वाक्यपदीय · अध्याय 3.2
आत्मा वस्तु स्वभावश् च शरीरं तत्त्वम् इत्य् अपि
द्रव्यम् इत्य् अस्य पर्यायास् तच् च नित्यम् इति स्मृतम् ॥
सत्यं वस्तु तदाकारैर् असत्यैर् अवधार्यते
असत्योपाधिभिः शब्दैः सत्यम् एवाभिधीयते ॥
अध्रुवेण निमित्तेन देवदत्तगृहं यथा
गृहीतं गृहशब्देन शुद्धम् एवाभिधीयते ॥
सुवर्णादि यथा युक्तम् स्वैर् आकारैर् अपायिभिः
रुचकाद्यभिधानानां शुद्धम् एवैति वाच्यताम् ॥
आकारैश् च व्यवच्छेदात् सार्वार्थ्यम् अवरुध्यते
यथैव चक्षुरादीनां सामर्थ्यं नालिकादिभिः ॥
तेष्व् आकारेषु यः शब्दस् तथाभूतेषु वर्तते
तत्त्वात्मकत्वात् तेनापि नित्यम् एवाभिधीयते ॥
न तत्त्वातत्त्वयोर् भेद इति वृद्धेभ्य आगमः
अतत्त्वम् इति मन्यन्ते तत्त्वम् एवाविचारितम् ॥
विकल्परूपं भजते तत्त्वम् एवाविकल्पितम्
न चात्र कालभेदो ऽस्ति कालभेदश् चगृह्यते ॥
यथा विषयधर्माणां ज्ञाने ऽत्यन्तम् असंभवः
तदात्मेव च तत् सिद्धम् अत्यन्तम् अतदात्मकम् ॥
तथा विकाररूपाणां तत्त्वे ऽत्यन्तम् असंभवः
तदात्मेव च तत् तत्त्वम् अत्यम्न्तम् अतदात्मकम् ॥
सत्यम् आकृतिसंहारे यद् अन्ते व्यवतिष्ठते
तन् नित्यं शब्दवाच्यं तच् छब्दात् तच् च न भिद्यते ॥
न तद् अस्ति न तन् नास्ति न तद् एकं न तत् पृथक्
न संसृष्टं विभक्तं वा विकृतं न च नान्यथा ॥
तन् नास्ति विद्यते तच् च तद् एकं तत् पृथक् पृथक्
संसृष्टं च विभक्तं च विकृतं तत् तद् अन्यथा ॥
तस्य शब्दार्थसंबन्ध रूपम् एकस्य दृश्यते
तद् दृश्यं दर्शनं द्रष्टा दर्शने च प्रयोजनम् ॥
विकारापगमे सत्यं सुवर्णं कुण्डले यथा
विकारापगमे सत्यां तथाहुः प्रकृतिं पराम् ॥
वाच्या सा सर्वशब्दानां शब्दाश् च न पृथक् ततः
अपृथक्त्वे च संबन्धस् तयोर् नानात्मनोर् इव ॥
आत्मा परः प्रियो द्वेष्यो वक्ता वाच्यं प्रयोजनम्
विरुद्धानि यथैकस्य स्वप्ने रूपाणि चेतसः ॥
अजन्मनि तथा नित्ये पौर्वापर्यविवर्जिते
तत्त्वे जन्मादिरूपत्वं विरुद्धम् उपलभ्यते ॥
मूल पाठ: Vākyapadīya · Data entry Yves Ramseier · GRETIL (Göttingen) · CC BY-NC-SA 4.0