भाषा

ENहिગુ
ग्रंथ पाठ

वाक्यपदीय · अध्याय 3.14

3.14.1

कुत्साप्रशंसातिशयैः समाप्तार्थं तु युज्यते
पदं स्वार्थादयः सर्वे यस्मात् कुत्सादिहेतवः ॥

3.14.2

देवदत्तादिकुत्सायां वर्तते कुत्सितश्रुतिः
कुत्सितस्था तु या कुत्सा तदर्थः को विधीयते ॥

3.14.3

प्रकृष्ट इति शुक्लादि प्रकर्षस्याभिधायकः
प्रकृष्टस्य प्रकर्षे तु तरबादिर् विधीयते ॥

3.14.4

कुत्सितत्वेन कुत्स्यो वा न सम्यग् वापि कुत्सितः
स्वशब्दाभिहिते केन विशिष्टो ऽर्थः प्रतीयते ॥

3.14.5

न च सांप्रतिकी कुत्सा भेदाभावात् प्रतीयते
पूज्यते कुत्सितत्वेन प्रशस्तत्वेन कुत्स्यते ॥

3.14.6

विशेषणविशेष्यत्वं पदयोर् उपजायते
न प्रातिपदिकार्थश् च तत्रैव व्यतिरिच्यते ॥

3.14.7

विशेष्यं स्याद् अनिर्ज्ञातं निर्ज्ञातो ऽर्थो विशेषणम्
परार्थत्वेन शेषत्वं सर्वेषाम् उपकारिणाम् ॥

3.14.8

विभक्तिभेदो नियमाद् गुणगुण्यभिधायिनोः
सामानाधिकरण्यस्य प्रसिद्धिर् द्रव्यशब्दयोः ॥

3.14.9

द्रव्ये ऽनिर्ज्ञातजातीये कृष्णशब्दः प्रयुज्यते
अनिर्ज्ञातगुणे चैवं तिलशब्दः प्रवर्तते ॥

3.14.10

सामान्यानाम् असंबन्धात् तौ विशेषे व्यवस्थितौ
रूपाभेदाद् विशेषं तम् अभिव्यङ्क्तुं न शक्नुतः ॥

3.14.11

ताव् एव संनिपतितौ भेदेन प्रतिपादने
अवच्छेदम् इवाधाय संशयं व्यपकर्षतः ॥

3.14.12

द्रव्यात्मा गुणसंसर्ग भेदाद् आश्रीयते पृथक्
जातिसंबन्धभेदाच् च द्वितीय इव गृह्यते ॥

3.14.13

निमित्तैर् अभिसंबन्धाद् या निमित्तसरूपता
तयैकस्यापि नानात्वं रूपभेदात् प्रकल्पते ॥

3.14.14

द्रव्यावस्था तृतीया तु यस्यां संसृज्यते द्वयम्
तयोर् अवस्थयोर् भेदाद् आश्रयत्वे नियुज्यते ॥

3.14.15

बुद्ध्यैकं भिद्यते भिन्नम् एकत्वं चोपगच्छति
बुद्ध्यावस्था विभज्यन्ते सा ह्य् अर्थस्य विधायिका ॥

3.14.16

व्यपदेशिवद् एकस्मिन् बुद्ध्या नानात्वकल्पना
तया कल्पितभेदः सन्न् अर्थात्मा व्यपदिश्यते ॥

3.14.17

क्रियाभेदेन दृष्टानाम् अश्मादीनां पुनः पुनः
किं चिद् दर्शनम् अन्येन दर्शनेनापदिश्यते ॥

3.14.18

प्रयोगभेदाद् धातूनां प्रकल्प्य बहुरूपताम्
भेदाभेदाव् उपादाय क्व चिद् एकाच्त्वम् उच्यते ॥

3.14.19

अन्वयव्यतिरेकाभ्याम् अर्थवान् परिकल्पितः
एको धात्वर्थविगमाद् वर्णत्वेनोपचर्यते ॥

3.14.20

द्रव्यात्मानस् त्रयस् तस्माद् बुद्धौ नाना व्यवस्थिताः
आश्रयाश्रयिधर्मेणेत्य् अयं पूर्वेभ्य आगमः ॥

3.14.21

सामानाधिकरण्यं च शब्दयोः कैश् चिद् इष्यते
विशेषणविशेष्यत्वं संज्ञासंज्ञित्वम् एव च ॥

3.14.22

केषां चिज् जातिगुणयोर् एकार्थसमवेतयोः
वृत्तिः कृष्णतिलेष्व् इष्टा शब्दे द्रव्याभिधायिनि ॥

3.14.23

संस् तु रूपरसादिनाम् आश्रयो नाभिधीयते
द्रव्याभिधानेन विना ततस् ते द्वन्द्वभाविनः ॥

3.14.24

द्रव्याभिधायी कृष्णादिर् आकाङ्क्षावान् प्रवर्तते
निमित्तानुविधायित्वात् तत् तिलादौ न विद्यते ॥

3.14.25

एवं जातिमति द्रव्ये प्रत्यासन्ने क्रियां प्रति
गुणधर्म गुणाविष्टं द्रव्यं भेदाय कल्पते ॥

3.14.26

गुणमात्राभिधायित्वं के चिद् इच्छन्ति वृत्तिषु
अजाश्वादिषु संबन्धाद् रूढीनाम् इव रूढिभिः ॥

3.14.27

तिले पूर्वम् उपात्ते वा तत्रैव मतुब् इष्यते
स च धर्मः समासेषु गुणस् तस्माद् विशेषणम् ॥

3.14.28*

[पट्वीमृद्व्योः समासे तु यद्य् अप्य् एकार्थवृत्तिता
भिन्नम् अत्राधिकरणं प्राग् वृत्तेस् तच् च गृह्यते ॥

3.14.29

अनुस्यूतेव भेदाभ्याम् एका प्रख्योपजायते
यदा सहविवक्षां ताम् आहुर् द्वन्द्वैकशेषयोः ॥

3.14.30

इतरेतरयोगस् तु भिन्नसङ्घाभिधायिनाम्
प्रत्येकं च समूहो ऽसौ समूहिषु समाप्यते ॥

3.14.31

व्यापारसमुदायस्य यथाधिश्रयणादिषु
प्रत्येकं जातिवद् वृत्तिस् तथा द्वन्द्वपदेष्व् अपि ॥

3.14.32

शौण्डार्धर्चपुरोडाश च्छत्त्रिणो ऽत्र निदर्शनम्
ते विष्णुमित्रा इति च भिन्नेषु सहचारिषु ॥

3.14.33

अर्थान्तराभिधायित्वं तथार्थान्तरवर्तिनाम्
याभ्यां चैकम् अनेकार्थं ताभ्याम् एवापरं पदम् ॥

3.14.34

समुदायान्तरत्वाच् च तादृशो ऽर्थो न लौकिकः
अन्वयव्यतिरेकाभ्यां शास्त्रार्थो ऽपि न दृश्यते ॥

3.14.35

दुःखा दुरुपपादा च तस्माद् भाष्ये ऽप्य् उदाहृता
युगपद्वाचिता सा तु व्यवहारार्थम् आश्रिता ॥

3.14.36

समुदायम् उपक्रम्य पदं तस्यां प्रयुज्यते
विभागेन समाख्याने ततस् तद् द्व्यर्थम् उच्यते ॥

3.14.37

वाक्ये ऽपि नियता धर्माः के चिद् वृत्तौ द्वयोस् तथा
ते त्व् अभेदेन सामर्थ्य मात्र एवोपवर्णिताः ॥

3.14.38

वृत्तौ विशेषवृत्तित्वाद् भेदे सामान्यवाचिता
उपमानसमासादौ श्यामादीनाम् उदाहृता ॥

3.14.39

वृत्तिर् अन्यपदार्थे या तस्या वाक्येष्व् असंभवः
चार्थे द्वन्द्वपदानां च भेदे वृत्तिर् न विद्यते ॥

3.14.40

भेदे सति निरादीनां क्रान्ताद्यर्थेष्व् असंभवः
प्राग् वृत्तेर् जातिवाचित्वं न च गौरखरादिषु ॥

3.14.41

क्रीडाया, जीविकायाश् च वाक्येनावचनात् तथा
न नित्यग्रहणं युक्तं कौटिल्ये यङ्विधौ यथा ॥

3.14.42

निर्धारणादिविषये व्यपेक्षैव यतः स्थिता
समासप्रतिषेधानां ततो नास्ति प्रयोजनम् ॥

3.14.43

विधिभिः प्रतिषेधैश् च भेदाभेदनिदर्शनम्
कृतं द्वन्द्वैकवद्भावे सङ्घवृत्त्युपदेशवत् ॥

3.14.44

सामर्थ्यम् अविशेषोक्तम् अपि लोकव्यवस्थया
वृत्त्यवृत्त्योः प्रयोगज्ञैर् विभक्तं प्रतिपत्तृभिः ॥

3.14.45

अर्थस्य विनिवृत्तत्वाल् लुगादि न विरुध्यते
एकार्थीभाव एवातः समासाख्या विधीयते ॥

3.14.46

व्यवस्थितविभाषा च सामान्ये कैश् चिद् इष्यते
तथा वाक्यं व्यपेक्षायां समासो ऽन्यत्र शिष्यते ॥

3.14.47

तुल्यश्रुतित्वात् तत्त्वे ऽपि राजादीनाम् उपाश्रिते
वृत्तौ विशेषणाकाङ्क्षा गमकत्वान् निवर्तते ॥

3.14.48

संबन्धिशब्दः सापेक्षो नित्यं सर्वः प्रयुज्यते
स्वार्थवत् सा व्यपेक्षास्य वृत्ताव् अपि न हीयते ॥

3.14.49

समुदायेन संबन्धो येसां गुरुकुलादिना
संस्पृश्यावयवांस् ते ऽपि युज्यन्ते तद्वता सह ॥

3.14.50

अबुधान् प्रत्य् उपायाश् च विचित्राः प्रतिपत्तये
शब्दान्तरत्वाद् अत्यन्त भेदो वाक्यसमासयोः ॥

3.14.51

असमासे समासे च गोरथादिष्व् अदर्शनात्
युक्तादिनां न शास्त्रेण निवृत्त्यनुगमः कृतः ॥

3.14.52

शब्दान्तरत्वाद् युक्तादिः क्व चिद् वाक्ये प्रयुज्यते
प्रपर्णप्रपलाशादौ गतशब्दश् च वृत्तिषु ॥

3.14.53

विशेषणविशेस्यत्वं कैश् चिद् एकस् तथाश्रयः
उपाये तत्त्वदर्शित्वाद् इष्यते वृत्तिवाक्ययोः ॥

3.14.54

पदं यथैव वृक्षादि विशिष्टे ऽर्थे व्यवस्थितम्
नीलोत्पलाद्य् अपि तथा भागाभ्यां वर्तते विना ॥

3.14.55

श्रोत्रियक्षेत्रियादिनां न च वासिष्ठगार्ग्यवत्
भेदेन प्रत्ययो लोके तुल्यरूपासमन्वयात् ॥

3.14.56

सप्तपर्णादिवद् भेदो न वृत्तौ विद्यते क्व चित्
रूढ्यरूढिविभागो ऽपि क्रियते प्रतिपत्तये ॥

3.14.57

या सामान्याश्रया संज्ञा विशेषविषया च या
बहुलग्रहणान् नास्ति प्रवृत्तिर् उभयोस् तयोः ॥

3.14.58

सुसूक्ष्मजटकेशादौ समासो ऽवयवे यदि
स्यात् स्यात् तत्रान्तरङ्गत्वाद् बाधको ऽवयवस्वरः ॥

3.14.59

समुदायस्य वृत्तौ च नैकदेशो विभाष्यते
भेद एव विभाषाया नियतो विषयो यतः ॥

3.14.60

यतश् चाविषयः सो ऽस्यास् तस्मान् नास्त्य् अकृतार्थता
अभेदप्रक्रमे ऽत्यन्तं भेदानाम् अपसारणात् ॥

3.14.61

महाकष्टश्रितेत्य् एवं न स्याद् भेदः पदत्रये
वृत्ताव् अवयवस्यात्त्वं यस्मान् न प्रतिषिध्यते ॥

3.14.62

महारण्यम् अतीते तु त्रिपदाद् भिद्यते स्वरः
यस्मात् तत्रान्तरङ्गत्वाद् बाधको ऽवयवस्वरः ॥

3.14.63

सतिशिष्टबलियस्त्वात् थाथादिस्वर एव तु
द्विपदे तेन यगपत् त्रितयं न समस्यते ॥

3.14.64

येषाम् अपूज्यमानत्वं परार्थानुगमात्मके
विशेषणविशेष्यत्वम् अपि तेषां न कल्पते ॥

3.14.65

विशेषः श्रूयमाणो ऽपि प्रधानेषु गुणेषु वा
शब्दान्तरत्वाद् वाक्ये तु वृत्तौ नित्यं न विद्यते ॥

3.14.66

विशेषकर्मसंबन्धे निर्भुक्ते ऽपि कृतादिभिः
विशेषनिरपेक्षो ऽन्यः कृतशब्दः प्रवर्तते ॥

3.14.67

अकर्मकत्वे सत्य् एवं क्तान्तं भावाभिधायि तत्
ततः क्रियावता कर्त्रा योगो भवति कर्मणाम् ॥

3.14.68

अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः
संबध्यते क्रिया तद्वत् कृतपूर्व्यादिषु स्थिता ॥

3.14.69

मुण्डिसूत्र्वादयो ऽसद्भिर् भागैर् अनुगता इव
विभक्ताः कल्पितात्मानो धातवः कुट्टिचर्चिवत् ॥

3.14.70

पुत्रीयतौ न पुत्रो ऽस्ति विशेषेच्छा तु तादृशी
विनैव पुत्रानुगमाद् या पुत्रे व्यवतिष्ठते ॥

3.14.71

प्राणैर् विना यथा धारिर् जीवतौ प्राणकर्मकः
न चात्र धारिर् न प्राणा जीवतिस् तु क्रियान्तरम् ॥

3.14.72

तथा विनेषिपुत्राभ्यां पुत्रीयायां क्रियान्तरम्
अन्वाख्यानाय भेदास् तु सदृशाः प्रतिपादकाः ॥

3.14.73

आक्षेपाच् च प्रयोगे.न विषयान्तरवर्तिना
सद् अपीच्छाक्यचः कर्म वाक्य एव प्रयुज्यते ॥

3.14.74

प्रसिद्धेन हृतः शब्दो भावगर्हाभिधायिना
अभ्यासे तुल्यरूपत्वान् न यङन्तः प्रयुज्यते ॥

3.14.75

शब्दा यथा विभज्यन्ते भागैर् इव विकल्पितैः
अन्वाख्येयास् तथा शास्त्रम् अतिदूरे व्यवस्थितम् ॥

3.14.76

अर्थस्यानुगमं कं चिद् दृष्ट्वैव परिकल्पितम्
पदं वाक्ये पदे धातुर् धातौ भागश् च मुण्डिवत् ॥

3.14.77

अविप्रयोगः साधुत्वे व्युत्पत्तिर् अनवस्थिता
उपायान् प्रतिपत्तीनां नाभिमन्येत सत्यतः ॥

3.14.78

यथैव डित्थे दवतिः पाचके पचतिस् तथा
डयतिश् च पचिश् चैव द्वाव् अप्य् एताव् अलौकिकौ ॥

3.14.79

प्रकृतिप्रत्ययाव् ऊह्यौ पदात् ताभ्यां पदं तथा
अनुबन्धस्वरादिभ्यः शिष्टैः शास्त्रं न तान् प्रति ॥

3.14.80

शास्त्रदृष्टिस् तु शास्त्रस्य प्राप्तिमात्रे ऽप्य् अनिश्चिते
युज्यते प्रत्यवायेन शास्त्रं चक्षुर् अपश्यताम् ॥

3.14.81

अर्थान्तराभिधानाच् च पौर्वापर्यं न भिद्यते
राजदन्ताहिताग्न्यादि राजाश्वादिषु सर्वथा ॥

3.14.82

विनैव प्रत्ययैर् वृत्तौ ये भिन्नार्थाभिधायिनः
गर्गादयो लुका तेषां साधुत्वम् अनुगम्यते ॥

3.14.83*

[सो ऽयम् इत्य् अभिसंबन्धात् प्रत्ययेन विना यदि
भृग्वादयः प्रयुज्येरन् नापत्ये नियमो भवेत् ॥

3.14.84

सो ऽयम् इत्य् अभिसंबन्धे लिङ्गोपव्यञ्जनाद् ऋते
प्रष्ठादिषु न जायैव नियमेन प्रतीयते ॥

3.14.85

मानमेयाभिसंबन्ध विशेषे ऽङ्गीकृते तथा
प्रस्थादीनाम् असाधुत्वं तद्धितेन विना भवेत् ॥

3.14.86

तद्धितो योगभेदेन वाक्यं वा स्याद् विभाषितम्
परिमाणाधिके तत्र प्रथमा शिष्यते पुनः ॥

3.14.87

व्यतिरिक्तस्य साधुत्वे तद् एव च निदर्शनम्
युज्यते ऽङ्गीकृताधिक्यं तत् सर्वाभिर् विभक्तिभिः ॥

3.14.88

शुक्लादिषु मतुब्लोपो व्यतिरेकस्य दर्शनात्
असाधुत्वनिवृत्त्यर्थं साधवस् ते बिदादिवत् ॥

3.14.89

विशेषणाद् विशेष्ये ऽर्थे तद्भावाभ्युच्चये सति
पुनश् च प्रतिसंहारे वृत्तिम् एके प्रचक्षते ॥

3.14.90

निमित्ते प्रत्ययः पूर्वो नानुप्राप्तो निमित्तिना
निमित्तवति बुद्धेश् च न निमित्तसरूपता ॥

3.14.91

संस्कारसहिताज् ज्ञानान् नोपश्लेसः स्मृतेर् अपि
व्यापारे तन्निमित्तानां न ग्राह्यं स्यात् तथा स्थितम् ॥

3.14.92

अन्तःकरणवृत्तौ च व्यर्था बाह्यार्थकल्पना
तस्माद् अनुपकारे वा ग्राह्यं वा न तथा स्थितम् ॥

3.14.93

अनुस्यूतेव संसृष्टैर् अर्थे बुद्धिः प्रवर्तते
व्याख्यातारो विभज्यार्थांस् तान् भेदेन प्रचक्षते ॥

3.14.94

तदात्मन्य् अविभक्ते च बुद्ध्यन्तरम् उपाश्रिताः
विभागम् इव मन्यन्ते विशेषणविशेष्ययोः ॥

3.14.95

अबुधान् प्रति वृत्तिं च वर्तयन्तः प्रकल्पिताम्
आहुः परार्थवचने त्यागाभ्युच्चयधर्मताम् ॥

3.14.96

अन्वयाद् गम्यते सो ऽर्थो विरोधी वा निवर्तते
द्व्यर्थम् अर्थान्तरे वापि तत्राहुर् उपसर्जनम् ॥

3.14.97

उपायमात्रं नानात्वं समूहस् त्व् एक एव सः
विकल्पाभ्युच्चयाभ्यां वा भेदसंसर्गकल्पना ॥

3.14.98

वृत्तिं वर्तयताम् एवम् अबुधप्रतिपत्तये
भिन्नाः संबोधनोपायाः पुरुषेष्व् अनवस्थिताः ॥

3.14.99

वाचिका द्योतिका वापि संख्यानां वा विभक्तयः
तद्रूपे ऽवयवे वृत्तौ संख्याभेदो निवर्तते ॥

3.14.100

अभेदैकत्वसंख्या वा तत्रान्यैवोपजायते
संसर्गरुपं सैंख्यानाम् अविभक्तं तद् उच्यते ॥

3.14.101

यथौषधिरसाः सर्वे मधुन्य् आहितशक्तयः
अविभागेन वर्तन्ते तां संख्यां तादृशीं विदुः ॥

3.14.102

भेदानां वा परित्यागात् संख्यात्मा स तथाविधः
व्यापाराज् जातिभागस्य भेदापोहेन वर्तते ॥

3.14.103

अगृहीतविशेषेण यथा रूपेण रूपवान्
प्रख्यायते न शुक्लादि भेदरूपस् तु गृह्यते ॥

3.14.104

भेदरूपसमावेशे तथा सत्य् अविवक्षिते
भागः प्रकाशितः कश् चिच् छास्त्रे ऽङ्गत्वेन गृह्यते ॥

3.14.105

संक्ःयासामान्यरूपेण तदा सो ऽम्शः प्रतीयते
अर्थस्यानेकशक्तित्वे शब्दैर् नियतशक्तिभिः ॥

3.14.106

अव्ययानां च यो धर्मो यश् च भेदवतां क्रमः
अभिन्नव्यपदेशार्हम् अन्तरालं तद् एतयोः ॥

3.14.107

अलुकश् चैकवद्भावस् तस्मिन् सति न शिष्यते
स च गोषुचरादीनां धर्मो ऽस्ति वचनान्तरे ॥

3.14.108

जातौ द्विवचनाभावात् तद् वृत्तिषु न विद्यते
प्रत्याख्याने तु योगस्य द्रव्ये गोषुचरादयः ॥

3.14.109

आश्रयाद् भेदवत्तायाः सर्वभेदसमन्वयः
द्रव्याभिधानपक्षो ऽपि जात्याख्यायां न विद्यते ॥

3.14.110

सर्वद्रव्यगतिश् चैवम् एकशेषश् च नोच्यते
प्रत्याख्याते ऽन्यथा सूत्रे भिन्नद्रव्यगतिर् भवेत् ॥

3.14.111

वृत्तौ यो युक्तवद्भावो वरणादिषु शिष्यते
अभेदैकत्वसंख्यायां गोदौ तत्र न सिध्यति ॥

3.14.112

प्राग् वृत्तेर् युक्तवद्भावे षष्ठी भेदाश्रया भवेत्
वृत्तौ संख्याविशेषाणां त्यागाद् भेदो निवर्तते ॥

3.14.113

विद्यमानासु संख्यासु के चित् संख्यान्तरं विदुः
अभेदाख्यम् उपग्राहि वृत्तौ तच् चोपजायते ॥

3.14.114

व्यापारं याति भेदाख्यैस् तत् स्वैर् अवयवैः क्व चित्
आत्मा भेदानपेक्षो ऽस्य क्व चिद् एति निमित्तताम् ॥

3.14.115

दास्याः पतिर् इति व्यक्तो गोदाव् इति च दृश्यते
व्यापारभेदः संख्यायास् तस्माद् एव व्यवस्थितः ॥

3.14.116

द्व्यादिनां च द्विपुत्रादौ बाह्यो भेदो निवर्तते
विभक्तिवाच्यः स्वार्थत्वान् निमित्तं त्व् अवतिष्ठते ॥

3.14.117

द्वित्वोपसर्जने सङ्घे द्विशब्दस् तत्र वर्तते
सो ऽयम् इत्य् अभिसंबन्धाद् उभशब्दे न तत् तथा ॥

3.14.118

उभयस् तत्र तुल्यार्थो वृत्तौ नित्यं प्रयुज्यते
सूत्रे ऽपि नित्यग्रहणं तदर्थम् अभिधीयते ॥

3.14.119

आपि के चापरार्थत्वान् नाभेद उपजायते
उभे इति ततः स्वार्थे भेदे वृत्तिः प्रयुज्यते ॥

3.14.120

स्त्रीत्वाभिधानपक्षे ऽपि गुणभावविपर्ययः
स्वभावाद् अपरार्थत्वात् तत्र भेदो न हीयते ॥

3.14.121

तस्माद् द्विवचनाट् टापश् चोभयो ऽन्यत्र दृश्यते
प्रत्ययं तयपं हित्वा नास्त्य् उत्तरपदे पुनः ॥

3.14.122

प्राप्तिः प्रगृह्यसंज्ञाया न स्यात् प्रत्ययलक्षणात्
कुमार्यगारे न ह्य् अस्ति समासो वचनान्तरे ॥

3.14.123

एकद्वयोर् यञादिनां विभाषा लुङ् न कल्पते
यौष्माकस् तावकश् चेति भेदाभावान् न सिध्यति ॥

3.14.124

दृष्टो गार्ग्यतरे भेदस् तथा गर्गतरा इति
युष्मत्पिता त्वत्पितेति तथादेशौ व्यवस्थितौ ॥

3.14.125

उपाधिभूता या संख्या प्रकृतौ समवस्थिता
आदेशैः सम्ज्नया वापि विभक्त्या व्यज्यते विना ॥

3.14.127

वयस्विनि परिच्छेदः क्रीते चापि न गम्यते
इष्टो ऽभेदाद् ऋते तत्र पतिमाणम् अनर्थकम् ॥

3.14.128

भिन्नस्याभेदवचनात् प्रस्थादिभ्यः शसो विधिः
तद्धर्मत्वाद् अभेदात् तु घटादिभ्यो न दृश्यते ॥

3.14.129

श्रूयते वचनं यत्र भावस् तत्र विशिष्यते
निवर्तते यद् वचनं तस्य भावो न विद्यते ॥

3.14.130

कार्यं सत्ताश्रयं शास्त्राद् अप्रवृत्तिर् अदर्शनम्
वाक्ये दृष्टं यद् अत्यन्तम् अभावस् तस्य वृत्तिषु ॥

3.14.131

सम्ज्ञाविषयभेदार्थं प्रसक्तादर्शनं स्मृतम्
श्रूयमानं तु वचनं विशिष्टम् उपलभ्यते ॥

3.14.132

अभावो वा लुको यत्र रूपवान् वा विधीयते
व्यभिचारान् निमित्तस्य तत्रासाधुः प्रसज्यते ॥

3.14.133

भेदः संख्याविशेषो वा व्याख्यातो वृत्तिवाक्ययोः
सर्वत्रैव विशेषस् तु नावश्यं तादृशो भवेत् ॥

3.14.134

आतेश् च भेदहेतुत्वान् न लिङ्गेन विशेष्यते
प्रधानं मृगदुग्धादौ गार्गीपुत्रे न स क्रमः ॥

3.14.135

अभेदे लिङ्गसंख्याभ्यां योगाच् छुक्लं पटा इति
प्रसक्ते शास्त्रम् आरब्धं सिद्धये लिङ्गसंख्ययोः ॥

3.14.136

परार्थं शेषभावं यो वृत्तिषु प्रतिपद्यते
गुणो विशेषणत्वेन स सूत्रे व्यपदिश्यते ॥

3.14.137

शब्दान्तरत्वाद् वाक्येषु विशेषा यद्य् अपि श्रुताः
वृत्तेर् अभिन्नरूपत्वात् तेषु वृत्तिर् न विद्यते ॥

3.14.138

रूपाच् च शब्दसंस्कारः सामान्यविषयो यतः
तस्मात् तदाश्रयं लिङ्गं वचनं च प्रसज्यते ॥

3.14.139

सलिङ्गं च ससंख्यं च ततो द्रव्याभिधायिना
संबध्यते पदं तत्र तयोर् भिन्ना श्रुतिर् भवेत् ॥

3.14.140

भाविनो बहिरङ्गस्य वचनाद् आश्रयस्य ये
लिङ्गसंख्ये गुणानां ते सूत्रेण प्रतिपादिते ॥

3.14.141

विशेषवृत्तेर् अपि च रूपाभेदाद् अलक्षितः
यस्माद् विशेषस् तेनात्र भेदकार्यं न कल्पते ॥

3.14.142

विशेष एव सामान्यं विशेसाद् भिद्यते यतः
अभेदो हि विशेषाणाम् आश्रितो विनिवर्तकः ॥

3.14.143

यद् यद् आश्रीयते तत् तद् अन्यस्य विनिवर्तकम्
भेदाभेदविभागस् तु सामान्ये न निरूप्यते ॥

3.14.144

अपोद्धारश् च सामान्यम् इति तस्योपकारिनः
निमित्तावस्थम् एवातस् तत् स्वधर्मेण गृह्यते ॥

3.14.145

अनिर्धारितधर्मत्वाद् भेदा एव विकल्पिताः
निमित्तैर् व्यपदिश्यन्ते सामान्याख्याविशेसिताः ॥

3.14.146

यदा तु व्यपदिश्येते लिङ्गसंख्ये स्वभावतः
प्रयोगेष्व् एव साधुत्वं वाक्ये प्रक्रम्यते तदा ॥

3.14.147

तत्र प्रयोगो ऽनियतो गुणानाम् आश्रयैः सह
सामान्यं यत् तद् अत्यन्तं तत्रैव समवस्थितम् ॥

3.14.148

न गोत्वं शाबलेयस्य गौर् इति व्यपदिश्यते
शुक्लत्वं बाहुलेयस्य शुक्ल इत्य् अपदिश्यते ॥

3.14.149

व्यतिरेके च सत्य् एवं मतुपः श्रवनं भवेत्
लुग् अन्वाख्यायते तस्माद् रसादिभ्यश् च नास्ति सः ॥

3.14.150

यत् सो ऽयम् इति संबन्धाद् रूपाभेदेन वर्तते
शुक्लादिवत् ततो लोपस् तद् रसादौ न विद्यते ॥

3.14.151

आवेशो लिङ्गसंख्याभ्यां क्व चिन् मञ्चादिवत् स्थितह्
सो ऽयम् इत्य् अभिसंबन्धे स प्रस्थादौ न विद्यते ॥

3.14.152

लिङ्गम् लिङ्गपरित्यागे सूत्रं प्रत्ययशासनम्
सो ऽयम् इत्य् अभिसंबन्धात् पुंशब्दे स्त्र्यभिधायिनि ॥

3.14.153

आश्रये लिङ्गसंख्याभ्याम् आश्रितं व्यपदिश्यते
विशेषणानां चाजातेर् इति शास्त्रव्यवस्थया ॥

3.14.154

निमित्तानुविधायित्वाद् ये धर्मा भेदहेतुषु
त आश्रये ऽपि विद्यन्त इति बुद्धिर् निवर्त्यते ॥

3.14.155

आख्यायते च शास्त्रेण लोकरूढा स्वभावतः
निमित्ततुल्या गोदादौ प्रवृत्तिर् लिङ्गसंख्ययोः ॥

3.14.156

हरितक्यादिषु व्यक्तिः संख्या खलतिकादिषु
मनुष्यलुब्विशेषाणाम् अभिधेयाश्रयं द्वयम् ॥

3.14.157

जातिप्रयोगे जात्या चेत् संबन्धम् उपगच्छति
विशेषणं ततो धर्माञ् जातेस् तत् प्रतिपद्यते ॥

3.14.158

लुबन्ते संनिपतितं जातेर् अन्यद् विशेषणम्
लुबन्तस्य प्रधानत्वात् तद्धर्मैर् व्यपदिश्यते ॥

3.14.159

नञ्समासबहुव्रीहि द्वन्द्वस्त्र्यतिशयेषु ये
भेदा भाष्यानुसारेण वाच्यास् ते लिङ्गसंख्ययोः ॥

3.14.160

यदि षष्ठीद्वितीयान्तान् निकृष्टात् तमबादयः
न्यक्कारिणि स्युर् उत्कृष्टे प्रकृतेः स्याद् विलिङ्गता ॥

3.14.161

काल्यां कालाद् द्वितीयान्तात् काले काल्यास् तरब् भवेत्
न्यक्कारिणि तथा गार्ग्ये गर्गेभ्यः प्रत्ययो भवेत् ॥

3.14.162

न्यक्कर्तृषु च गर्गेषु गार्ग्यात् स्यात् तच् च नेष्यते
कुमार्याः स्वार्थिके ङीप् स्यात् प्रकृत्यर्थो हि नाधिकः ॥

3.14.163

षष्ठ्यन्ताद् अधिके तस्माद् गुणे स्वाश्रयवर्तिनि
उत्कृष्टसमवेतायां क्रियायां वा विधीयते ॥

3.14.164

उपात्तं च प्रकृत्यर्थो द्रव्यम् एवाश्रयस् तयोः
सो ऽयम् इत्य् अभिसंबन्धाद् अभेदेन प्रतीयते ॥

3.14.165

रूपाभेदाच् च तद् द्रव्यम् आकाङ्क्षावत् प्रतीयते
विशेषैर् भिन्नरूपैस् तद् आश्रयैर् इव युज्यते ॥

3.14.166

भिन्नरूपेसु यल् लिङ्गं विशेषेसु व्यवस्थितम्
संख्या च ताभ्याम् द्रव्यात्मा सो ऽभिन्नो व्यपदिश्यते ॥

3.14.167

आश्रयः समवायि च निमित्तं लिङ्गसंख्ययोः
कर्तृस्थभावकः शेतिर् अतो भाष्य उदाहृतः ॥

3.14.168

निमित्तम् आश्रयत्वेन गृह्येत यदि साधनम्
कर्मापदिष्टयोः प्राप्तिस् तत्र स्याल् लिङ्गसंख्ययोः ॥

3.14.169

शास्त्रे निमित्तभावेन समुदायाद् अपोद्धृतः
स्त्र्यर्थस् तस्येच्छया योगः प्रकृत्या प्रत्ययेन वा ॥

3.14.170

स्त्रीशब्दो गुणशब्दत्वात् तुल्यधर्मा सितादिभिः
गुणमात्रे प्रयुज्येत संस्त्यानवति वाश्रये ॥

3.14.171

स्त्र्यर्थः संस्त्यानवद् द्रव्यं प्रकृत्यर्थश् च यद्य् असौ
द्रव्योपलक्षणार्थत्वं संस्त्यानस्य तथा सति ॥

3.14.172

संस्त्यानेन क्व चिद् द्रव्यं दृष्टं यद्य् उपलक्षितम्
अनङ्गीकृतसंस्त्यानात् तद्वृत्तेः प्रत्ययो भवेत् ॥

3.14.173

भूतादयः षडाख्याश् च संस्त्यानेनोपलक्षिते
ब्राह्मण्यादौ यदा वृत्तास् तेभ्यः स्युः प्रत्ययास् तदा ॥

3.14.174

तद्वन्तो हि प्रधानत्वात् प्रत्ययाणाम् प्रयोजकाः
सामानाधिकरैण्ये ऽपि तस्माट् टाबादिसंभवः ॥

3.14.175

गुणमात्राभिधायित्वं स्त्रीशब्दे वर्ण्यते यदा
प्रकृत्यर्थश् च संस्त्यानं स्वार्थिकाः प्रत्ययास् तदा ॥

3.14.176

संस्त्याने केवले वृत्तिः प्रकृतीनाम् न विद्यते
तदाविष्टे ततो द्रव्ये गृह्यन्ते समवस्थिताः ॥

3.14.177

उपकारि च संस्त्यानं येषु शब्देष्व् अपेक्षितम्
तेभ्यष् टाबादयस् तच् च भूतादिष्व् अविवक्षितम् ॥

3.14.178

संस्त्यानं प्रत्ययस्यार्थः शुद्धम् आश्रीयते यदा
तदा द्विवचनानेक प्रत्ययत्वं न सिध्यति ॥

3.14.179

जातिश् चेत् स्त्रीत्वम् एवासौ भेदो ऽन्यत्राविवक्षितः
यस्माद् भिन्नैर् अपि द्रव्यैस् तद् एकं सद् विशिष्यते ॥

3.14.180

मात्राणाम् हि तिरोभावे परिमाणम् न विद्यते
कुमार्य इति तेन स्यात् कुमार्यां भेदसंभवात् ॥

3.14.181

जातिसंख्यासमाहारैर् यथैव सहचारिणि
द्रव्ये क्रियाः प्रवर्तन्त एकात्मत्वे व्यपेक्षिते ॥

3.14.182

मूर्तिभ्यो मूर्तिधर्माणाम् तथाभेदस्य दर्शनात्
सामानाधिकरण्यं च क्रियायोगश् च कल्पते ॥

3.14.183

सामानाधिकरण्ये तु मतुब्लोपाद् अपेक्षिते
लुक् तद्धितलुकीति स्याल् लुक् तत्राप्य् उपलक्षणम् ॥

3.14.184

केसां चित् त्यक्तभेदेषु द्रव्येष्व् एव विधीयते
संस्त्यानवत्सु टाबादिर् अभेदेन समन्वयात् ॥

3.14.185

सामान्यभूतो द्रव्यात्मा परिच्छिन्नपरिग्रहः
क्रियाभिर् युज्यते भेदैर् भागशश् चावतिष्ठते ॥

3.14.186

शुक्लादिष्व् आश्रयद्रव्यं प्राधान्येनाभिधीयते
स्त्रीत्वं तु प्रत्ययार्थत्वाद् अभिधाविषयो यतः ॥

3.14.187

सो ऽयम् इत्य् अभिसंबन्धाद् आश्रयं प्रतिपद्यते
स्त्रीत्वं स्वभावसिद्धो वा गुणभावविपर्ययः ॥

3.14.188

साकाङ्क्षत्वाद् गुणत्वेन सामान्यं वोपदिश्यते
व्यक्तीनाम् आत्मधर्मो ऽसाव् एकप्रख्यानिबन्धनः ॥

3.14.189

एवम्भूता च सावस्था भागभेदपरिग्रहे
कृते बुद्ध्यैव भेदानाम् आश्रयत्वे च कल्पिते ॥

3.14.190

निस्कृष्टेष्व् अपि भेदेषु व्यक्तिरूपाश्रये ततः
लिङ्गप्रत्यवमर्शेन लिङ्गसंख्ये प्रपद्यते ॥

3.14.191

अन्तरेन चशब्दस्य प्रयोगं द्वन्द्वभाविनाम्
अविशिष्टार्थवृत्तित्वं रूपाभेदात् प्रतीयते ॥

3.14.192

विकल्पवति वा वृत्तिर् निवर्त्ये ऽथ समुच्चिते
तेषाम् अज्ञातशक्तीनां द्योतकेन नियम्यते ॥

3.14.193

वृत्तौ विशिष्टरूपत्वाच् चशब्दो विनिवर्तते
अर्थभेदे ऽपि सारूप्यात् तच् चार्थेनापदिश्यते ॥

3.14.194

चस्य चासत्त्वभूतो ऽर्थः स एवाश्रियते यदि
तद्धर्मत्वं ततो द्वन्द्वे चादिष्व् अर्थकृतं हि तत् ॥

3.14.195

चार्थः शब्दे क्व चिद् भेदात् कथं चित् समवस्थितः
द्योतकाश् चादयस् तस्य वक्ता द्वन्द्वस् तु तद्वताम् ॥

3.14.196

विकल्पाद्यभिधेयस्य चार्थस्यान्यपदार्थता
द्योतकत्वान् न कल्पेत तस्मात् सद् उपलक्ष्यते ॥

3.14.197

तत्र स्वाभाविकं लिङ्गं शब्दधर्मे व्यपेक्षिते
शब्दः कश् चित् तम् एवार्थं कथं चित् प्रतिपद्यते ॥

3.14.198

शब्दाद् अर्थाः प्रतायन्ते स भेदानां विधायकः
अनुमानं विवक्षायाः शब्दाद् अन्यन् न विद्यते ॥

3.14.199

समुच्चितः स्याद् द्वन्द्वार्थो गुणभूतसमुच्चयः
समुच्चयो वापि भवेद् गुणभूतसमुच्चितः ॥

3.14.200

समुच्चितस्य प्राधान्ये लिङ्गसंख्ये स्वभावतः
समुच्चयस्य प्राधान्ये शास्त्रं स्यात् प्रतिपादकम् ॥

3.14.201

समुच्चयवतो ऽर्थस्य प्राधान्ये ऽप्य् अपरे विदुः
निमित्तानुविधायित्वाद् असिद्धिम् लिङ्गसंख्ययोः ॥

3.14.202

समुच्चयो निमित्तं चेत् स्यान् निमित्तानुवर्तनम्
अन्वयव्यतिरेकाभ्यां चार्थो द्वन्द्वनिबन्धनः ॥

3.14.203

समुच्चितनिमित्तत्वे चार्थस्यापगमे ऽपि वा
स्वभावसिद्धे द्वन्द्वस्य लिङ्गसंख्ये व्यवस्थिते ॥

3.14.204

पदान्तरस्थस्यार्थस्य द्योतकत्वान् न युज्यते
निपातो लिङ्गसंख्याभ्यां द्वन्द्वस् त्व् अर्थस्य वाचकः ॥

3.14.205

निमित्तानुविधाने च द्रव्यधर्मानपेक्षणात्
गुणप्रधानभावेन क्रियायोगो न कल्पते ॥

3.14.206

यस्य नास्ति क्रियायोगः स्वतन्त्रो ऽसौ न विद्यते
अर्थो द्वन्द्वस्य तत्र स्याद् उपादानम् अनर्थकम् ॥

3.14.207

समुच्चयवतो ऽर्थस्य वाचको नानुवर्तते
निमित्तम् अपि चास्यार्थः स्वधर्मैर् युज्यते ततः ॥

3.14.208

बाह्यो नास्त्य् आश्रयो द्वन्द्वे विशेषौ तत्र हि श्रुतौ
समुच्चयस् तदाधारस् तद्धर्मैर् व्यपदिश्यते ॥

3.14.209

यो वावयवभेदाभ्यां भेदवद्भ्याम् इवान्वितः
एकः समूहो धर्मान् स भागयोः प्रतिपद्यते ॥

3.14.210

एकश् च द्व्यात्मको ऽर्थो ऽसौ भेदाभेदसमन्वितः
यौ भेदाव् आश्रितस् तत्स्थे लिङ्गसंख्ये प्रपद्यते ॥

3.14.211

यथा स्वशब्दाभिहिते चैत्रार्थे न प्रयुज्यते
चैत्रशब्दो बहुव्रिहाव् अप्रयोगस् तथा भवेत् ॥

3.14.212

यथा गौर् इति शुक्लादेर् अभिधानं न विद्यते
एवं यस्याभिसंबन्धो गोभिस् तावत् प्रतीयते ॥

3.14.213

संबन्धी नियतो रूढश् चित्राणां न च विद्यते
गवां यथा वज्रपाणिस् त्र्यक्षे वा ऽपि व्यवस्थितः ॥

3.14.214

शब्दान्तरत्वाद् वाक्येषु विशेषा यद्य् अपि श्रुताः
वृत्तिशब्दो ऽन्य एवायं सामान्यस्याभिधायकः ॥

3.14.215

अगोर् अचित्रगोश् चैव रूपभेदान् निवर्तकः
न चित्रगुर् विशेषाणां रूपाभेदात् तु वाचकः ॥

3.14.216

यथा चित्रगुर् इत्य् एतत् प्रयुक्ते न प्रयुज्यते
एवं यदि स्यात् सामान्यं तस्य न स्यात् प्रतिश्रुतिः ॥

3.14.217

सर्वादयो विशेषास् तु प्रदेशानां निवर्तकाः
यथा प्रदेशाः सामान्य प्रदेशान्तरबाधकाः ॥

3.14.218

विभक्त्यर्थाभिधानाद् वा षष्ठी नानुप्रयुज्यते
द्रव्यस्यानभिधानात् तु तच्छब्दो ऽनुप्रयुज्यते ॥

3.14.219

सामानाधिकरण्यं चेन् मतुब्लोपात् प्रकल्पते
मतुपो ऽपि तदर्थत्वाद् अनवस्था प्रसज्यते ॥

3.14.220

संबन्धस्य च संबन्दी संबन्धो ऽन्यः प्रसज्यते
विभक्त्यर्थप्रधाने च क्रियायोगो न कल्पते ॥

3.14.221

विभक्त्यर्थप्रधानत्वात् ततस् तत्रेति न क्रिया
दृश्यादिः कर्मकर्त्रादि निमित्तत्वाय कल्पते ॥

3.14.222

अन्तर्भवेच् च संबन्धः प्राधान्याभिहितः कथम्
स प्रातिपदिकार्थश् च तथाभूतः कथं भत्वेत् ॥

3.14.223

असंभवात् तु संबन्धे संबन्धसहचारिणि
जातिसंख्यासमाहार कार्याणाम् इव संभवः ॥

3.14.224

सो ऽयम् इत्य् अभिसंबन्धाद् विशिष्टाश्रयवाचिनाम्
शुक्लादिवल् लिङ्गसंख्ये शास्त्रारम्भाद् भविष्यतः ॥

3.14.225

भेदेन तु विवक्षायां सामान्ये वा विवक्षिते
सलिङ्गस्य ससंख्यस्य पदार्थस्यागतिर् भवेत् ॥

3.14.226

साधुत्वं न विभक्त्यर्थ मात्रे वृत्तस्य दृश्यते
कृत्स्नार्थवृत्तेः साधुत्वम् इत्य् अर्थग्रहणं कृतम् ॥

3.14.227

सो ऽयम् इत्य् अभिसंबन्धाद् द्रव्यवृत्तिर् अयं यदा
सलिङ्गस्य ससंख्यस्य तदा साधुत्वम् उच्यते ॥

3.14.228

अन्तर्भूतविभक्त्यर्थे षष्ठी न श्रूयते यथा
तथाश्रुतिः प्रसज्येत लिङ्गसंख्याभिधायिनाम् ॥

3.14.229

साधर्म्यम् अव्ययेन स्याद् बहुव्रीहेस् तथा सति
लिङ्गसंख्यानिमित्तस्य संस्कारस्यापवर्तनात् ॥

3.14.230

प्रयुक्तेन च संबन्धाच् चैत्रादिश्रवनं भवेत्
विना विभक्त्या संबन्धो विभक्त्या विद्यते विना ॥

3.14.231

अभिधाने ऽपि संख्यायाः संख्यात्वं न निवर्तते
षष्ठ्यर्थस्याभिधाने तु स्यात् प्रातिपदिकार्थता ॥

3.14.232

अनुप्रयोगसिद्ध्यर्थं न विभक्त्यर्थकल्पना
वस्त्वन्तरम् उपक्षिप्तम् इति के चित् प्रचक्षते ॥

3.14.233

संबन्दिभिर् विशिष्टानाम् संबन्धानां निमित्तता
संबन्धैर् वा विशिष्टानां तद्वतां स्यान् निमित्तता ॥

3.14.234

के चित् संयोगिनो दण्डाद् विषाणात् समवायिनः
तद्वति प्रत्ययान् आहुर् बहुव्रीहिं तथैव च ॥

3.14.235

भिन्नं संबन्धिभेदेन संबन्धम् अपरे विदुः
निमित्तं स विभक्त्यर्थः समासेनाभिधीयते ॥

3.14.236

प्रधानम् अन्यार्थतया भिन्नं स्वैर् उपसर्जनैः
निमित्तम् अब्बिधेयं वा सर्वपश्चाद् अपेक्ष्यते ॥

3.14.237

स्वामिनि व्यतिरेकश् च वाक्ये यद्य् अपि दृश्यते
प्राधान्य एव तस्येष्टो बहुव्रीहिर् विवक्षिते ॥

3.14.238

गवां विशेषणत्वेन यदा तद्वान् प्रवर्तते
अस्यैता इति तत्रार्थे बहुव्रीहिर् न विद्यते ॥

3.14.239

यदा प्रत्यवमर्शस् तु तासां स्वामी गवाम् इति
गोभिस् तदाभिसंबन्धो निमित्तत्वाय कल्पते ॥

3.14.240

अपेक्षमानः संबन्धं रूढित्वस्य निवृत्तये
निमित्तानुविधायित्वात् तद्धर्मार्थः प्रसज्यते ॥

3.14.241

नाना चित्रा इति यथा निमित्तम् अनुरुध्यते
नानाभूते ऽपि वृत्तः सन् बहुव्रीहिस् तथा भवेत् ॥

3.14.242

संबन्धिनि निमित्ते तु द्रव्यधर्मो न हीयते
लिङ्गाभावो हि लिङ्गस्य विरोधित्वेन वर्तते ॥

3.14.243

संख्वावांल् लिङ्गवाम्श् चार्थो ऽभिन्नधर्मा, निमित्ततः
आसन्न एव द्रव्यत्वात् तद्धर्मैर् न विरुध्यते ॥

3.14.244

विभक्त्यर्थेन चाविष्टं शुद्धं चेति द्विधा स्थितम्
द्रव्यं शुद्धस्य यो धर्मः स न स्याद् अन्यधर्मणः ॥

3.14.245

द्रव्यमात्रस्य निर्देशे भेदो ऽयम् अविवक्षितः
ग्रन्थे पूर्वत्र भेदस् तु द्वितीये ऽनुप्रदर्शितः ॥

3.14.246

द्रव्यस्य ग्रहणं चात्र लिङ्गसंख्याविशेषणम्
द्रव्याश्रितत्वं हि तयोस् ततो ऽन्यस्य न सिध्यतः ॥

3.14.247

संबन्धिभिन्नसंबन्ध परिछिन्ने प्रवर्तते
समासो द्रव्यसामान्ये विशिष्टार्थानुपातिनि ॥

3.14.248

द्रव्यधर्मानतिक्रान्तो भेदधर्मेष्व् अवस्थितः
भविष्यदाश्रयापेक्षे लिङ्गसंख्ये प्रपद्यते ॥

3.14.249

शास्त्रप्रवृत्तिभेदे ऽपि लौकिको ऽर्थो न भिद्यते
नञ्समसे यतस् तत्र त्रयः पक्षा विचारिताः ॥

3.14.250

शब्दान्तरे ऽपि चैकत्वम् आश्रित्यैवं विचारणा
अब्रह्मणादिषु नञः प्रयोगो न हि विद्यते ॥

3.14.251

प्राक् समासात् पदार्थानां निवृत्तिर् द्योत्यते नञा
स्वभावतो निवृत्तानां रूपाभेदाद् अलक्षिता ॥

3.14.252

ब्राह्मणादिस्थया वाक्येष्व् आख्यातपदवाच्यया
क्रियया यस्य संबन्धो वृत्तिस् तस्य न विद्यते ॥

3.14.253

पाचकादिपदस्था चेन् नञा संबध्यते क्रिया
तत्र सत्तानुपादानात् त्रिपक्षी नोपपद्यते ॥

3.14.254

सत्तयैवाभिसंबन्धो यदि सर्वत्र कल्प्यते
असन्न् इति समासे ऽस्मिन् सत्तान्या परिकल्प्यताम् ॥

3.14.255

क्त्वान्ते च तुमुनन्ते च नञ्समासे न दृश्यते
विशेषणविशेष्यत्वं नञासत्ताभिधायिना ॥

3.14.256

क्रियायाः साधनाधार सामान्ये नञ् व्यवस्थितः
ततो विशिष्टैर् आधारैर् युज्यते ब्राह्मणादिभिः ॥

3.14.257

वृत्तौ यथा गताद्यर्थम् उपादाय निरादयः
युज्यन्ते साधनाधारैर् नञ्समासे ऽपि स क्रमः ॥

3.14.258

तत्रासति नञो वृत्तेर् ब्राह्मणक्षत्रियादिभिः
विशेषणविशेष्यत्वं कल्प्यते कुब्जखञ्जवत् ॥

3.14.259

कामचारे च सत्य् एवम् असतः स्यात् प्रधानता,
गुणत्वम् इतरेषां च तेषां वा स्यात् प्रधानता ॥

3.14.260

प्राधान्येनाश्रिताः पूर्वं श्रुतेः सामान्यवृत्तयः
विशेष एव प्रक्रान्ता ब्राह्मणक्षत्रिवादवः ॥

3.14.261

यथा गौरादिभिस् तेषाम् अवच्छेदो विधीयते
असताप्य् अनभिव्यक्तं तादात्म्यं व्यज्यते तथा ॥

3.14.262

यथा सत्ताभिधानाय सन्न् अर्थः परिकल्प्यते
तथासत्ताभिधानाय निरुपाख्यो ऽपि कल्पते ॥

3.14.263

क्षत्रियादौ पदं कृत्वा बुद्धिः सत्तान्तराश्रया
जात्या भिन्नां ततः सत्तां प्रसक्ताम् अपकर्षति ॥

3.14.264

अभाव इति भावस्य प्रतिषेधे विवक्षिते
सोपाख्यत्वम् अनाश्रित्य प्रतिषेधो न कल्पते ॥

3.14.265

अनेकधर्मवचनाः शब्दाः सङ्घाभिधायिनः
एकदेशेषु वर्तन्ते तुल्यरूपाः स्वभावतः ॥

3.14.266

यथैकदेशकरणात् कृत इत्व् अभिधीयते
अकृतश् चेति संघातः स एवाब्राह्मणे क्रमः ॥

3.14.267

ब्राह्मणो ऽब्राह्मणस् तस्माद् उपन्यासात् प्रसज्यते
अकृते वा कृतासङ्गाद् अविशिष्टं कृताकृतात् ॥

3.14.268

अमुख्यसंभवे तत्र मुख्यस्य विनिवृत्तये
शास्त्रान्वाख्यानसमये नञ् प्रयुक्तो विशेषकः ॥

3.14.269

पदार्थानुपघातेन दृश्यते ऽन्यविशेषणम्
अथ जातिमतो ऽर्थस्य कश् चिद् धर्मो निवर्तितः ॥

3.14.270

अवश्यं ब्राह्मणे कश् चित् क्व चिद् धर्मो न विद्यते
विशेषावचनात् तत्र नञः श्रुतिर् अनर्थिका ॥

3.14.271

अविशिष्टस्य पर्यायो नञ्विशिष्टः प्रसज्यते
अन्वाख्यानाद् धि साधुत्वम् एवंभूते प्रतीयते ॥

3.14.272

पदार्थानुपघातेन यद्य् अप्य् अत्र विशेषणम्
उपचारसतो ऽर्थस्य सावस्था द्योत्यते नञा ॥

3.14.273

विशेष्येषु यथाभूतः पदार्थः समवस्थितः
तथाभूते तथाभावो गम्यते भेदहेतुभिः ॥

3.14.274

निवृत्ते ऽवयवस् तस्मिन् पदार्थे वर्तते कथम्
नानिमित्ता हि शब्दस्य प्रवृत्तिर् उपपद्यते ॥

3.14.275

आराच् छब्दवद् एकस्य विरुद्धे ऽर्थे स्वभावतः
शब्दस्य वृत्तिर् यद्य् अस्ति नञः श्रुतिर् अनर्थिका ॥

3.14.276

अथ स्वभावो वचनाद् अन्वाख्येयत्वम् अर्हति
तद् वाच्यम् अप्रसिद्धत्वान् नञार्थो विनिवर्त्यते ॥

3.14.277

यद्य् अप्य् उभयवृत्तित्वं प्रधानं तु प्रतीयते
प्रस्थानं गम्यते शुद्धे तदर्थे ऽपि न तिष्ठतौ ॥

3.14.278

किमर्थम् अतथाभूते ऽसति मुख्यार्थसंभवे
भेदे ब्राह्मणशब्दस्य वृत्तिर् अभ्युपगम्यते ॥

3.14.279

अयं पदार्थ एतस्मिन् क्षत्रियादौ न विद्यते
इति तद्वचनः शब्दः प्रत्ययाय प्रयुज्यते ॥

3.14.280

बुद्धेर् विषयतां प्राप्ते शब्दाद् अर्थे प्रतीयते
प्रवृत्तिर् वा निवृत्तिर् वा ग्रुत्या ह्य् अर्थो ऽनुसज्यते ॥

3.14.281

असम्यगुपदेशाद् वा निमित्तात् संशयस्य वा
शब्दप्रवृत्तिर् न त्व् अस्ति लोष्टादिषु विपर्ययात् ॥

3.14.282

अनेकस्माद् अस इति प्राधान्ये सति सिध्यति
सापेक्षत्वं प्रधानानाम् एवं युक्तं त्वतल्विधौ ॥

3.14.283

एकस्य च प्रधानत्वात् तद्विशेषणसंनिधौ
प्रधानधर्माव्यावृत्तिर् अतो न वचनान्तरम् ॥

3.14.284

प्रधानम् अत्र भेद्यत्वाद् एकार्थो विकृतो नञा
हित्वा स्वधर्मान् वर्तन्ते द्व्यादयो ऽप्य् एकतां गताः ॥

3.14.285

ब्राह्मणत्वं यथापन्ना नञ्युक्ताः क्षत्रियादयः
द्वित्वादिषु तथैकत्वं नञ्योगाद् उपचर्यते ॥

3.14.286

एकत्वयोगम् आसाद्य स धर्मः प्रतिषिध्यते
द्व्यादिभ्यस् तेषु तच्छब्दो वर्तते ब्राह्मणादिवत् ॥

3.14.287

आविष्टसंख्यो वाक्ये ऽसौ यथा द्व्यादौ प्रयुज्यते
वृत्तौ तस्य प्रधानत्वात् सा संख्या न निवर्तते ॥

3.14.288

प्रतिषेध्यो यथाभूतस् तथाभूतो ऽनुषज्यते
वचनान्तरयोगे हि न सो ऽर्थः प्रतिषिध्यते ॥

3.14.289

अशुक्ल इति कृष्णादिर् यथार्थः संप्रतीयते
संख्यान्तरं तथानेक इत्य् अत्राप्य् अभिधीयते ॥

3.14.290

क्रियाप्रसङ्गात् सर्वेषु कर्मस्व् अङ्गीकृतेषु च
एकस्मिन् प्रतिषिद्धे ऽपि प्राप्तम् अन्यत् प्रतीयते ॥

3.14.291

क्रियाश्रुतिश् च प्रक्रान्ते प्रसज्यप्रतिषेधने
पर्युदासे तु नियतं संख्येयान्तरम् उच्यते ॥

3.14.292

धात्वर्थः कर्मविषयो व्यपदिष्टः स्वसाधनैः
अर्थात् सर्वाणि कर्माणि प्राग् आक्षिप्यावतिष्ठते ॥

3.14.293

निर्ज्ञातसाधनाधारे यत्राख्याते प्रयुज्यते
अनेक इति पश्चाच् च तिष्ठतीत्य् अनुषज्यते ॥

3.14.294

साध्यत्वात् तत्र सिद्धेन क्रिया द्रव्येण लक्ष्यते
प्राग् एवाङ्गीकृतं द्रव्यम् अतः पूर्वेण भिद्यते ॥

3.14.295

संख्यैव प्रतिषेधेन संख्यान्तरम् अपेक्षते
वाक्ये ऽपि तेन नैकत्व मात्रम् एव निवर्त्यते ॥

3.14.296

स्नेहान्तराद् अवच्छेदस् तथासत्तेः प्रतीयते
तैलेन भोजने ऽप्राप्ते न त्व् अन्यद् उपसेचनम् ॥

3.14.297

एकार्थे वर्तमानाभ्याम् असता ब्राह्मणेन च
यदा जात्यन्तरं बाह्यं क्षत्रियाद्य् अपदिश्यते ॥

3.14.298

श्यामेव शस्त्री कन्येति यथान्यद् व्यपदिश्यते
असन् ब्राह्मण इत्य् आभ्यां तथान्ये क्षत्रियादयः ॥

3.14.299

असास्नो गौर् इति यथा, गवयो व्यपदिश्यते
जात्यन्तरं न गोर् एव सस्नाभावः प्रतीयते ॥

3.14.300

तुल्यरूपं यथाख्यातं कण्टकैर् भेदहेतुभिः
खदिरं जातिभेदेन खर्जूरात् प्रतिपद्यते ॥

3.14.301

अविद्यमानब्राह्मण्यो यादृशो ब्राह्मणो भवेत्
अङ्गीकृतोपमानेन तथान्यो ऽर्थो ऽभिधीयते ॥

3.14.302

अवृष्टयो यथा वर्सा नीहाराभ्रसमावृताः
तद्रूपत्वात् स हेमन्त इत्य् अभिन्नः प्रतीयते ॥

3.14.303

अपरे ब्राह्मणादीनां सर्वेषां जातिवाचिनाम्
द्रव्यस्यान्यपदार्थत्वे नञा योगं प्रचक्षते ॥

3.14.304

न चैवंविषयः कश् चिद् बहुव्रीहिः प्रकल्पते
अगुर् अश्व इति व्याप्तिर् नञ्समासेन यस्य न ॥

3.14.305

द्वन्द्वैकदेशिनोर् उक्ता परवल्लिङ्गता यतः
अवर्षासु ततो ऽसिद्धिर् इष्टयोर् लिङ्गसंख्ययोः ॥

3.14.306

विशेषणं ब्राह्मणादि क्रियासंबन्धिनो ऽसतः
यदा विषयभिन्नं तत् तदासत्त्वम् प्रतीयते ॥

3.14.307

ब्राह्मणत्वेन चासत्त्वाद् उच्यते सत् तद् अन्यथा
असद् इत्य् अपि सत्त्वेन सतः सत्ता निवर्त्यते ॥

3.14.308

समन्यद्रव्यवृत्तित्वान् निमित्तानुविधायिनः
अयोगो लिङ्गसंख्याभ्यां स्याद् वा सामान्यधर्मता ॥

3.14.309

प्राग् असत्त्वाभिधायित्वं समासे द्रव्यवाचिता
निमित्तानुविधानं च न सर्वत्र स्वभावतः ॥

3.14.310

निमित्तानुविधाने च क्रियायोगो न कल्पते
तथा चाव्यपदेश्यत्वाद् उपादानम् अनर्थकम् ॥

3.14.311

असत्सामान्यवृत्तिर् वा विशेषैः क्षत्रियादिभिः
प्रयुक्तैर् आश्रयैर् भिन्नो याति तल्लिङ्गसंख्यताम् ॥

3.14.312

प्राग् आश्रयो हि भेदाय प्रधाने ऽभ्यन्तरीकृतः
पुनः प्रत्यवमर्शेन विभक्त इव दृश्यते ॥

3.14.313

समासे श्रूयते स्वार्थो येन तद्वांस् तदाश्रयः
द्रव्यं तु लिङ्गसंख्यावद् असताभ्यन्तरीकृतम् ॥

3.14.314

एकार्थविषयौ शब्दौ तस्मिन्न् अन्यार्थवर्तिनौ
असतैव तु भेदानां सर्वेषाम् उपसंग्रहः ॥

3.14.315

ते क्षत्रियादिभिर् वाच्या वाच्या वा सर्वनामभिः
यान्तीवान्यपदार्थत्वं नञो रूपाविकल्पनात् ॥

3.14.316

विशेषस्याप्रयोगे तु लिङ्गसंख्ये न सिध्यतः
अवर्षादिषु दोसश् च हेमन्तो ऽन्याश्रयो यतः ॥

3.14.317

आकृतिः सर्वशब्दानां यदा वाच्या प्रतीयते
एकत्वाद् एकशब्दत्वं न्याय्यं तस्याश् च वर्ण्यते ॥

3.14.318

आविष्टलिङ्गता तस्यां स्याद् ग्राम्यपगुसङ्घवत्
द्रव्यभेदे ऽपि चैकत्वात् तत्रैकवचनं भवेत् ॥

3.14.319

आश्रयाणां हि लिङ्गैः सा नियतैर् एव युज्यते
तथा च युक्तवद्भावे प्रतिषेधो निरर्थकः ॥

3.14.320

सर्वत्राविष्टलिङ्गत्वं लोकलिङ्गपरिग्रहे
विरोधित्वात् प्रसज्येत नाश्रितं तच् च लौकिकम् ॥

3.14.321

सामान्यम् आकृतिर् भावो जातिर् इत्य् अत्र लौकिकम्
लिङ्गं न संभवत्य् एव तेनान्यत् परिगृह्यते ॥

3.14.322

प्रवृत्तिर् इति सामान्यं लक्षणं तस्य कथ्यते
आविर्भावस् तिरोभावः स्थितिश् चेत्य् अथ भिद्यते ॥

3.14.323

प्रवृत्तिमन्तः सर्वे ऽर्थास् तिसृभिश् च प्रवृत्तिभिः
सततं न वियुज्यन्ते वाचश् चैवात्र संभवः ॥

3.14.324

यश् चाप्रवृत्तिधर्मार्थश् चितिरूपेण गृह्यते
अनुयातीव सो ऽन्येषां प्रवृत्तीर् विश्वगाश्रयाः ॥

3.14.325

तेनास्य चितिरूपं च चितिकालश् च भिद्यते
तस्य स्वरूपभेदस् तु न कश् चिद् अपि विद्यते ॥

3.14.326

अचेतनेषु चैतन्यं संक्रान्तम् इव दृश्यते
प्रतिबिम्बकधर्मेण यत् तच् छब्दनिबन्धनम् ॥

3.14.327

अवस्था तादृशी नास्ति या लिङ्गेन न युज्यते
क्व चित् तु शब्दसंस्कारो लिङ्गस्यानाश्रये सति ॥

3.14.328

कृत्तद्धिताभिधेयानां भावानां न विरुध्यते
शास्त्रे लिङ्गं गुणावस्था तथा चाकृतिर् इष्यते ॥

3.14.329

लिङ्गं प्रति न भेदो ऽस्ति द्रव्यपक्षे ऽपि कश् चन
तस्मात् सप्त विकल्पा ये सैवात्राविष्टलिङ्गता ॥

3.14.330

वचने नियमः शास्त्राद् द्रव्यस्याभ्युपगम्यते
यतस् तद् आकृतौ शास्त्रम् अन्यथैव समर्थ्यते ॥

3.14.331

वर्तते यो बहुष्व् अर्थो ऽभेदे तस्य विवक्षिते
स्वाश्रयैर् व्यपदिष्टस्य शास्त्रे वचनम् उच्यते ॥

3.14.332

यदा त्व् आश्रयभेदेन भेद एव प्रतीयते
आकृतेर् द्रव्यपक्षेन तदा भेदो न विद्यते ॥

3.14.333

अभेदे त्व् एकशब्दत्वाच् छास्त्राच् च वचने सति
एकशेषो न वक्तव्यो वचनानां च संभवः ॥

3.14.334

ननु चानभिधेयत्वे द्रव्यस्य तदपाश्रयः
आकृतेर् उपकारो ऽयं द्रव्याभावान् न कल्पते ॥

3.14.335

व्यपदेशो ऽभिधेयेन न शास्त्रे कश् चिद् आश्रितः
द्रव्यं नाम पदार्थो यो न च स प्रतिषिध्यते ॥

3.14.336

गुणभावो ऽभिधेयत्वं प्रति द्रव्यस्य नाश्रितः
उपकारि गुणः शेषः परार्थ इति कल्पना ॥

3.14.337

द्रव्ये न गुणभावो ऽस्ति विनाद्रव्याभिधायिताम्
आकृतौ वा प्रधानत्वम् अत एवं समर्थ्यते ॥

3.14.338

कैश् चिद् गुणप्रधानत्वं नामाख्यातवद् इष्यते
न वृत्तिवत् परार्थस्य गुणभावस् तु वर्ण्यते ॥

3.14.339

गुणभूतस्य नानात्वाद् आकृतेर् एकशब्दता
सिद्धो वचनभेदश् च द्रव्यभेदसमन्वयात् ॥

3.14.340

साधनं गुणभावेन क्रियाया भेदकं यथा
आख्यातेष्व् एकशब्दाया जातेर् द्रव्यं तथोच्यते ॥

3.14.341

एकत्वे तुल्यरूपत्वाच् छब्दानां प्रतिपादने
निमित्तात् तद्वतो ऽर्थस्य विशिष्टग्रहणे सति ॥

3.14.342

सो ऽयम् इत्य् अभिसंबन्धाद् आश्रयैर् आकृतेः सह
प्रवृत्तौ भिन्नशब्दायां लिङ्गसंख्ये प्रसिध्यतः ॥

3.14.343

प्राक् च जात्यभिसंबन्धात् सर्वनामाभिधेयता
वस्तूपलक्षणं सत्त्वे प्रयुज्यन्ते त्यदादयः ॥

3.14.344

पाकौ पाका इति यथा भेदकः कैश् चिद् आश्रयः
इष्यते चानुपादानो धर्मो ऽसौ गुणवाचिनाम् ॥

3.14.345

आश्रयस्यानुपादाने केवलं लभते यदि
आधारधर्मान् सामान्यं पुरस्तात् तद् विचारितम् ॥

3.14.346

जातौ पूर्वं प्रवृत्तानां शब्दानां जातिवाचिनाम्
अशब्दवाच्यात् संबन्धाद् व्यक्तिर् अप्य् उपजायते ॥

3.14.347

सो ऽयम् इत्य् अभिसंबन्धाज् जातिधर्मोपचर्यते
द्रव्यं तदाश्रयो भेदो जातेश् चाभ्युपगम्यते ॥

3.14.348

मञ्चशब्दो यथाधेयं मञ्चेष्व् एव व्यवस्थितः
तत्त्वेनाह तथा जाति शब्दो द्रव्येषु वर्तते ॥

3.14.349

तत्र जातिपदार्थत्वं तथैवाभ्युपगम्यते
जातिर् उत्सृष्टसंख्या तु द्रव्यात्मन्य् अनुषज्यते ॥

3.14.350

अस्येदम् इति वा यत्र सो ऽयम् इत्य् अपि वा श्रुतिः
वर्तते परधर्मेण तद् अन्यद् अभिधीयते ॥

3.14.351

यत् प्रधानं न तस्यास्ति स्वरूपम् अनिरूपनात्
गुणस्य चात्मना द्रव्यं तद्भावेनोपलक्ष्यते ॥

3.14.352

गुणस्य भेदकाले तु प्राधान्यम् उपजायते
संसर्गश्रुतिर् अर्थेषु साक्षाद् एव न वर्तते ॥

3.14.353

जातौ वृत्तो यदा द्रव्ये स शब्दो वर्तते पुनः
जातेर् एव पदार्थत्वं न तदाभ्युपगम्यते ॥

3.14.354

प्रवृत्तानां पुनर् वृत्तिर् एकत्वेनोपवर्ण्यते
प्रतिपत्तेर् उपायेषु न तत्त्वम् अनुगम्यते ॥

3.14.355

अपृथक्शब्दवाच्यस्य जातिर् आश्रीयते यदा
द्रव्यस्य सति संस्पर्शे तदा जातिपदार्थता ॥

3.14.356

द्रव्यस्य सति संस्पर्शे द्रव्यम् आश्रीयते यदा
वाच्यं तेनैव शब्देन तदा द्रव्यपदार्थता ॥

3.14.357

अपृथक्शब्दवाच्यापि भेदमात्रे प्रवर्तते
यदा संबन्धवज् जातिः सापि द्रव्यपदार्थता ॥

3.14.358

अत्यन्तभिन्नयोर् एव जातिद्रव्याभिधायिनोः
अवाच्यस्योपकारित्व आश्रिते तूभयार्थता ॥

3.14.359

आश्रिते त्व् आश्रयकृतं भेदम् अभ्युपगच्छता
पुनश् चाप्य् एकशब्दत्वं जातिशब्दे ऽनुवर्णितम् ॥

3.14.360

अनिर्जातस्य निर्ज्ञानं येन तन् मानम् उच्यते
प्रस्थादि तेन मेयात्मा साकल्येनावधार्यते ॥

3.14.361

अनिर्ज्ञातं प्रसिद्धेन येन तद्धर्म गम्यते
साकल्येनापरिज्ञानाद् उपमानं तद् उच्यते ॥

3.14.362

द्वयोः समानयोर् धर्म उपमानोपमेययोः
समास उपमानानां शब्दैस् तदभिधायिभिः ॥

3.14.363

आधारभेदाद् भेदो यः श्यामत्वे सो ऽविवक्षितः
गुणो ऽसाव् आश्रितैकत्वो भिन्नाधारः प्रतीयते ॥

3.14.364

गुणयोर् नियतो भेदो गुणजातेस् तथैकता
एकत्वे ऽत्यन्तभेदे वा, नोपमानस्य संभवः ॥

3.14.365

जातिमात्रव्यपेक्षायाम् उपमार्थो न कश् चन
श्यामत्वम् एकं गुणयोर् उभयोर् अपि वर्तते ॥

3.14.366

येनैव हेतुना श्यामा शस्त्री तत्र प्रतीयते
स हेतुर् देवदत्तायाः प्रत्यये न विशिष्यते ॥

3.14.367

आश्रयाद् यो गुणे भेदो जातेर् या चाविशिष्टता
ताभ्याम् उभाभ्यां द्रव्यात्मा सव्यापारः प्रतीयते ॥

3.14.368

सो ऽयम् एकत्वनानात्वे व्यवहारः समाश्रितः
भेदाभेदविमर्शेन व्यतिकीर्णेन वर्तते ॥

3.14.369

श्यामेत्य् एवाभिधियेत जातिमात्रे विवक्षिते
शस्त्र्यादिनाम् उपादाने तत्र नास्ति प्रयोजनम् ॥

3.14.370

अशब्दवाच्यो यो भेदः श्याममात्रे न वर्तते
श्यामेषु केषु चिद् वृत्तिर् यस्य सो ऽत्र व्यपेक्ष्यते ॥

3.14.371

श्यामेषु केषु चित् किं चित् किं चित् सर्वत्र वर्तते
सामान्यं कश् चिद् एकस्मिञ् छ्यामे भेदो व्यवस्थितः ॥

3.14.372

तथा हि सति सौरभ्ये भेदो जात्युत्पलादिषु
गन्धानां सति भेदे तु सादृश्यम् उपलभ्यते ॥

3.14.373

गुणानाम् आश्रयाद् भेदः स्वतो वाप्य् अनुगम्यते
अनिर्देश्याद् विशेषाद् वा संकराद् वा गुणान्तरैः ॥

3.14.374

उपमानं प्रसिद्धत्वात् सर्वत्र व्यतिरिच्यते
उपमेयत्वम् आधिक्ये साम्ये वा न निवर्तते ॥

3.14.375

अन्यैस् तु मानं जात्यादि भेद्यस्यार्थस्य वर्ण्यते
अनिर्ज्ञातस्वरूपो हि ज्ञेयो ऽर्थस् तेन मीयते ॥

3.14.376

मितस् तु स्वेन मानेन प्रसिद्धो यो गुणाश्रयः
आश्रयान्तरमानाय स्वधर्मेण प्रवर्तते ॥

3.14.377

रूपान्तरेण संस्पर्शो रूपान्तरवतां सताम्
भिन्नेन यस्य भेद्यानाम् उपमानं तद् उच्यते ॥

3.14.378

धर्मः समानः श्यामादिर् उपमानोपमेययोः
आश्रियमानप्राधान्यो धर्मेणान्येन भिद्यते ॥

3.14.379

शस्त्रीकुमार्योः सदृशः श्याम इत्य् एवम् आश्रिते
व्यपदेश्यम् अनेनेति निमित्तं गुणयोः स्थितम् ॥

3.14.380

यदा निमित्तैस् तद्वन्तो गच्छन्तीव तदात्मताम्
भेदाश्रयं तदाख्यानम् उपमानोपमेययोः ॥

3.14.381

तत्त्वासङ्गविवक्षायां येषु भेदो निवर्तते
लुप्तोपमानि तान्य् आहुस् तद्धर्मेण समाश्रयात् ॥

3.14.382

शस्त्र्यां प्रसिद्धं श्यामत्वं मानं सा तेन मीयते
अन्या श्यामा तु तद्रूपा तेनात्यन्तं न मीयते ॥

3.14.383

शस्त्रिं स्वेन गुणेनातो मिमानाम् आश्रयान्तरम्
असमाप्तगुणं सिद्धेर् उपमानं प्रचक्षते ॥

3.14.384

उपमेये स्थितो धर्मः श्रुतो ऽन्यत्रानुमीयते
श्रुतो ऽथ वोपमानस्थ उपमेये ऽनुमियते ॥

3.14.385

अधीयते ब्राह्मणवत् क्षत्रिया इति दृश्यते
उपमेयस्य भिन्नत्वाद् वचनं क्षत्रियाश्रयम् ॥

3.14.386

साधारणं ब्रुवन् धर्म क्व चिद् एव व्यवस्थितम्
सामान्यवचनः शब्द इति सूत्रे ऽपदिश्यते ॥

3.14.387

नाभेदेन न भेदेन गुणो द्विष्ठो ऽभिधीयते
भिन्नयोर् धर्मयोर् एकः श्रूयते ऽन्यः प्रतीयते ॥

3.14.388

नात्यन्ताय मिमीते यत् सामान्ये समवस्थितम्
सादृश्याद् उपमेयार्थ समीपे परिकल्प्यते ॥

3.14.389

मानं प्रति समीपं वा सादृश्येन प्रतीयते
परिच्छेदाद् धि सादृश्यम् इह मानोपमानयोः ॥

3.14.390

एकजातिव्यपेक्षायां तद् एवेत्य् अवसीयते
भेदस्यैव व्यपेक्षायाम् अन्यद् एवेति गम्यते ॥

3.14.391

कर्मत्वं करणत्वं च भेदेनैवाश्रितं यतः
अत्यन्तैकत्वविषयो न स्यात् तेनात्र सम्शयः ॥

3.14.392

भेदे ऽपि तुल्यरूपत्वाच् छालीम्ं तान् इति दृश्यते
जात्यभेदात् स एवायम् इति भिन्नो ऽभिधीयते ॥

3.14.393

कथं ह्य् अवयवो ऽन्यस्य स्याद् अन्य इति चोच्यते
अत्यन्तभेदे नानात्वं यत्र तत्त्वं न विद्यते ॥

3.14.394

अभेदस्य विवक्षायाम् एकत्वं सङ्घसङ्घिनोः
सङ्घिनोर् न त्व् अभेदो ऽस्ति तथान्यत्वम् उदाहृतम् ॥

3.14.395

तत्राभिन्नव्यपेक्षायाम् उपमार्थो न विद्यते
यो हि गौर् इति विज्ञाने हेतुः सो ऽस्ति गवान्तरे ॥

3.14.396

व्यावृत्तानां विशेषाणां व्यापारे तु विवक्षिते
न कश् चिद् उपकारो ऽस्ति बुद्धेर् बुद्ध्यन्तरं प्रति ॥

3.14.397

किं चिद् यत्रास्ति सामान्यं यदि भेदाश् च के चन
गोत्वं गोष्व् अस्ति सामान्यं भेदाश् च शबलादयः ॥

3.14.398

सामान्यं श्यामतान्यैव तद् धि साधारणं द्वयोः
तद् एव सिद्ध्यसिद्धिभ्यां भेद इत्य् अपदिश्यते ॥

3.14.399

श्यामत्वम् एव सामान्यम् अन्येषाम् उभयोः स्थितम्
संपूर्नत्वात् तद् अन्यस्माद् विशेष इति गम्यते ॥

3.14.400

आकृतौ वापि सामान्ये क्व चिद् एव व्यवस्थिताः
श्यामादौ ये ऽवसीयन्ते विशेषास् त इहाश्रिताः ॥

3.14.401

जातेर् अभेदे भेदे वा सादृश्यं तत् प्रचक्षते
कश् चित् कदा चित् अर्थात्मा तथाभूतो ऽपदिश्यते ॥

3.14.402

यत्रार्थे प्रत्ययाभेदो न कदा चिद् विकल्पते
अविद्यमानभेदत्वात् स एक इति गम्यते ॥

3.14.403

यो ऽर्थ आश्रितनानात्वः स एवेत्य् अपदिश्यते
व्यापारं जातिभागस्य तत्रापि प्रतिजानते ॥

3.14.404

जातिभागाश्रया प्रख्या तत्राभिन्ना प्रवर्तते
व्यक्तिभागाश्रया बुद्धिस् तत्र भेदेन जायते ॥

3.14.405

अन्यत्र वर्तमानं सद् भेदाभेदसमन्वितम्
निमित्तं पुनर् अन्यत्र नानात्वेनेव गृह्यते ॥

3.14.406

आधारेषु पदन्यासं कृत्वोपैति तदाश्रयम्
स सादृश्यस्य विषय इत्य् अन्यैर् अपदिश्यते ॥

3.14.407

परापेक्षे यथा भावे कारणाख्या प्रवर्तते
तथान्याधिगमापेक्षम् उपमानं प्रचक्षते ॥

3.14.408

गुरुगिश्यपितापुत्र क्रियाकालादयो यथा
व्यवहारास् तथौपम्यम् अप्य् अपेक्षानिबन्धनम् ॥

3.14.409

श्यामत्वम् उपमाने चेद् वृत्तं वृत्तौ प्रयुज्यते
उपमेयं समासेन बाह्यं तत्राभिधीयते ॥

3.14.410

टाबन्त एव चैत्रादौ श्यामाशब्दस् तथा भवेत्
सूत्रे च प्रथमाभावान् न श्यामाद्युपसर्जनम् ॥

3.14.411

अथ त्व् एकविभक्तित्वाद् गुणत्वाद् वोपसर्जनम्
नैवं तित्तिरिकल्माष्याम् इष्टः स्त्रीप्रत्ययो भवेत् ॥

3.14.412

सतिशिष्टबलीयस्त्वाद् बाह्ये ङिषि च सत्य् अपि
उपमानस्वरो न स्यात् तस्मात् स्त्र्यन्तः समस्यते ॥

3.14.413

गुणे न चोपमानस्थे सापेक्षत्वं प्रकल्पते
प्रधानस्य तथा न स्याद् व्याघ्रादौ लिङ्गदर्शनम् ॥

3.14.414

तस्मात् सति गुणत्वे ऽपि प्राधान्यं विग्रहान्तरे
नैवंजातीयकं शास्त्रे संभवत्य् उपसर्जनम् ॥

3.14.415

उपमेयात्मनि श्यामो वर्तमानो ऽभिधीयते
उपमानेष्व् अनिर्दिष्टः सामर्थ्यात् स प्रतीयते ॥

3.14.416

द्रव्यमात्रे ऽपि निर्दिष्टे चन्द्रवक्त्रे ऽनुगम्यते
विशिष्ट एव चन्द्रस्थो गुणो नोपप्लवादयः ॥

3.14.417

भेदभावनयैतच् च समासे ऽप्य् उपवर्ण्यते
विशिष्टगुणभिन्ने ऽर्थे पदम् अन्यत् प्रयुज्यते ॥

3.14.418

यदि भिन्नाधिकरणो वचनाद् अनुगम्यते
मृगीव चपलेत्य् अत्र पुंवद्भावो न सिध्यति ॥

3.14.419

अस्त्रीपूर्वपदत्वात् तु पुंवद्भावो भविष्यति
यथैव मृगदुग्धादौ न चेत् स्त्र्यर्थो विवक्ष्यते ॥

3.14.420

शस्त्रीव शस्त्रीश्यामेति देवदत्तैव कथ्यते
तस्याम् एवोभयं तस्माद् उच्यते शास्त्रविग्रहे ॥

3.14.421

पुंवद्भावस्य सिद्ध्यर्थं पक्षे स्त्रीप्रत्ययस्य च
बह्व् अपेक्ष्यम् अतस् तस्याम् उभयप्रतिपादनम् ॥

3.14.422

श्यामा शस्त्री यथा श्यामा शस्त्रीकल्पेति चोच्यते
तत्रोपमानेतरयोः श्यामेत्य् एतद् अपेक्ष्यते ॥

3.14.423

अथ श्यामेव शस्त्रीयं श्यामेत्य् एवं प्रयुज्यते
शस्त्री यथेयम् श्यामेति तावद् एव प्रतीयते ॥

3.14.424

उपलक्षणमात्रार्था गुणस्यास्य यदि श्रुतिः
पृथग् द्वयोः श्रुतो ऽप्य् एष नेष्टस्वार्थस्य वाचकः ॥

3.14.425

उपमेयं तु यद् वाच्यं तस्य चेत् प्रतिपादने
सव्यापारा गुणास् तत्र सर्वस्योक्तिः सकृच्छ्रुतौ ॥

3.14.426

प्रकाराधारभेदेन विशेषे समवस्थितः
शब्दान्तराभिसंबन्धे सामान्यवचनः कथम् ॥

3.14.427

सादृश्यमात्रं सामान्यं द्विष्ठं कैश् चित् प्रतीयते
गुणो भेदे ऽप्य् अभेदेन द्विवृत्तिर् वा विवक्षितः ॥

3.14.428

व्यापारो जातिभागस्य द्रव्ययोर् वाभिधित्सितः
रूपात् सामान्यवाचित्वं प्राग् वा वृत्तेर् उदाहृतम् ॥

3.14.429

व्याघ्रशब्दो यदा शौर्यात् पुरुषार्थे ऽवतिष्ठते
तदाधिकरणाभेदात् समासस्यास्ति संभवः ॥

3.14.430

शूरशब्दप्रयोगे तु व्याघ्रशब्दो मृगे स्थितः
भिन्ने ऽधिकरणे वृत्तेस् तत्र नैवास्ति संभवः ॥

3.14.431

सामानाधिकरण्ये ऽपि गुणभेदस्य संभवात्
प्रयोगः शूरशब्दस्य समासे ऽप्य् अनुषज्यते ॥

3.14.432

पूजोपाधिश् च यो दृष्टः कुत्सनोपाधयश् च ये
तेषां भिन्ननिमित्तत्वान् नियमार्था पुनः श्रुतिः ॥

3.14.433

असंभवे ऽपि वा वृत्तेः स्याद् एतल् लिङ्गदर्शनम्
अच्वेर् इति यथा लिङ्गम् अभावे ऽपि भृशादिषु ॥

3.14.434

वत्यन्तावयवे वाक्ये यद् औपम्यं प्रतीयते
तत्प्रत्ययविधौ सूत्रे निर्देशो ऽयं विचार्यते ॥

3.14.435

क्रियेत्य् उपाधिः प्राथम्यात् प्रकृत्यर्थस्य यद्य् अपि
न प्रातिपदिकं तत्र क्रियावाच्य् उपपद्यते ॥

3.14.436

सत्त्ववृत्तस्य शेषे वा तृतीया साधने ऽपि वा
तिङाम् असत्त्ववाचित्वाद् उभयं तन् न विद्यते ॥

3.14.437

पाकादयस् तृतीयान्ताः सत्त्वधर्मसमन्वयात्
न क्रियेत्य् अपदिश्यन्ते कृत्वो ऽर्थप्रत्यये यथा ॥

3.14.438

ये चाव्ययकृतः के चित् क्रियाधर्मसमन्विताः
तेषाम् असत्त्ववाचित्वं तिङन्तैर् न विशिष्यते ॥

3.14.439

कृत्वसुज्विषया यापि शयितव्यादिषु क्रिया
उपमानोपमेयत्वं तत्रात्यन्तम् असंभवि ॥

3.14.440

न केवलौ द्रव्यगुणौ तद्वान् वाप्य् उपमीयते
शयितव्यादिभिस् तेषु नोपमार्थो ऽस्ति कश् चन ॥

3.14.441

उपमानोपमेयत्वे द्रव्ये चानुक्तधर्मिणि
निमित्तत्वेन गम्यन्ते रूढयोगाः क्रियागुणाः ॥

3.14.442

होतव्यसदृशो होतेत्य् अत्राप्य् अर्थो न विद्यते
विरोधात् क्रियया तस्मात् क्रियावान् नोपमीयते ॥

3.14.443

क्रिया समानजातिया तद्भावान् नोपमीयते
जातिभेदे ऽपि पाकेन भिन्नाः पाकादयः क्रियाः ॥

3.14.444

आधारभेदाद् भिन्नायाम् उपमानस्य संभवः
अध्येतव्येन विप्राणां तुल्यम् अध्ययनं विशाम् ॥

3.14.445

अर्थात् प्रकरणाद् वापि यत्रापेक्ष्यं प्रतीयते
सामर्थ्याद् अनपेक्षस्य तस्य वृत्तिः प्रसज्यते ॥

3.14.446

तैलपाकेन तुल्ये च घृतपाके विवक्षिते
क्रियावद् अपि कार्याणां दर्शनात् प्रत्ययो भवेत् ॥

3.14.447

अतिङ्ग्रहणम् एवं तु समासस्य निवर्तकम्
गमनं कारकस्येति ण्वुल्य् अन्यस्मिन् न संभवेत् ॥

3.14.448

सर्वस्य परिहारार्थं समुदायत्वम् आश्रितम्
शुद्धायाः संभवान् न स्यात् क्रियाया ब्राह्मणादिषु ॥

3.14.449

उपमानविवक्षायां स्वधर्मश् च निवर्तते
क्रियाया न श्रुताद् यस्माद् उपमानं समाप्यते ॥

3.14.450

तृतीयो ऽप्य् आश्रितो भेदो धर्मः साधारणो द्वयोः
व्यापारवान् न कृत्स्नस्य साम्यं कृत्स्नेन विद्यते ॥

3.14.451

द्रव्ये वापि क्रियायां वा निमित्तात् तत् प्रकल्पते
क्रियाणां विद्यमानत्वाद् वृत्तिर् न स्याद् गवादिषु ॥

3.14.452

अभावात् केवलायास् तु तद्वान् अर्थः प्रतीयते
प्रधानासंभवे युक्ता लक्षणार्था क्रियाश्रुतिः ॥

3.14.453

क्रियान्तरेषु सापेक्षाः क्रियाशब्दाः क्रियान्तरे
उपकाराय गृह्यन्ते यथैव ब्राह्मणादयः ॥

3.14.454

यथा प्रकर्षः सर्वत्र निमित्तान्तरहेतुकः
द्रव्यवद् गुणशब्दे ऽपि स निमित्तम् अपेक्षते ॥

3.14.455

यो य उच्चार्यते शब्दः स स्वरूपनिबन्धनः
यथा तथोपमानेषु व्यपेक्ष न निवर्तते ॥

3.14.456

क्रियावृत्तेस् तृतीयान्तस्य् ऐवं चासंभवे सति
प्रसिद्धन्यायकरणो भाष्ये युजिर् उदाहृतः ॥

3.14.457

अन्तर्भूते तु करणे प्रयोगो न पुनर् भवेत्
न्यायेनायुक्तम् इत्य् अत्र जीवतौ प्राणकर्मवत् ॥

3.14.458

शास्त्राभ्यासाच् च भेदो ऽयम् अयुक्तम् इति वर्ण्यते
अशोभनम् असंबद्धम् इति रूढिर् व्यवस्थिता ॥

3.14.459

विविभक्तिः प्रकृत्यर्थं प्रत्य् उपाधिः कथं भवेत्
विभक्तिपरिणामे च प्रकल्प्यं विषयान्तरम् ॥

3.14.460

विभक्त्यन्तरयोगो हि यस्य तद् विषयान्तरे
विभक्त्यन्तरसंबन्धः सामर्थ्याद् अनुमीयते ॥

3.14.461

सारूप्यात् तु तद् एवेदम् इति तत्रोपचर्यते
शब्दान्तरं विभक्त्या तु युक्तं शास्त्रे तद् अश्रुतम् ॥

3.14.462

प्रकृतिश् चेत् तृतीयान्ता तेनेत्य् अस्मात् प्रतीयते
क्रियेति प्रथमान्ता सा कथं भवितुम् अर्हति ॥

3.14.463

क्रिययेति तृतीया च प्रयोगे कस्य कल्प्यताम्
तेनेत्य् अस्य हि संबन्धः सूत्रस्थेन न विद्यते ॥

3.14.464

सोपस्कारेषु सूत्रेषु वाक्यशेषः समर्थ्यते
तेन यत् तत् तृतीयान्तं क्रिया चेत् सेति गम्यते ॥

3.14.465

उपाधेः कस्य चिद् वाक्ये प्रयोग उपलभ्यते
प्रतीयमानधर्मान्यो न कदा चित् प्रयुज्यते ॥

3.14.466

नीलम् उत्पलम् इत्य् अत्र न विशेष्ये न भेदके
कश् चित् तद्धर्मवचनो वाक्ये शब्दः प्रयुज्यते ॥

3.14.467

अत्यन्तानुगमात् तत्र न सूत्रे न च विग्रहे
विभक्तिपरिणामेन किं चिद् अस्ति प्रयोजनम् ॥

3.14.468

तृतीयान्तं क्रियेत्य् एतद् विग्रहे न प्रयुज्यते
यथा दण्डः प्रहरणं क्रीडायाम् इति दृश्यते ॥

3.14.469

घविधौ यच् च संज्ञायाम् इति सूत्र उदाहृतम्
उपादानं प्रयोगेषु तस्यात्यन्तं न विद्यते ॥

3.14.470

यैर् अप्रयुक्तैः संस्कारः प्रधानेषु प्रतीयते
ते भेदे ऽपि विभक्तीनां निर्दिश्यन्त उपाधयः ॥

3.14.471

समुदायेषु वर्तन्ते भावानां सहचारिणाम्
शब्दास् तत् त्व् अविवक्षायां समुच्चयविकल्पयोः ॥

3.14.472

समुच्चयस् तु क्रियते येषु प्रत्यर्थवृत्तिषु
भेदाधिष्ठानया योगस् तेसां भवति संख्यया ॥

3.14.473

सर्वैर् विशिष्टास् तैर् अर्थैर् जन्यन्ते सहचारिभिः
बुद्धयः प्रतिपत्तॄणां शब्दार्थांस् तान् अतो विदुः ॥

3.14.474

संसृष्टाः प्रत्ययेष्व् अर्थाः सर्व एवोपकारिनः
तेषां प्रत्ययरूपेण सर्वेषां शब्दवाच्यता ॥

3.14.475

केवलानां तु भावानां न रूपम् अवधार्यते
अनिरूपितरूपेषु तेषु शब्दो न वर्तते ॥

3.14.476

पूर्वशब्दप्रयोगाच् च समूहान् न निवर्तते
वर्तते ऽवयवे नापि नोपात्तं त्यजते क्व चित् ॥

3.14.477

समुदायाभिधायि च यदि भेदं विशेषयेत्
तत्रातुल्यविभक्तित्वं पूर्वकायादिवद् भवेत् ॥

3.14.478

समूहे च प्रदेशे च पञ्चाला इति दृश्यते
तथा विशेषणं सर्व इत्य् एतद् उपपद्यते ॥

3.14.479

तथार्धपिप्पलीत्य् अत्र जात्यन्तरनिवृत्तये
अर्धं च पिप्पली चेति खन्दे शब्दः प्रतीयते ॥

3.14.480

पञ्चालानां प्रदेशो ऽपि भिन्नो जनपदान्तरात्
तत्रान्यस्य निवृत्त्यर्थे शब्दे भेदो न गम्यते ॥

3.14.481

प्रसिद्धास् तु विशेषेण समुदाये व्यवस्थिताः
प्रदेशे दर्शनं तेषाम् अर्थप्रकरणादिभिः ॥

3.14.482

यद् उपव्यञ्जनं जातेः सहचारि च कर्मसु
तत्र वा रूढसंबन्धं यत् प्रायेणोपलक्षितम् ॥

3.14.483

समुदायः प्रदेशो वेत्य् एवं तस्मिन्न् अनाश्रिते
अर्थात्मन्य् अविशेषेण वर्तन्ते ब्राह्मणादयः ॥

3.14.484

यश् च तुल्यश्रुतिर् दृष्टः समुदाये व्यवस्थितः
तेनोपचरितैकत्वं प्रदेशे ऽप्य् उपलभ्यते ॥

3.14.485

संस्काराद् उपघाताद् वा वृत्तो ऽक्तपरिमाणके
तैलादौ जातिशब्दो ऽत्र सामर्थ्याद् अवसीयते ॥

3.14.486

न जातिगुणशब्देषु मूर्तिभेदो विवक्षितः
ते जातिगुणसंबन्ध भेदमात्रनिबन्धनाः ॥

3.14.487

कृष्णादिव्यपदेशश् च सर्वावयववृत्तिभिः
गुणैस् ते ऽप्य् एकदेशस्थाः पटादीनां विशेषकाः ॥

3.14.488

पटावयववृत्तास् तु यदा तत्र पटादयः
तदा तैलादिवत् तेषां जातिशब्दत्वम् उच्यते ॥

3.14.489

निवृत्त्यर्था श्रुतिर् येषां भेदस् तेष्व् अनपेक्षितः
प्रदेशे समुदाये वा गुणो ऽन्येषां निवर्तकः ॥

3.14.490

ब्राह्मणाध्ययने तत्र वर्तते ब्राह्मणश्रुतिः
सादृश्यं तत्र दृष्टं हि क्षत्रियाध्ययनादिभिः ॥

3.14.491

ब्राह्मणाध्ययने वृत्तिर् यदि स्याद् ब्राह्मणश्रुतेः
वक्तव्यं केन धर्मेण तुल्यत्वं क्रिययोर् इति ॥

3.14.492

अध्येतरि यदा वृत्तिर् उच्यते ब्राह्मणश्रुतेः
निमित्तत्वं तदोपैति क्रियैवाध्येतरि स्थिता ॥

3.14.493

सिम्हशब्देन संबन्धे गौर्यमात्राभिधायिना
चैत्रात् षष्ठी प्रसज्येत योगे शत्त्र्यादिभिर् यथा ॥

3.14.494

ब्राह्मणायेव दातव्यं वैश्यायेत्य् एवमादिषु
संप्रदानादियोगश् च क्रियामात्रे न कल्पते ॥

3.14.495

क्रियामात्राभिधायित्वाद् अव्ययेषु वतेर् न च
पाठः कदा चित् कर्तव्यस् तुल्यौ पक्षाव् उभौ यतः ॥

3.14.496

जहाति जातिं द्रव्यं वा तस्मान् नावयवे स्थितः
क्रियायास् तु श्रुतिर् यस्मात् तद्वत्य् अर्थे ऽवतिष्ठते ॥

3.14.497

अक्रियाणां निवृत्त्यर्था, यतश् चात्र क्रियाश्रुतिः
क्रियोपलक्षिते तस्मात् क्रियाशब्दः प्रतीयते ॥

3.14.498

होतव्यादिषु यस्माच् च क्रियान्या ब्राह्मणादिवत्
अपेक्षणीया शुद्धे ऽर्थे तस्माद् वृत्तिर् न कस्य चित् ॥

3.14.499

सर्वं वाप्य् एकदेशो वा यस्मिन्न् आश्रियते क्व चित्
विशेषवृत्तिं तं सर्वम् आहुर् भेदे व्यवस्थितम् ॥

3.14.500

समुच्चयो विकल्पो वा प्रकाराः सर्व एव वा
विशेषा इति वर्ण्यन्ते सामान्यं वाविकल्पितम् ॥

3.14.501

न हि ब्राह्मण इत्य् अत्र भेदः कश् चिद् अपाश्रितः
अपाकृतो वा तेनायं समुदाये व्यवस्थितः ॥

3.14.502

क्रिया त्व् आश्रीयते यस्मिन् स भेदो ऽध्यवसीयते
तथान्यथा सर्वथा चेत्य् अप्रयोगे न विद्यते ॥

3.14.503

उपमाने क्रियावृत्तिम् उपमेये क्रियाश्रुतिः
प्रत्याययन्ती भेदस्य करोतीव पदार्थताम् ॥

3.14.504

व्यापारेणैव सादृश्ये व्यापारस्य विवक्षिते
क्रियावद्वचनाच् छब्दात् प्रत्ययः प्रतिपाद्यते ॥

3.14.505

क्रियावतो ऽपि सादृश्ये वक्तुम् इष्टे क्रियावता
अध्येता ब्राह्मण इव प्रत्ययो न निवर्तते ॥

3.14.506

अधीते तुल्य इत्य् एवं पुंल्लिङ्गेन विशेषणम्
क्रियावति क्रियायां तु तुल्यशब्दे नपुंसकम् ॥

3.14.507

प्रकृत्यर्थे विशिष्टे ऽपि प्रत्ययार्थाविशेषणात्
पुत्रेण तुल्यः कपिल इति वृत्तिः प्रसज्यते ॥

3.14.508

याः पुत्रे रूढसंबन्धाः क्रिया लोके विवक्षिताः
ताभिः क्रियावतः पुत्राद् गुणतुल्ये वतिर् भवेत् ॥

3.14.509

अन्तर्भूतं निमित्तं च रूढिशब्देषु यद्य् अपि
क्रियास् तु सहचारिण्यो रूढाः सन्ति पदार्थवत् ॥

3.14.510

क्रमं तु यदि बाधित्वा प्रत्ययार्थविशेषणम्
प्रधानानुग्रहात् साम्याद् विभक्तेश् चावतिष्ठते ॥

3.14.511

प्रकृतेर् अविशिष्टत्वात् क्रियातुल्ये प्रसज्यते
पुत्रादौ गुणशब्देभ्यः पूर्वोक्तस्य विपर्यये ॥

3.14.512

स्थूलेन तुल्यो यातीति बहिरङ्गा क्रियाश्रुतिः
अनिमित्तं वतेस् तुल्यं यातीत्य् अत्रेष्यते वतिः ॥

3.14.513

द्वयं विशेष्यते तेन यद् एकत्र विशेषणं
तुल्यशब्दो हि तं धर्मम् उभयस्थम् अपेक्षते ॥

3.14.514

एकः समानो धर्मश् चेद् उपमानोपमेययोः
तुलया संमितं तुल्यम् इति तत्रोपपद्यते ॥

3.14.515

सूत्रे श्रुतश् च द्विष्ठो ऽसाव् अभेदेन प्रतीयते
न च सामान्यशब्दत्वाद् अश्रुता गम्यते क्रिया ॥

3.14.516

अश्रुताश् च प्रतीयन्ते निदेशस्थायितादयः
ये धर्मा नियतास् तेषां पुत्रादिषु न विद्यते ॥

3.14.517

अनाश्रितक्रियस् तस्मान् न तुल्यो ऽस्ति क्रियावता
क्रियायाः श्रवणे सापि क्रियावत्ता प्रतीयते ॥

3.14.518

द्वयोः प्रतिविधानाच् च ज्यायस्त्वम् अभिधीयते
नित्यासत्त्वाभिधायित्वात् प्रत्ययार्थविशेषणे ॥

3.14.519

असत्त्वभूतो व्यापारः केवलः प्रत्यये यतः
विद्यते लक्षणार्थत्वं नास्ति तेन क्रियाश्रुतेः ॥

3.14.520

क्रियावतस् तु ग्रहणात् प्रकृत्यर्थविशेषणे
क्रियामात्रेन तुल्यत्वे सिद्धासत्त्वाभिधायिता ॥

3.14.521

यदा क्रियानिमित्तं तु सादृश्यं स्यात् क्रियावतोः
क्रियावतो ऽभिधेयत्वात् तदा द्रव्याभिधायिता ॥

3.14.522

अव्ययेषु वतेः पाठः कार्यस् तत्र स्वरादिवत्
ब्राह्मणेन समो ऽध्येतेत्य् अत्र च प्रत्ययो भवेत् ॥

3.14.523

सामानाधिकरण्यं च वत्यर्थेनापदिश्यते
तुल्यम् इत्य् अन्यथा कल्प्यो वाक्यशेषो ऽश्रुतो भवेत् ॥

3.14.524

क्रियावतोश् च सादृश्ये प्रत्ययार्थविशेषणे
अध्येत्रा सदृशो ऽध्येतेत्य् अत्र नास्ति वतेर् विधिः ॥

3.14.525

तुल्यार्थैर् इति या तस्यास् तृतीयाया न भिद्यते
अर्थो भेदे ऽपि सर्वाभिर् इतराभिर् विभक्तिभिः ॥

3.14.526

भोज्यते ब्राह्मण इव तुल्यं भुक्तं द्विजातिना
पश्यति ब्राह्मणम् इव तुल्यं विप्रेण पश्यति ॥

3.14.527

ब्राह्मणेनेव विज्ञातं तुल्यं ज्ञातं द्विजातिना
दीयतां ब्राह्मणायेव तुल्यं विप्रेण दीयताम् ॥

3.14.528

ब्राह्मणाद् इव वैश्यात् त्वम् अधीष्वाध्ययनं बहु
इत्य् एवमादिभिर् भेदस् तृतीयाया न कश् चन ॥

3.14.529

तुल्यं मधुरयाधीये मात्रा तुल्यं स्मरामि ताम्
मधुरायाश् च मातुश् च कथं सादृश्यकल्पना ॥

3.14.530

मधुराविषयः पाठः स्मरणं मातृकर्मकम्
मधुरामातृशब्दाभ्याम् अभेदेनाभिधीयते ॥

3.14.531

उष्ट्रावयवतुल्येषु मुखेषूष्ट्रश्रुतिर् यथा
वर्तते गृहतुल्ये च प्रासादे मधुराश्रुतिः ॥

3.14.532

यथाध्ययनयोः साम्यम् अध्येत्रोर् अपदिश्यते
तथा क्रियागतैर् धर्मैर् उच्यन्ते साधनाश्रयाः ॥

3.14.533

इवार्थे यच् च वचनं पूर्वसूत्रे च यो विधिः
क्रियाशब्दश्रुतौ भेदो न कश् चिद् विद्यते तयोः ॥

3.14.534

यद्य् अप्य् उपाधिर् अन्यत्र नियतो न प्रयुज्यते
रूपाभेदात् त्व् अनिर्ज्ञाता क्रियात्र श्रूयते पुनः ॥

3.14.535

यथा व्युत्परयः पुच्छौ क्यङन्ते सुदुरादयः
सत्य् अपि प्रत्ययार्थत्वे भेदाभावाद् उदाहृताः ॥

3.14.536

एवं च सति पूर्वेण सिद्धो ऽत्रापि वतेर् विधिः
नियमे वाभिधाने वा भिद्यते न क्रियाश्रुतिः ॥

3.14.537

इवे द्रव्यादिविषयः प्रत्ययः पुनर् उच्यते
क्रियाणाम् एव सदृश्वे पूर्वसूत्रे विधीयते ॥

3.14.538

मधुरायाम् इव गृहा ब्राह्मणस्येव पाण्डुराः
इत्य् अत्र द्रव्यगुणयोः पूर्वेण न वतिर् भवेत् ॥

3.14.539

आरम्भस्याक्रियार्थत्वे नार्थो योगेन विद्यते
ऋते क्रियाया ग्रहणात् पूर्वयोगेन सिध्यति ॥

3.14.540

मधुरावयवे वृत्तिर् व्वाख्याता मधुराश्रुतेः
ब्राह्मणावयवान् दन्तान् वक्ष्यति ब्राह्मणश्रुतिः ॥

3.14.541

न का चिद् इवयोगे तु बाह्यात् संबन्धिनो
षष्ठी विधीयते तत्र पूर्वेण प्रत्ययो भवेत् ॥

3.14.542

आधिक्यं तुल्यशब्देन संबन्ध उपजायते
षष्ठीतृतीये तत्र स्तस् तुल्यशब्दो हि वाचकः ॥

3.14.543

इवशब्दप्रयोगे तु बाह्यात् संबन्धिनो विना
नाधिक्यम् उपमाने ऽस्ति द्योतकः स प्रयुज्यते ॥

3.14.544

इवे यो व्यतिरेको ऽत्र स प्रासादादिहेतुकः
तुल्ये तद्विषयापेक्षम् आधिक्यम् उपजायते ॥

3.14.545

गवयेन समो ऽनद्वान् इति वृत्तिस् तथा भवेत्
न त्व् अस्ति गौर् इवेत्य् अत्र व्यतिरेक इवाश्रयः ॥

3.14.546

उपमेयेन संबन्धात् प्राक् प्रासादादिहेतुके
व्यतिरेके वतेर् भावो न तुल्यार्थत्वहेतुके ॥

3.14.547

इवशब्देन संबन्धे न तृतीया विधीयते
प्रकृतां ताम् अतस् त्यक्त्वा विभक्त्यन्तरं आश्रितम् ॥

3.14.548

सप्तम्य् अपि न तत्रास्ति ज्ञापकार्था तु सा कृता
इष्टा सा शेषविषये नियतासु विभक्तिषु ॥

3.14.549

यदि तु व्यतिरेकेण विषये ऽस्मिन् विभक्तयः
प्रवर्तेरंस् तृतीयैव व्यभिचारं प्रदर्शयेत् ॥

3.14.550

व्यभिचारे तथा सिद्धे सप्तमीग्रहणाद् विना
सप्तम्य् एवोच्यते सर्वा न सन्त्य् अन्या विभक्तयः ॥

3.14.551

अत्यन्तम् अत्र विषये सप्तम्या ज्ञापकार्थया
बाधिता विनिवर्तेत षष्ठी सा गृह्यते पुनः ॥

3.14.552

पूर्वाभ्याम् एव योगाभ्यां विग्रहान्तरकल्पनात्
अर्हार्थे ऽपि वतिः सिद्धः स त्व् एकेन निदर्श्यते ॥

3.14.553

तेन तुल्यम् इति प्राप्ते क्रियोपाधिः प्रसिध्यति
राजवद् वर्तते राजेत्य् अत्र भेदे विवक्षिते ॥

3.14.554

राजत्वेन प्रसिद्धा ये पृथुप्रभृतयो नृपाः
युधिष्ठिरान्तास् ते ऽन्येषाम् उपमानं महीक्षिताम् ॥

3.14.555

सिद्ध्यसिद्धिकृतो भेद उपमानोपमेययोः
सर्वत्रैव यतो ऽसिद्धं प्रसिद्धेनोपमीयते ॥

3.14.556

राजवद् रूपम् अस्येति राजन्य् एव विवक्षिते
अक्रियार्थेन योगेन द्वितीयेन भविष्यति ॥

3.14.557

उपमानाविवक्षायां नियमार्थो ऽयम् उच्यते
धर्मो ऽर्हतिक्रियाकर्ता तदर्थं वचनं पुनः ॥

3.14.558

कृतहस्तवद् इत्य् एतत् प्रसिद्धेष्व् एव दृश्यते
राजत्वेन प्रसिद्धे च राज्ञि राजवद् इत्य् अपि ॥

3.14.559

अराज्ञि येषां धर्माणां दृष्टो ऽत्यन्तम् असंभवः
ते राजनि नियम्यन्ते त्यज्यन्ते व्यभिचारिणः ॥

3.14.560

अर्हतेश् च क्रिया कर्त्री या तस्यां वतिर् इष्यते
राजानम् अर्हति च्छत्त्रम् इति न त्व् एवमादिषु ॥

3.14.561

प्रयुक्तानां हि शब्दानां शास्त्रेणानुगमः सताम्
छत्त्राद्यर्थे तु वचने प्रत्याख्यानं न संभवेत् ॥

3.14.562

तदर्हम् इति नारब्धं सूत्रं व्याकरणान्तरे
संभवत्य् उपमात्रापि भेदस्य परिकल्पनात् ॥

3.14.563

एकस्य कार्यनिर्ज्ञानात् सिद्धस्य विषयान्तरे
तद्धर्मत्वविवक्षायां बुद्ध्या भेदः प्रकल्प्यते ॥

3.14.564

सूत्रारम्भान् न चैतस्माद् इवशब्दस्य विद्यते
प्रयोगः सो ऽपि चैतस्य विषये विद्यते वतेः ॥

3.14.565

दस्युहेन्द्र इवेत्य् एतद् ऐन्द्रमन्त्रे प्रयुज्यते
अन्यत्र दृष्टकर्मेन्द्रो यथेत्य् अस्मिन् विवक्षिते ॥

3.14.566

पूर्वाम् अवस्थाम् आश्रित्य यावस्था व्यपदिश्यते
सदृशस् त्वं तवैवेति तत्रैवम् अभिधीयते ॥

3.14.567

प्रसिद्धभेदं यत्रान्यद् उपमानं न विद्यते
उपमेयस्य तत्रात्मा स्वबुद्ध्या प्रविभज्यते ॥

3.14.568

यो ऽपि स्वाभाविको भेदः सो ऽपि बुद्धिनिबन्धनः
तेनास्मिन् विषये भिन्नम् अभिन्नं वा न विद्यते ॥

3.14.569

अङ्गदी कुण्डली चेति दर्शयन् भेदहेतुभिः
चैत्रम् ईदृशम् इत्य् आह बुद्ध्यवस्थापरिग्रहात् ॥

3.14.570

एतैः शब्दैर् यथाभूतः प्रत्ययात्मोपजायते
तत्प्रत्ययानुकारेण विषयो ऽप्य् उपपद्यते ॥

3.14.571

बुद्ध्यवस्थाविभागेन भेदकार्यं प्रतीयते
जन्यन्त इव शब्दानाम् अर्थाः सर्वे विवक्षया ॥

3.14.572

तथाविधे ऽपि बाह्ये ऽर्थे भिद्यन्ते यत्र बुद्धयः
न तत्र कश् चित् सादृश्यं सद् अपि प्रतिपद्यते ॥

3.14.573

अत्यन्तं विषये भिन्ने यावत् प्रख्या न भिद्यते
न तावत् प्रत्यभिज्ञानं कस्य चिद् विनिवर्तते ॥

3.14.574

अयम् एव तु सूत्रेण भेदो भेदेन दर्शितः
प्रसिद्धम् अपि दुर्ज्ञानम् अबुधः प्रतिपद्यते ॥

3.14.575

वैयाकरणवद् ब्रूते न वैयाकरणः सदा
वैयाकरणवद् ब्रूष्वेत्य् अतः सो ऽप्य् अभिधीयते ॥

3.14.576

के चित् पुमांसो भाषन्ते स्त्रीवत् पुंवच् च योषितः
व्यभिचारे स्वधर्मो ऽपि पुनस् तेनोपदिश्यते ॥

3.14.577

सदृशस् त्वं तवैवेति लोके यद् अभिधीयते
उपमानान्तरं तत्र प्रसक्तं विनिवर्तते ॥

3.14.578

युक्तम् औपयिकं राज्ञ इत्य् अर्थस्य निदर्शने
उपमानाविवक्षायां तदर्हम् इति पठ्यते ॥

3.14.579

प्रसक्तानुप्रसक्तस् तु वतिशेषो ऽभिधीयते
उपमानाभिसंबन्धाद् अस्मिन् वतिर् उदाहृतः ॥

3.14.580

प्रधानकल्पनाभावे गुणशब्दस्य दर्शनात्
उपसर्गाद् वतौ सिद्धा धातौ धात्वर्थकल्पना ॥

3.14.581

स्वं रूपम् इति चैतस्मिन्न् अर्थस्यापि परिग्रहः
रूपवज् ज्ञापितस् तस्माद् आसन्नो ऽर्थो ग्रहीष्यते ॥

3.14.582

धात्वर्थेनोपजनितं साधनत्वेन साधनम्
धातुना कृतम् इत्य् एवम् अस्मिन् सूत्रे प्रतीयते ॥

3.14.583

यः शब्दश् चरितार्थत्वाद् अत्यन्तं न प्रयुज्यते
विषये ऽदर्शनात् तत्र लोपस् तस्याभिधीयते ॥

3.14.584

क्रियायां साधने द्रव्ये प्रादयो ये व्यवस्थिताः
तेभ्यः सत्त्वाभिधायिभ्यो वतिः स्वार्थे विधीयते ॥

3.14.585

प्रत्ययेन विना प्रादिस् तत्रार्थे न प्रयुज्यते
भेदेन तु समाख्याने विभागः परिकल्पितः ॥

3.14.586

अनङ्गीकृतसत्त्वं तु यदि गृह्येत साधनम्
विभक्तिभिर् नियोगः स्याद् यथैव तसिलादिषु ॥

3.14.587

पाठाद् यैर् अविभक्तित्वं वत्यन्तेष्व् अनुगम्यते
तेषाम् उद्वत इत्य् अत्र वक्तव्या सविभक्तिता ॥

3.14.588

वत्यर्थं नावगाहेते पुंवद् इत्य् अस्य दर्शनात्
नञ्स्नञाव् अपवादस्य बाधकं तन् निपातनम् ॥

3.14.589

एतम् उत्क्रामतो नूनं वत्यर्थं नञ्स्नञाव् इति
तयोः प्रवृत्ताव् उत्सर्गो बाधनान् नोपपद्यते ॥

3.14.590

नञ्स्नञौ विहितौ येन स योगो नावगाहते
वतिप्रकरणं तद् धि लिङ्गम् एवं समर्थ्यते ॥

3.14.591

अभेदेनोपमानस्य भिन्नार्थोपनिपातिता
ऊहस् तथोपमानानाम् अङ्गवन् नोपलभ्यते ॥

3.14.592

गावेधुके चरौ दृष्टा गोविकर्ताक्षवापयोः
पशू रुद्र इव ह्य् एताव् इत्य् एकवचनश्रुतिः ॥

3.14.593

उपमानस्य भेदाच् च बहुषु स्याद् अञो विधिः
काश्यपा इति लोपः स्यात् तथा प्रतिकृतिष्व् अपि ॥

3.14.594

एवं तु युक्तवद्भावाद् अत्रैकवचनं भवेत्
लुम् मनुष्ये तथोक्तं स्याल् लिङ्गस्यैकस्य सिद्धये ॥

3.14.595

उपमेयेषु भिन्नेषु किं चिद् एकं प्रवर्तते
प्रत्ययस्य विधौ तत्र नित्यं युक्तवद् इष्यते ॥

3.14.596

यदा प्रत्युपमेयं तु तद् एकैकम् अवस्थितम्
तदा बाह्यार्थभेदेन तद्धितान्तं प्रचीयते ॥

3.14.597

यथा समूहप्रचये द्विगूनां भिन्नसंख्यता
पञ्चपूल्यादिषु तथा लुबन्तप्रचयो भवेत् ॥

3.14.598

प्रचये भिद्यमाने तु संख्या पूलेषु भिद्यते
अर्थभेदो लुबन्तेषु नैवं कश् चन दृश्यते ॥

3.14.599

येषूपमेयवचनः शब्दो ऽन्यो न प्रयुज्यते
उपमानस्य तत्रान्यैः संख्याया भेद इष्यते ॥

3.14.600

यथा गुडतिलादीनां प्रयोगाद् एकसंख्यता
पाकादेर् अप्रयोगे तु भिन्ना संख्याभिधीयते ॥

3.14.601

यः संबन्धिगतो भेदः स प्रयोगे प्रतीयते
संबन्धिनाम् अतो भेद उपमेये न गम्यते ॥

3.14.602

तस्मात् सामान्यशब्दत्व प्रसङ्गविनिवृत्तये
उपमेयगतो भेद उपमानेषु दृश्यते ॥

3.14.603

उपमानं समस्तानाम् अभिन्नम् श्रूयते क्व चित्
भिन्नानाम् उपमेयनाम् एकैकम् वोपमीयते ॥

3.14.604

यथा गरुड इत्य् एतद् व्यूहापेक्षं प्रयुज्यते
एकेन यत्र सादृश्यं वैनतेयेन हस्तिनाम् ॥

3.14.605

एकस्यापि प्रतीयेत भिन्ना प्रतिकृतिः सह
काश्यपस्येति तेनायं प्रत्येकम् अवतिष्ठते ॥

3.14.606

मेघाः शैल इवेत्य् उक्ते समस्तानां प्रतीयते
सादृश्यम् गिरिणैकेन प्रत्येकं तेन भिद्यते ॥

3.14.607

छापेक्षा तद्विषयता विधेयत्वान् न गम्यते
काकतालीयम् इत्य् अत्र प्रसिद्धम् ह्य् उपलक्षणम् ॥

3.14.608

राजाश्वादिश् च विषयः स्याद् अन्यो वेत्य् अनिश्चितम्
तेन च्छस्य विधानात् प्राग् व्यपदेशो न विद्यते ॥

3.14.609

द्वयोर् इवार्थयोर् अत्र निमित्तत्वं प्रतीयते
एकेनावयवो युक्तः प्रत्ययो ऽन्येन युज्यते ॥

3.14.610

चैत्रस्य तत्रागमनं काकस्यागमनं यथा
दस्योर् अभिनिपातस् तु तालस्य पतनं यथा ॥

3.14.611

संनिपाते तयोर् यान्या क्रिया तत्रोपजायते
वधादिर् उपमेये ऽर्थे तया छविधिर् इष्यते ॥

3.14.612

क्रियायां समवेतायां द्रव्यशब्दो ऽवतिष्ठते
पातागमनयोः काक तालशब्दौ तथा स्थितौ ॥

3.14.613

यद् अन्वाख्यायकं वाक्यं तद् एवं परिकल्प्यते
प्रयोगवाक्वं यल् लोके तद् एवं न प्रयुज्यते ॥

3.14.614

ययोर् अतर्किता प्राप्तिर् दृश्यते काकतालवत्
तयोः समासप्रकृतेर् वृत्तिर् अभ्युपगम्यते ॥

3.14.615

काकस्य तालेन यथा वधो यस्य तु दस्युना
तत्र चित्रीकृते ऽन्यस्मिन्न् उपमेये छ इष्यते ॥

3.14.616

चञ्चत्प्रकारश् चञ्चत्को बृहत्क इति चापरे
मणिमड्डूकखद्योतान् सादृश्वेन प्रचक्षते ॥

3.14.617

तत्रोन्मेषनिमेषाभ्यां खद्योत उपमीयते
श्वासप्रबन्धैर् मण्डूकः स्पन्दमानप्रभो मणिः ॥

3.14.618

प्रविकासिप्रभो ऽल्पो ऽपि महान् य उपलभ्यते
बृहत्क इति तत्रैष मणौ शब्दः प्रयुज्यते ॥

3.14.619

सादृश्यम् एव सर्वत्र प्रकारः कैश् चिद् इष्यते
भेदे ऽपि तु प्रकाराख्या कैश् चिद् अभ्युपगम्यते ॥

3.14.620

प्रकारवचनः कश् चित् प्रकारवति संस्थितः
प्रकारमात्रे वर्तित्वा कश् चित् तद्वति वर्तते ॥

3.14.621

सादृश्यग्रहणं सूत्रे सदृशस्योपलक्षणम्
तुल्ययोर् अव्ययीभावे सहशब्दो ऽभिधायकः ॥

3.14.622

विप्सासादृश्ययोर् वृत्तिर् या यथार्थाभिधायिनः
स चायम् अव्ययीभावे भेदो भेदेन दर्शितः ॥

3.14.623

सादृश्यं योग्यता कैश् चिद् अनाव् अभ्युपगम्यते
यत् तु मूर्तिगतं साम्यं तत् सहेनाभिधीयते ॥

3.14.624

इत्थंभावे ऽपि सादृश्यं बुद्ध्यवस्थानिबन्धनम्
ग्रहणे भेदमात्रस्य तत्रान्यैवाभिधीयते ॥

3.14.625

गौर् वाहीक इति द्वित्वे सादृश्यं प्रत्युदाहृतम्
शुक्लादौ सति निष्पन्ने वाहीको न द्विर् उच्यते ॥

मूल पाठ: Vākyapadīya · Data entry Yves Ramseier · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc