य परां शुद्धिम् एके प्राहुर् अरूपिकाम् ॥
उपप्लवो हि ज्ञानस्य बाह्याकारानुपातिता
कालुष्यम् इव तत् तस्य संसर्गे व्यतिभेदजम् ॥
यथा च ज्ञानम् आलेखाद् अशुद्धौ व्यवतिष्ठते
तथोपाश्रयवान् अर्थः स्वरूपाद् विप्रकृष्यते ॥
एवम् अर्थस्य शब्दस्य ज्ञानस्य च विपर्यये
भावाभावाव् अभेदेन व्यवहारानुपातिनौ ॥
यथा भावम् उपाश्रित्य तदभावो ऽनुगम्यते
तथाभावम् उपाश्रित्य तद्भावो ऽप्य् अनुगम्यते ॥
नाभावो जायते भावो नैति भावो ऽनुपाख्यताम्
एकस्माद् आत्मनो ऽनन्यौ भावाभावौ विकल्पितौ ॥
अभावस्यानुपाख्यत्वात् कारणं न प्रसाधकम्
सोपाख्यस्य तु भावस्य कारणं किं करिश्यति ॥
तस्मात् सर्वम् अभावो वा भावो वा सर्वम् इष्यते
न त्व् अवस्थान्तरं किं चिद् एकस्मात् सत्यतः स्थितम् ॥
तस्मान् नाभावम् इच्छन्ति ये लोके भाववादिनः
अभाववादिनो वापि न भावं तत्त्वलक्षणम् ॥
अद्वये चैव सर्वस्मिन् स्वभावाद् एकलक्षणे
परिकल्पेषु मर्यादा विचित्रैवोपलभ्यते ॥
चतस्रो हि यथावस्था निरुपाख्ये प्रकल्पिताः
एवं द्वैविध्यम् अप्य् एतद् भावाभावव्यपाश्रयम् ॥
अविरोधी विरोधी वा सन्न् असन् वापि युक्तितः
क्रमवान् अक्रमो वापि नाभाव उपपद्यते ॥
अविरोधी विरोधी वा सन्न् असन् वापि तत्त्वतः
क्रमवान् अक्रमो वापि तेन भावो न विद्यते ॥
अभावे त्रिषु कालेषु न भेदस्यास्ति संभवः
तस्मिन्न् असति भावे ऽपि त्रैकाल्यं नावतिष्ठते ॥
आत्मतत्त्वपरित्यागः परतो नोपपद्यते
आत्मतत्त्वं तु परतः स्वतो वा नोपकल्पते ॥
तत्त्वे विरोधो नानात्व उपकारो न कश् चन
तत्त्वान्यत्वपरित्यागे व्यवहारो निवर्तते ॥
यत्र द्रष्टा च दृश्यं च दर्शनं चाविकल्पितम्
तस्यैवार्थस्य सत्यत्वं श्रितास् त्रय्यन्तवेदिनः ॥
सामान्यं वा विशेषं वा यस्माद् आहुर् विशेषवत्
शब्दास् तस्माद् असत्येषु भेदेष्व् एव व्यवस्थिताः ॥
न ह्य् अभावस्य सद्भावे भावस्यात्मा प्रहीयते
न चाभावस्य नास्तित्वे भावस्यात्मा प्रसूयते ॥
न शाबलेयस्यास्तित्वं बाहुलेयस्य बाधकम्
न शाबलेयो नास्तीति बाहुलेयः प्रकल्पते ॥
अभावो यदि वस्तु स्यात् तत्रेयं स्यात् विचारणा
ततश् च तदभावे ऽपि स्याद् विचार्यम् इदं पुनः ॥
अवस्तु स्याद् अतीतं यद् व्यवहारस्य गोचरम्
तत्र वस्तुगतो भेदो न निर्वचनम् अर्हति ॥
अपदे ऽर्थे पदन्यासः कारणस्य न विद्यते
अथ च प्रागसद्भावः कारणे सति दृष्यते ॥
का तस्य प्रागवस्थेति वस्त्वाश्रितम् इदं पुनः
प्राग् अवस्थेति न ह्य् एतद् द्वयम् अप्य् अस्त्य् अवस्तुनि ॥
न चोर्ध्वम् अस्ति नास्तीति वचनायानिबन्धनम्
अलं स्याद् अपदस्थानम् एतद् वाचः प्रचक्षते ॥
अत्यद्भुता त्व् इयं वृत्तिर् यद् अभागं यद् अक्रमम्
भावानां प्राग् अभूतानाम् आत्मतत्त्वं प्रकाशते ॥
विकल्पोत्थापितेनैव सर्वो भावेन लौकिकः
मुख्येनेव पदार्थेन व्यवहारो विधीयते ॥
भावशक्तिम् अतश् चैनां मन्यन्ते नित्यवादिनः
भावम् एव क्रमम् प्राहुर् न भावाद् अपरः क्रमः ॥
क्रमान् न यौगपद्यस्य कश् चिद् भेदो ऽस्ति तत्त्वतः
यथैव भावान् नाभावः कश् चिद् अन्यो ऽवसीयते ॥
कालस्याप्य् अपरं कालं निर्दिशन्त्य् एव लौकिकाः
न च निर्देशमात्रेण व्यतिरेको ऽनुगम्यते ॥
आधारं कल्पयन् बुद्ध्या नाभावे व्यवतिष्ठते
अवस्तुष्व् अपि नोत्प्रेक्षा कस्य चित् प्रतिबध्यते ॥
तस्माच् छक्तिविभागेन नित्यः सदसदात्मकः
एको ऽर्थः शब्दवाच्यत्वे बहुरूपः प्रकाशते ॥
व्यवहारश् च लोकस्य पदार्थैः परिकल्पितैः
शास्त्रे पदार्थः कार्यार्थं लौकिकः प्रविभज्यते ॥
मूल पाठ: Vākyapadīya · Data entry Yves Ramseier · GRETIL (Göttingen) · CC BY-NC-SA 4.0