वाक्यपदीय · अध्याय 3.11
संख्यावान् सत्त्वभूतो ऽर्थः सर्व एवाभिधीयते
भेदाभेदविभागो हि लोके संख्यानिबन्धनः ॥
स धर्मो व्यतिरिक्तो वा तेषां आत्मैव वा तथा
भेदहेतुत्वम् आश्रित्य संख्येति व्यपदिश्यते ॥
समवेता परिच्छेद्ये क्व चिद् अन्यत्र सा स्थिता
प्रकल्पयति भावानां संख्या भेदं तथात्मनः ॥
परत्वे चापरत्वे च भेदे तुल्या श्रुतिर् यथा
संख्याशब्दाभिधेयत्वं भेदहेतोस् तथा गुणे ॥
अस्वतन्त्रे स्वतन्त्रत्वं परधर्मो यथा गुणे
अभेद्ये भेद्यभावो ऽपि द्रव्यधर्मस् तथा गुणे ॥
स्वबुद्ध्या तम् अपोद्धृत्य लोको ऽप्य् आगमम् आश्रितः
स्वधर्माद् अन्यधर्मेण व्याचष्टे प्रतिपत्तये ॥
परोपकारतत्त्वानां स्वातन्त्र्येनाभिधायकः
शब्दः सर्वपदार्थाना स्वधर्मद् विप्रकृष्यते ॥
यथैवाविषयं ज्ञानं न किं चिद् अवभासते
तथा भावो ऽप्य् असंसृष्टो न कश् चिद् उपलभ्यते ॥
भेदेन तु समाख्यातं यल् लोको ऽप्य् अनुवर्तते
आगमाच् छास्त्रसदृशो व्यवहारः स वर्ण्यते ॥
बुद्धौ स्थितेषु तेष्व् एवम् अध्यारोपो न दुर्लभः
परधर्मस्य न ह्य् अत्र सदसत्त्वं प्रयोजकम् ॥
सामान्येष्व् अपि सामान्यं विशेषेषु विशिष्टता
संख्यासु संख्या लिङ्गेषु लिङ्गम् एवं प्रकल्पते ॥
अतो द्रव्याश्रितां संख्याम् आहुः संसर्गवादिनः
भेदाभेदव्यतीतेषु भेदाभेदविधायिनीम् ॥
आत्मान्तरानां येनात्मा तद्रूप इव लक्ष्यते
अतद्रूपेण संसर्गात् सा निमित्तसरूपता ॥
संसृष्टेष्व् अपि निर्भागे भूतेष्व् अर्थक्रिया यथा
सत्त्वादिषु च मात्रासु सर्वास्व् एवं प्रतीयते ॥
द्वित्वादियोनिर् एकत्वं भेदास् तत्पूर्वका यतः
विना तेन न संख्यानाम् अन्यासाम् अस्ति संभवः ॥
एकत्वे बुद्धिसहिते निमित्तं द्वित्वजन्मनि
एकत्वाभ्यां समुत्पन्नम् एवं वा तत् प्रतीयते ॥
एकत्वसमुदायो वा सापेक्षे वा पृथक् पृथक्
एकत्वे द्वित्वम् इत्य् एवं तयोर् द्विवचनं भवेत् ॥
एको ऽपि गुणभेदेन सङ्घो भेदं प्रकल्पयेत्
आश्रयाश्रयिभेदो हि तदाश्रयनिबन्धनः ॥
संख्येयसङ्घसंख्यान सङ्घः संख्येति कथ्यते
विम्शत्यादिसु सान्यस्व द्रव्यसङ्घस्य भेदिका ॥
एकविंशतिसंख्वावां संख्यान्तरसरूपयोः
एकस्यां बुद्ध्यनावृत्त्या, भागयोर् इव कल्पना ॥
असंख्यासमुदायत्वात् संख्याकार्यं विधीयते
समूहत्वे तु तन् न स्यात् स्वाङ्गादिसमुदायवत् ॥
संख्येयान्तरतन्त्रासु या संख्यासु प्रवर्तते
आवृत्तिवर्गसंख्येया तां संख्यां तादृशीं विदुः ॥
न संख्यायां न संख्येये द्वौ दशेत्य् अस्ति संभवः
भेदाभावान् न संख्यायां विरोधान् न तदाश्रये ॥
संख्यायेते दशद्वर्गौ द्विदशा इति संख्यया
तद्रूपे वापि संख्येय आवृत्तिः परिगण्यते ॥
संख्या नाम न संख्यास्ति संज्ञैषेति यथोच्यते
रूपं न रूपम् अप्य् एवं सम्ज्ञा सा हि सितादिषु ॥
संख्यानजातियोगात् तु संख्या संख्येति कथ्यते
रूपत्वजातियोगाच् च रूपे रूपम् इति स्मृतम् ॥
निमित्तम् एकम् इत्य् अत्र विभक्त्या नाभिधीयते
तद्वतस् तु यद् एकत्वं विभक्तिस् तत्र वर्तते ॥
एकस्य प्रचयो दृष्टः समूहश् च द्वयोस् तथा
निमित्तव्यतिरेकेण संख्यान्या भेदिका ततः ॥
तद् एकम् अपि चैकत्वं विभक्तिश्रवणाद् ऋते
नोच्यते तेन शब्देन विभक्त्या तु सहोच्यते ॥
अन्वयव्यतिरेकौ च यदि स्याद् वचनान्तरम्
स्याताम् असति तस्मिम्श् च प्रकृत्यर्थो न कल्प्यते ॥
एकत्वम् एक इत्य् अत्र शुद्धद्रव्यविशेषणम्
सगुणस् तु प्रकृत्यर्थो विभक्त्यर्थेन भिद्यते ॥
द्व्येकयोर् इति निर्देशात् संख्यामात्रे ऽपि संभवः
एकादीनां प्रसिद्ध्या तु संख्येयार्थत्वम् उच्यते ॥
मूल पाठ: Vākyapadīya · Data entry Yves Ramseier · GRETIL (Göttingen) · CC BY-NC-SA 4.0