वाक्यपदीय · अध्याय 3.1
द्विधा कैश् चित् पदं भिन्नं चतुर्धा पञ्चधापि वा
अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत् ॥
पदार्थानाम् अपोद्धारे जातिर् वा द्रव्यम् एव वा
पदार्थौ सर्वशब्दानां नित्याव् एवोपवर्णितौ ॥
केषां चित् साहचर्येण जातिः शक्त्युपलक्षणम्
खदिरादिष्व् अशक्तेषु शक्तः प्रतिनिधीयते ॥
अस्वातन्त्र्यफलो बन्धिः प्रमाणादीव शिष्यते
अतो जात्यभिधाने ऽपि शक्तिहीनं न गृह्यते ॥
संश्लेषमात्रं बध्नातिर् यदि स्यात् तु विवक्षितः
शक्त्याश्रये ततो लिङ्गं प्रमाणाद्यनुशासनम् ॥
स्वा जातिः प्रथमं शब्दैः सर्वैर् एवाभिधीयते
ततो ऽर्थजातिरूपेषु तदध्यारोपकल्पना ॥
यथा रक्ते गुणे तत्त्वं कषाये व्यपदिश्यते
संयोगिसन्निकर्षाच् च वस्त्रादिष्व् अपि गृह्यते ॥
तथा शब्दार्थसंबन्धाच् छब्दे जातिर् अवस्थिता
व्यपदेशे ऽर्थजातीनां जातिकार्याय कल्पते ॥
जातिशब्दैकशेषे सा जातीनां जातिर् इष्यते
शब्दजातय इत्य् अत्र तज्जातिः शब्दजातिषु ॥
या शब्दजातिः शब्देषु शब्देभ्यो भिन्नलक्षणा
जातिः सा शब्दजातित्वम् अव्यतिक्रम्य वर्तते ॥
अर्थजात्यभिधाने ऽपि सर्वे जात्यभिधायिनः
व्यापारलक्षणा यस्मात् पदार्थाः समवस्थिताः ॥
जातौ पदार्थे जातिर् वा विशेषो वापि जातिवत्
शब्दैर् अपेक्ष्यते यस्माद् अतस् ते जातिवाचिनः ॥
द्रव्यधर्मा पदार्थे तु द्रव्ये सर्वो ऽर्थ उच्यते
द्रव्यधर्माश्रयाद् द्रव्यम् अतः सर्वो ऽर्थ इष्यते ॥
अनुप्रवृत्तिधर्मो वा जातिः स्यात् सर्वजातिषु
व्यावृत्तिधर्मसामान्यं विशेषे जातिर् इष्यते ॥
संयोगिधर्मभेदेन देशे च परिकल्पिते
तेषु देशेषु सामान्यम् आकाशस्यापि विद्यते ॥
अदेशानां घटादीनां देशाः संबन्धिनो यथा
आकाशस्याप्य् अदेशस्य देशाः संबन्धिनस् तथा ॥
भिन्नवस्त्वाश्रया बुद्धिः संयोगिष्व् अनुवर्तते
समवायिषु भेदस्य ग्रहणं विनिवर्तते ॥
अतः संयोगिदेशानां गौणत्वं परिकल्प्यते
अविवेकात् प्रदेशेभ्यो मुख्यत्वं समवायिनाम् ॥
अनुप्रवृत्तिरूपा या प्रख्या ताम् आकृतिं विदुः
के चिद् व्यावृत्तिरूपां तु द्रव्यत्वेन प्रचक्षते ॥
भिन्ना इति परोपाधिर् अभिन्ना इति वा पुनः
भावात्मसु प्रपञ्चो ऽयं संसृष्टेष्व् एव जायते ॥
नैकत्वं नापि नानात्वं न सत्त्वम् न च नास्तिता
आत्मतत्त्वेषु भावानाम् असंसृष्टेषु विद्यते ॥
सर्वशक्त्यात्मभूतत्वं एकस्यैवेति निर्णये
भावानाम् आत्मभेदस्य कल्पना स्याद् अनर्थिका ॥
तस्माद् द्रव्यादयः सर्वाः शक्तयो भिन्नलक्षणाः
संसृष्टाः पुरुषार्थस्य साधिका न तु केवलाः ॥
यथैव चेन्द्रियादीनाम् आत्मभूता समग्रता
तथा संबन्धिसंबन्ध संसर्गे ऽपि प्रतीयते ॥
न तद् उत्पद्यते किं चिद् यस्य जातिर् न विद्यते
आत्माभिव्यक्तये जातिः कारणानां प्रयोजिका ॥
कारणेषु पदं कृत्वा नित्यानित्येषु जातयः
क्व चित् कार्येष्व् अभिव्यक्तिम् उपयान्ति पुनः पुनः ॥
निर्वर्त्त्यमानं यत् कर्म जातिस् तत्रापि साधनम्
स्वाश्रयस्याभिनिष्पत्त्यै सा क्रियाणां प्रयोजिका ॥
विधौ वा प्रतिषेधे वा ब्राह्मणत्वादि साधनम्
व्यक्त्याश्रितास्रिता जातेः संख्याजातिर् विशेषिका ॥
यथा जलादिभिर् व्यक्तं मुखम् एवाभिधीयते
तथा द्रव्यैर् अभिव्यक्ता जातिर् एवाभिधीयते ॥
यथेन्द्रियगतो भेद इन्द्रियग्रहणाद् ऋते
इन्द्रियार्थेष्व् अदृश्यो ऽपि ज्ञानभेदाय कल्पते ॥
तथात्मरूपग्रहणात् केषां चिद् व्यक्तयो विना
सामान्यज्ञानभेदानाम् उपयान्ति निमित्तताम् ॥
सत्यासत्यौ तु यौ भागौ प्रतिभावं व्यवस्थितौ
सत्यं यत् तत्र सा जातिर् असत्या व्यक्तयः स्मृताः ॥
संबन्धिभेदात् सत्तैव भिद्यमाना गवादिषु
जातिर् इत्य् उच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ॥
तां प्रातिपदिकार्थं च धात्वर्थं च प्रचक्षते
सा नित्या सा महान् आत्मा ताम् आहुस् त्वतलादयः ॥
प्राप्तक्रमा विशेषेषु क्रिया सैवाभिधीयते
क्रमरूपस्य संहारे तत् सत्त्वम् इति कथ्यते ॥
सैव भावविकारेषु षड् अवस्थाः प्रपद्यते
क्रमेण शक्तिभिः स्वाभिर् एवं प्रत्यवभासते ॥
आत्मभूतः क्रमो ऽप्य् अस्या यत्रेदं कालदर्शनम्
पौर्वापर्यादिरूपेण प्रविभक्तम् इव स्थितम् ॥
तिरोभावाभ्युपगमे भावानां सैव नास्तिता
लब्धक्रमे तिरोभावे नश्यतीति प्रतीयते ॥
पूर्वस्मात् प्रच्युता धर्माद् अप्राप्ता चोत्तरं पदम्
तदन्तराले भेदानाम् आश्रयाज् जन्म कथ्यते ॥
आश्रयः स्वात्ममात्रा वा भावा वा व्यतिरेकिनः
स्वशक्तयो वा सत्ताया भेददर्शनहेतवः ॥
पृथिव्यादिष्व् अभिव्यक्तौ न संस्थानम् अपेक्षते
अनुच्छिन्नाश्रयाज् जातिर् अनित्ये ऽप्य् आश्रये स्थिता ॥
अनुच्छेद्याश्रयाम् एके सर्वां जातिं प्रचक्षते
न यौगपद्यं प्रलये सर्वस्येति व्यवस्थिताः ॥
प्रकृतौ प्रविलीनेषु भेदेष्व् एकत्वदर्शिनाम्
द्रव्यसत्त्वं प्रपद्यन्ते स्वाश्रया एव जातयः ॥
ब्राह्मणत्वादयो भावाः सर्वप्राणिष्व् अवस्थिताः
अभिव्यक्ताः स्वकार्याणां साधका इत्य् अपि स्मृतिः ॥
चित्रादिष्व् अप्य् अभिव्यक्तिर् जातीनां कैश्चिद् इष्यते
प्राण्याश्रितास् तु ताः प्राप्तौ निमित्तं पुण्यपापयोः ॥
ज्ञानं त्व् अस्मद् विशिष्टानां तासु सर्वेन्द्रियम् विदुः
आभ्यासान् मणिरूप्यादि विशेषेष्व् इव तद्विदाम् ॥
जात्युत्पलादिगन्धादौ भेदतत्त्वं यद् आश्रितम्
तद् भावप्रत्ययैर् लोके ऽनित्यत्वान् नाभिधीयते ॥
अस्वशब्दाभिधानास् तु नरसिंहादिजातयः
सरूपावयवेवान्या तासु श्रुतिर् अवस्थिता ॥
जात्यवस्थापरिच्छेदे संख्या संख्यात्वम् एव वा
विप्रकर्षे ऽपि संसर्गाद् उपकाराय कल्पते ॥
लक्षणा शब्दसंस्कारे व्यापारः कार्यसिद्धये
संख्याकर्मादिशक्तीनां श्रुतिसाम्ये ऽपि दृश्यते ॥
न विना संख्यया कश् चित् सत्त्वभूतो ऽर्थ उच्यते
अतः सर्वस्य निर्देशे संख्या स्याद् अविवक्षिता ॥
एकत्वं वा बहुत्वं वा केषां चिद् अविवक्षितम्
तद् धि जात्यभिधानाय द्वित्वं तु स्याद् विवक्षितम् ॥
यद्य् एतौ व्याधितौ स्यातां देयं स्याद् इदम् औषधम्
इत्य् एवं लक्षणे ऽर्थस्य द्वित्वं स्याद् अविवक्षितम् ॥
एकादिशब्दवाच्यायाः कर्मस्व् अङ्गत्वम् इष्यते
संख्यायाः खनति द्वाभ्याम् इति रूपाद् धि साश्रिता ॥
यजेत पशुनेत्य् अत्र संस्कारस्यापि संभवे
यथा जातिस् तथैकत्वं साधनत्वेन गम्यते ॥
लिङ्गात् तु स्यात् द्वितीयादेस् तद् एकत्वं विवक्षितम्
एकार्थविषयत्वे च तल् लिङ्गं जातिसंख्ययोः ॥
अन्यत्राविहितस्यैव स विधिः प्रथमं पशोः
क्रियायाम् अङ्गभावश् च तत् त्व् एतस्माद् विवक्षितम् ॥
ग्रहास् त्व् अन्यत्र विहिता भिन्नसंख्याः पृथक् पृथक्
प्राजापत्या नवेत्य् एवम् आदिभेदसमन्विताः ॥
अङ्गत्वेन प्रतीतानां संमार्गे त्व् अङ्गिनां पुनः
निर्देशं प्रति या संख्या सा कथं स्याद् विवक्षिता ॥
नान्यत्र विधिर् अस्तीति संस्कारो नापि चाङ्गिता
हेतुः संख्याविवक्षाया यत्नात् सा हि विवक्षिता ॥
संमार्जने विशेषश् च न ग्रहे क्व चिद् आश्रितः
विहितास् ते च संस्कार्याः सर्वेषाम् आश्रयस् ततः ॥
प्रत्याश्रयं समाप्तायां जाताव् एकेन चेत् क्रिया
पशुना न प्रकल्पेत तत् स्याद् एव प्रकल्पनम् ॥
एकेन च प्रसिद्धायां क्रियायां यदि संभवात्
पश्वन्तरम् उपादेयम् उपादानम् अनर्थकम् ॥
यथैवाहितगर्भायां गर्भाधानाम् अनर्थकम्
तथैकेन प्रसिद्धायां पश्वन्तरम् अनर्थकम् ॥
तावतार्थस्य सिद्धत्वाद् एकत्वस्याव्यतिक्रमम्
के चिद् इच्छन्ति न त्व् अत्र संख्याङ्गत्वेन गृह्यते ॥
द्वितीयादि तु यल् लिङ्गम् उक्तन्यायानुवादि तत्
न संख्या साधनत्वेन जातिवत् तेन गम्यते ॥
अन्वयव्यतिरेकाभ्यां संख्याभ्युपगमे सति
युक्तं यत् साधनत्वं स्यान् न त्व् अन्यार्थोपलक्षणं ॥
साधनत्वे पदार्थस्य सामर्थ्यं न प्रहीयते
संख्याव्यापारधर्मो ऽतस् तेन लिङ्गेन गम्यते ॥
अपूर्वस्य विधेयत्वात् प्राधान्यम् अवसीयते
विहितस्य परार्थत्वाच् छेशभावः प्रतीयते ॥
संमार्गस्य विधेयत्वात् अन्यत्र विहिते ग्रहे
विधिवाक्ये श्रुता संख्या लक्षणायां न बाध्यते ॥
विधिवाक्यान्तरे संख्या पशोर् नास्ति विरोधिनी
तस्मात् सगुण एवासौ सहैकत्वेन गम्यते ॥
निर्ज्ञातद्रव्यसंबन्धे यः कर्मण्य् उपदिश्यते
गुनस् तेनार्थिता तस्य द्रव्येणेव प्रतीयते ॥
कश्चिद् एव गुणो द्रव्ये यथा सामर्थ्यलक्षणः
आधारो ऽपि गुणस्यैवं प्राप्तः सामर्थ्यलक्षणः ॥
तयोस् तु पृथगर्थित्वे संबन्धो यः प्रतीयते
न तस्मिन्न् उपघातो ऽस्ति कल्प्यम् अन्यन् न चाश्रुतम् ॥
क्रियया यो ऽभिसंबन्धः स श्रुतिप्रापितस् तयोः
आश्रयाश्रयिणोर् वाक्यान् नियमस् त्व् अवतिष्ठते ॥
तत्र द्रव्यगुणाभावे प्रत्येकं स्याद् विकल्पनम्
श्रुतिप्राप्तो हि संबन्धो बलवान् वाक्यलक्षणात् ॥
यदा तु जातिः शक्तिर् वा क्रियां प्रत्य् उपदिश्यते
सामर्थ्यात् संनिधीयेते तत्र द्रव्यगुणौ तदा ॥
जातीनां च गुणानां च तुल्ये ऽङ्गत्वे क्रियां प्रति
गुणाः प्रतिनिधीयन्ते छागादीनां न जातयः ॥
व्यक्तिशक्तेः समासन्ना जातयो न तथा गुणाः
साक्षाद् द्रव्यं क्रियायोगि गुणस् तस्माद् विकल्पते ॥
साम्येनान्यतराभावे विकल्पः कैश्चिद् इष्यते
अतद्गुणो ऽतश् छागः स्यान् मेषो वा तद्गुणो भवेत् ॥
जातेर् आश्रितसंख्यायाः प्रवृत्तिर् उपलभ्यते
संख्याविशेषम् उत्सृज्य क्वचित् सैव प्रवर्तते ॥
पराङ्गभूतं सामान्यं युज्यते द्रव्यसंख्यया
स्वार्थं प्रवर्तमानं तु न संख्याम् अवलम्बते ॥
यजेत पशुनेत्य् अत्र यज्यर्थायां पशुश्रुतौ
कृतार्थैकेन पशुना प्रधानं भवति क्रिया ॥
यावतां संभवो यस्य स कुर्यात् तावतां यदि
आलम्भनं गुणैस् तेन प्रधानं स्यात् प्रयोजितम् ॥
संमृज्यमानतन्त्रे तु ग्रहे यत्र क्रियाश्रुतिः
संख्याविशेषग्रहणं नैव तत्राद्रियामहे ॥
शिष्यमाणपरे वाक्ये यद् एकग्रहणं कृतम्
शेषे विशिष्टसंख्ये ऽपि व्यक्तं तल् लिङ्गदर्शनम् ॥
समासप्रत्ययविधौ यथा निपतिता श्रुतिः
गुणानां परतन्त्राणां न्यायेनैवोपपद्यते ॥
गुणे ऽपि नाङ्गीक्रियते प्रधानान्तरसिद्धये
संख्या कर्ता तथा कर्मण्य् अविशिष्टः प्रतीयते ॥
यस्यान्यस्य प्रसक्तस्य नियमार्था पुनः श्रुतिः
निवृत्तौ चरितार्थत्वात् संख्या तत्राविवक्षिता ॥
सरूपसमुदायात् तु विभक्तिर् या विधीयते
एकस् तत्रार्थवान् सिद्धः समुदायस्य वाचकः ॥
प्रत्ययस्य प्रधानस्य समासस्यापि वा विधौ
सिद्धः संख्याविवक्षायां सर्वथानुग्रहो गुणे ॥
अभेदरूपं सादृश्यम् आत्मभूताश् च शक्तयः
जातिपर्यायवाचित्वम् एषाम् अप्य् उपवर्ण्यते ॥
दण्डोपादित्सया दण्डं यद्य् अपि प्रतिपद्यते
न तस्माद् एव सामर्थ्यात् स दण्डीति प्रतीयते ॥
नेच्छानिमित्ताद् इच्छावान् इति ज्ञानम् प्रवर्तते
तस्मात् सत्य् अपि सामर्थ्ये बुद्धिर् अर्थान्तराश्रया ॥
स्वभावो व्यपदेश्यो वा सामर्थ्यं वावतिष्ठते
सर्वस्यान्ते यतस् तस्माद् व्यवहारो न कल्पते ॥
यदा भेदान् परित्यज्य बुद्ध्यैक इव गृह्यते
व्यक्त्यात्मैव तदा तत्र बुद्धिर् एका प्रवर्तते ॥
भेदरूपैर् अनुस्यूतं यदैकम् इव मन्यते
समूहावग्रहा बुद्धिर् बहुभ्यो जायते तदा ॥
*यदा सहविवक्षायाम् एकबुद्धिनिबन्धनः
बद्धावयवविच्छेदः समुदायो ऽभिधीयते ॥
*प्रतिक्रियं समाप्तत्वाद् एको भेदसमन्वितः
द्वन्द्वे द्वित्वादिभेदेन तदासाव् उपगम्यते ॥
सकृत्प्रवृत्ताव् एकत्वम् आवृत्तौ सदृशात्मताम्
भिन्नात्मकानां व्यक्तीनां भेदापोहात् प्रपद्यते ॥
अनुप्रवृत्तेति यथा भिन्ना बुद्धिः प्रतीयते
अर्थो व्यावृत्तरूपो ऽपि तथा तत्त्वेन गृह्यते ॥
सरूपाणां च सर्वेषां न भेदोपनिपातिनः
विद्यन्ते वाचकाः शब्दा नापि भेदो ऽवधार्यते ॥
ज्ञानशब्दार्थविषया विशेषा ये व्यवस्थिताः
तेषां दुरवधारत्वाज् ज्ञानाद्येकत्वदर्शनम् ॥
ज्ञानेष्व् अपि यथार्थेषु तथा सर्वेषु जातयः
संसर्गदर्शने सन्ति ताश् चार्थस्य प्रसाधिकाः ॥
ज्ञेयस्थम् एव सामान्यं ज्ञानानाम् उपकारकम्
न जातु ज्ञेयवज् ज्ञानं पररूपेण रूप्यते ॥
यथा ज्योतिः प्रकाशेन नान्येनाभिप्रकाश्यते
ज्ञानाकारस् तथान्येन न ज्ञानेनोपगृह्यते ॥
*न चात्मसमवेतस्य सामान्यस्यावधारणे
ज्ञानशक्तिः समर्था स्याज् ज्ञातस्यान्यस्य वस्तुनः ॥
*अयौगपद्ये ज्ञानानाम् अस्येत्य् अग्रहणं न च
यथोपलब्धि स्मरणम् उपलब्धे च जायते ॥
घटज्ञानम् इति ज्ञानं घटज्ञानविलक्षणम्
घट इत्य् अपि यज् ज्ञानं विषयोपनिपाति तत् ॥
यतो विषयरूपेण ज्ञानरूपं न गृह्यते
अर्थरूपविविक्तं च स्वरूपं नावधार्यते ॥
मूल पाठ: Vākyapadīya · Data entry Yves Ramseier · GRETIL (Göttingen) · CC BY-NC-SA 4.0