वाक्यपदीय · अध्याय 3.12
य आत्मनेपदाद् भेदः क्व चिद् अर्थस्य गम्यते
अन्यतश् चापि लादेशान् मन्यन्ते तम् उपग्रहम् ॥
क्व चित् साधनम् एवासौ क्व चित् तस्य विशेषणम्
साधनं तत्र कर्मादि व्यक्तवाचो विशेषणम् ॥
क्रिया विषयभेदेन जीविकादिषु भिद्यते
लादेशैः स क्रियाभेदो वाक्येष्व् अपि नियम्यते ॥
धात्वर्थस् तद्विशेषश् चाप्य् उक्तः क्व चिद् उपग्रहः
धात्वर्थो गन्धनादिः स्याद् व्यतिहारो विशेषणम् ॥
क्रियाप्रवृत्ताव् आख्याता कैश् चित् स्वार्थपरार्थता
असति वा सति वापि विवक्षितनिबन्धना ॥
केसां चित् कर्त्रभिप्राये णिचा सह विकल्पते
आत्मनेपदम् अन्येसां तदर्था प्रकृतिर् यथा ॥
क्रीणीष्व वपते धत्ते चिनोति चिनुते ऽपि च
आप्तप्रयोगा दृश्यन्ते येषु ण्यर्थो ऽभिधीयते ॥
संविधानं पचादिनां क्व चिद् अर्थः प्रतीयते
तन्निमित्ता यथान्यापि क्रियाधिश्रयणादिका ॥
कर्त्रभिप्रायता सूत्रे क्रियाभेदोपलक्षणम्
तथाभूता क्रिया या हि तत्कर्ता फलभाग् यतः ॥
यथोपलक्ष्यते कालस् तारकादर्शनादिभिः
तथा फलविशेषेण क्रियाभेदो निदर्श्यते ॥
क्रियाविशेषवचने सामर्थ्यम् उपरुध्यते
केसां चिद् अन्ये तु कृताः स्वरितेतो ञितस् तथा ॥
अनुबन्धश् च सिद्धे ऽर्थे स्मृत्यर्थम् अनुषज्यते
तुल्यार्थेष्व् अपि चावश्यं न सर्वेष्व् एकधर्मता ॥
दृशीक्ष्योः सदृशे ऽप्य् अर्थे नाभेदः प्रतिपूर्वयोः
ण्यर्थोपादायिनस् तस्मान् न तुल्यार्थाः पचादिभिः ॥
उम्भ्यर्थे वर्तमानस्य करोतेर् भिन्नधर्मणः
ण्यर्थोपादायिता तस्मान् नियताः शब्दशक्तयः ॥
तथा ह्य् अनुप्रयोगस्य करोतेर् आत्मनेपदे
पूर्ववद्ग्रहणं प्राप्ते स्वरितं समुपस्थितम् ॥
एकत्वे ऽपि क्रियाख्याते साधनाश्रयसंख्यया
भिद्यते न तु लिङ्गाख्यो भेदस् तत्र तदाश्रितः ॥
तस्माद् अवस्थिते ऽप्य् अर्थे कस्य चित् प्रतिबध्यते
शब्दस्य शक्तिः स त्व् एष शास्त्रे ऽन्वाख्यायते विधिः ॥
यस्यार्थस्य प्रसिद्ध्यर्थम् आरभ्यन्ते पचादयः
तत् प्रधानं फलं तेषां न लाभादि प्रयोजनम् ॥
यत्रोभौ स्वामिदासौ तु प्रारभेते सह क्रियाम्
युगपद् धर्मभेदेन धातुस् तत्र न वर्तते ॥
यत्र प्रतिविधानार्थः पचिस् तत्रात्मनेपदम्
परस्मैपदम् अन्यत्र संस्काराद्यभिधायिनि ॥
संविधातुश् च सांनिध्याद् दासे धर्मो ऽनुसज्यते
प्लक्षशब्दस्य सांनिध्यान् न्यग्रोधे प्लक्षता यथा ॥
पुरोडाशाभिधानं च धानादिषु यथा स्थितम्
छत्त्रिणा चाभिसंबन्धाच् छत्त्रिशब्दाभिधेयता ॥
अर्थात् प्रतीतम् अन्योन्यं पारार्थ्यम् अविवक्षितम्
इत्य् अयं शेषविषयः कैश् चिद् अत्रानुवर्ण्यते ॥
अथ प्रतिविधाता यो हलैः कृषति पञ्चभिः
भाष्ये नोदाहृतं कस्मात् प्राप्तं तत्रात्मनेपदम् ॥
प्रतीतत्वात् तदर्थस्य शेषत्वं यदि कल्प्यते
न स्यात् प्राप्तविभाषासौ स्वरितेतां निवर्तिका ॥
शुद्धे तु संविधानार्थे कैश् चिद् अत्रेष्यते कृषिः
तद्धर्मा यजिर् इत्य् एवं न स्यात् तत्रात्मनेपदम् ॥
अत्र तूपपदेनायम् अर्थभेदः प्रतीयते
प्राप्ते विभाषा क्रियते तस्मान् नात्रात्मनेपदम् ॥
मूल पाठ: Vākyapadīya · Data entry Yves Ramseier · GRETIL (Göttingen) · CC BY-NC-SA 4.0