भाषा

ENहिગુ
ग्रंथ पाठ

वाक्यपदीय · अध्याय 3.13

3.13.1

स्तनकेशादिसंबन्धो विशिष्टा वा स्तनादयः
तदुपव्यञ्जना जातिर् गुणावस्था गुणास् तथा ॥

3.13.2

शब्दोपजनितो ऽर्थात्मा शब्दसंस्कार इत्य् अपि
लिङ्गानां लिङ्गतत्त्वज्ञैर् विकल्पाः सप्त दर्शिताः ॥

3.13.3

उपादानविकल्पाश् च लिङ्गानां सप्त वर्णिताः
विकल्पसंनियोगाभ्यां ये शब्देषु व्यवस्थिताः ॥

3.13.4

तिस्रो जातय एवैताः केसां चित् समवस्थिताः
अविरुद्धा, विरुद्धाभिर् गोमहिष्यादिजातिभिः ॥

3.13.5

हस्तिन्यां वडवायां च स्त्रीति बुद्धेः समन्वयः
अतस् तां जातिम् इच्छन्ति द्रव्यादिसमवायिनीम् ॥

3.13.6

परतन्त्रस्य यल् लिङ्गम् अपोद्धारे विवक्षिते
तत्रासौ शब्दसंस्कारः शब्दैर् एव व्यपाश्रितः ॥

3.13.7

बुद्ध्या कल्पितरूपेषु लिङ्गेष्व् अपि च संभवः
स्त्रीत्वादीनां व्यवस्था हि सा लिङ्गैर् व्यपदिश्यते ॥

3.13.8

यथा सलिलनिर्भासा मृगतृष्णासु जायते
जलोपलब्ध्यनुगुणाद् बीजाद् बुद्धिर् जले ऽसति ॥

3.13.9

तथैवाव्यपदेश्येभ्यो हेतुभ्यस् तारकादिषु
मुख्येभ्य इव लिङ्गेभ्यो भेदा लोके व्यवस्थिताः ॥

3.13.10

व्यक्तेषु व्यक्तरूपाणां स्तनादीनां तु दर्शनात्
अव्यक्तव्यञ्जनाव्यक्तेर् जातिर् न परिकल्प्यते ॥

3.13.11

अस्तित्वं च प्रतिज्ञाय सदादर्शनम् इच्छतः
अत्यन्तादर्शने न स्याद् असत्त्वं प्रति निश्चयः ॥

3.13.12

न चालम् अनुमानाय शब्दो ऽदर्शनपूर्वकः
सिद्धे हि दर्शने किं स्याद् अनुमानप्रयोजनम् ॥

3.13.13

आविर्भावस् तिरोभावः स्थितिश् चेत्य् अनपायिनः
धर्मा मूर्तिषु सर्वासु लिङ्गत्वेनानुदर्शिताः ॥

3.13.14

सर्वमूर्त्यात्मभूतानां शब्दादिनां गुणे गुणे
त्रयः सत्त्वादिधर्मास् ते सर्वत्र समवस्थिताः ॥

3.13.15

रूपस्य चात्ममात्रानां शुक्लादिनां प्रतिक्षणम्
का चित् प्रलीयते का चित् कथं चिद् अभिवर्धते ॥

3.13.16

क्वथितोदकवच् चैषाम् अनवस्थितवृत्तिता
अजस्रं सर्वभावानां भाष्य एवोपवर्णिता ॥

3.13.17

प्रवृत्तेर् एकरूपत्वं साम्यं वा स्थितिर् उच्यते
अविर्भावतिरोभाव प्रवृत्त्या वावतिष्ठते ॥

3.13.18

गुणा इत्य् एव बुद्धेर् वा निमित्तत्वं स्थितिर् मता
स्थितेश् च सर्वलिङ्गानां सर्वनामत्वम् उच्यते ॥

3.13.19

स्थितेषु सर्वलिङ्गेषु विवक्षानियमाश्रयः
कस्य चिच् छब्दसंस्कारे व्यापारः क्व चिद् इष्यते ॥

3.13.20

संनिधाने निमित्तानां किं चिद् एव प्रवर्तकम्
यथा तक्षादिशब्दानां लिन्गेषु नियमस् तथा ॥

3.13.21

भावतत्त्वदृशः शिष्टाः शब्दार्थेषु व्यवस्थिताः
यद् यद् धर्मे ऽङ्गताम् एति लिङ्गं तत् तत् प्रचक्षते ॥

3.13.22

स्वरभेदाद् यथा शब्दाः साधवो विषयान्तरे
लिङ्गभेदात् तथा सिद्धात् साधुत्वम् अनुगम्यते ॥

3.13.23

प्रयोगो विप्रयोगश् च लोके यत्रोपलभ्यते
शास्त्रम् आरभ्यते तत्र न प्रयोगाविपर्यये ॥

3.13.24

उपाधिभेदाद् अर्थेषु गुणधर्मस्य कस्य चित्
निमित्तभावः साधुत्वे विवक्षा च व्यवस्थिता ॥

3.13.25

हिमारण्ये महत्त्वेन युक्ते स्त्रीत्वम् अवस्थितम्
ह्रस्वोपाधिविशिष्टायाः कुट्याः प्रसवयोगिता ॥

3.13.26

शब्दान्तरानां भिन्ने ऽर्थ उपायाः प्रतिपत्तये
एकताम् इव निश्चित्य लघ्वर्थम् उपदर्शिताः ॥

3.13.27

उत्पत्तिः प्रसवो ऽन्येषां नाशः संस्त्यानम् इत्य् अपि
आत्मरूपं तु भावानां स्थितिर् इत्य् अपदिश्यते ॥

3.13.28

दृष्टं निमित्तं केसां चिज् जात्यादिवद् अवस्थितम्
दृष्टवच् छब्दसंस्कार मात्रं तु परिकल्पितम् ॥

3.13.29

यथा प्रसिद्धे ऽप्य् एकत्वे नानात्वाभिनिवेशिनः
नानात्वं जनयन्तीव शब्दा लिङ्गे ऽपि स क्रमः ॥

3.13.30

इदं वेयम् अयं वेति शब्दसंस्कारमात्रकम्
निमित्तदर्शनाद् अर्थे कैश् चित् सर्वत्र वर्ण्यते ॥

3.13.31

नावश्यं विषयत्वेन निमित्तं व्यवतिष्ठते
इन्द्रियादि यथादृष्टं भेदहेतुस् तद् इष्यते ॥

मूल पाठ: Vākyapadīya · Data entry Yves Ramseier · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc