वाक्यपदीय · अध्याय 2
आख्यातं शब्दसंघातो जातिः संघातवर्तिनी
एको ऽनवयवः शब्दः क्रमो बुद्ध्यनुसंहृतिः ॥
पदम् आद्यं पृथक् सर्वं पदं सापेक्षम् इत्य् अपि
वाक्यं प्रति मतिर् भिन्ना बहुधा न्यायदर्शिनाम् ॥
निघातादिव्यवस्थार्थं शास्त्रे यत् परिभाषितम्
साकाङ्क्षावयवं तेन न सर्वं तुल्यलक्षणं ॥
साकाङ्क्षावयवं भेदे परानाकाङ्क्षशब्दकम्
कर्मप्रधानं गुणवद् एकार्थं वाक्यम् उच्यते ॥
संबोधनपदं यच् च तत् क्रियाया विशेषकम्
तथा तिङन्तं तत्राहुस् तिङन्तस्य विशेषकम् ॥
यथानेकम् अपि क्त्वान्तं तिङन्तस्य विशेषकम्
तथा तिङन्तं तत्राहुस् तिङन्तस्य विशेषकम् ॥
यथैक एव सर्वार्थ प्रकाशः प्रविभज्यते
दृश्यभेदानुकारेण वाक्यार्थावगमस् तथा ॥
चित्रस्यैकस्य रूपस्य यथा भेदनिदर्शनैः
नीलादिभिः समाख्यानं क्रियते भिन्नलक्षणैः ॥
तथैवैकस्य वाक्यस्य निराकाङ्क्षस्य सर्वतः
शब्दान्तरैः समाख्यानं साकाङ्क्षैर् अनुगम्यते ॥
यथा पदे विभज्यन्ते प्रकृतिप्रत्ययादयः
अपोद्धारस् तथा वाक्ये पदानाम् उपपद्यते ॥
वर्णान्तरसरूपत्वं वर्णभागेषु दृष्यते
पदान्तरसरूपाश् च पदभागा इव स्थिताः ॥
भागैर् अनर्थकैर् युक्ता वृषभोदकयावकाः
अन्वयव्यतिरेकौ तु व्यवहारनिबन्धनम् ॥
शब्दस्य न विभागो ऽस्ति कुतो ऽर्थस्य भविष्यति
विभागैः प्रक्रियाभेदम् अविद्वान् प्रतिपद्यते ॥
ब्राह्मणार्थो यथा नास्ति कश् चिद् ब्राह्मणकम्बले
देवदत्तादयो वाक्ये थतैव स्युर् अनर्थकाः ॥
सामान्यार्थस् तिरोभूतो न विशेषे ऽवतिष्ठते
उपात्तस्य कुतस् त्यागो निवृत्तः क्वावतिष्ठताम् ॥
अशाब्दो यदि वाक्यार्थः पदार्थो ऽपि तथा भवेत्
एवं सति च संबन्धः शब्दस्यार्थेन हीयते ॥
विशेशशब्दाः केषां चित् सामान्यप्रतिरूपकाः
शब्दान्तराभिसंबन्धाद् व्यज्यन्ते प्रतिपत्तृषु ॥
तेषां तु कृत्स्नो वाक्यार्थः प्रतिभेदं समाप्यते
व्यक्तोपव्यञ्जना सिद्धिर् अर्थस्य प्रतिपतृषु ॥
स व्यक्तः क्रमवाञ् छब्द उपांशु यम् अधीयते
अक्रमस् तु वितत्येव बुद्धिर् यत्रावतिष्ठते ॥
यथोत्क्षेपविशेषे ऽपि कर्मभेदो न गृह्यते
आवृत्तौ व्यज्यते जातिः कर्मभिर् भ्रमणादिभिः ॥
वर्णवाक्यपदेष्व् एवं तुल्योपव्यञ्जना श्रुतिः
अत्यन्तभेदे तत्त्वस्य सरूपेव प्रतीयते ॥
नित्येषु च कुतः पूर्वं परं वा परमार्थतः
एकस्यैव तु सा शक्तिर् यद् एवम् अवभासते ॥
चिरं क्षिप्रम् इति ज्ञाने कालभेदाद् ऋते यथा
भिन्नकाले प्रकाशेते स धर्मो ह्रस्वदीर्घयोः ॥
न नित्यः क्रममात्राभिः कालो भेदम् इहार्हति
व्यावर्तिनीनां मात्राणाम् अभावे कीदृशः क्रमः ॥
ताभ्यो या जायते बुद्धिर् एका सा भागवर्जिता
सा हि स्वशक्त्या भिन्नेव क्रमप्रत्यवमर्शिनी ॥
क्रमोल्लेखानुषङ्गेण तस्यां यद् बीजम् आहितम्
तत्त्वनानात्वयोस् तस्य निरुक्तिर् नावतिष्ठते ॥
भावनासमये त्व् एतत् क्रमसामर्थ्यम् अक्रमम्
व्यावृत्तभेदो येनार्थो भेदवान् उपलभ्यते ॥
पदानि वाक्ये तान्य् एव वर्णास् ते च पदे यदि
वर्णेषु वर्णभागानां भेदः स्यात् परमाणुवत् ॥
भागानाम् अनुपश्लेषान् न वर्णो न पदं भवेत्
तेषाम् अव्यपदेश्यत्वात् किम् अन्यद् व्यपदिश्यताम् ॥
यद् अन्तःशब्दतत्त्वं तु भागैर् एकं प्रकाशितम्
तम् आहुर् अपरे शब्दं तस्य वाक्ये तथैकताम् ॥
अर्थभागैस् तथा तेषाम् अन्तरो ऽर्थः प्रकाश्यते
एकस्यैवात्मनो भेदौ शब्दार्थाव् अपृथक्स्थितौ ॥
प्रकाशकप्रकाश्यत्वं कार्यकारणरूपता
अन्तर्मात्रात्मनस् तस्य शब्दतत्त्वस्य सर्वदा ॥
तस्यैवास्तित्वनास्तित्वे सामर्थ्ये समवस्थिते
अक्रमे क्रमनिर्भासे व्यवहारनिबन्धने ॥
संप्रत्ययप्रमाणत्वात् पदार्थास्तित्वकल्पने
पदार्थाभ्युच्चये त्यागाद् आनर्थक्यं प्रसज्यते ॥
राजशब्देन राजार्थो भिन्नरूपेण गम्यते
वृत्ताव् आख्यातसदृशं पदम् अन्यत् प्रयुज्यते ॥
यथाश्वकर्ण इत्य् उक्ते विनैवाश्वेन गम्यते
कश् चिद् एव विशिष्टो ऽर्थः सर्वेषु प्रत्ययस् तथा ॥
वाक्येषु अर्थान्तरगतः सादृश्यपरिकल्पने
केषां चित् रूढिशब्दत्वं शास्त्र एवानुगम्यते ॥
उपादायापि ये हेयास् तान् उपायान् प्रचक्षते
उपायानां च नियमो नावश्यम् अवतिष्ठते ॥
अर्थं कथं चित् पुरुषः कश् चित् संप्रतिपद्यते
संसृष्टा वा विभक्ता चा भेदा वाक्यनिबन्धनाः ॥
सो ऽयम् इत्य् अभिसंबन्धो बुद्ध्या प्रक्रम्यते यदा
वाक्यार्थस्य तदैको ऽपि वर्णः प्रत्यायकः क्व चित् ॥
केवलेन पदेनार्थो यावान् एवाभिधीयते
वाक्यस्थं तावतो ऽर्थस्य तद् आहुर् अभिधायकम् ॥
संबन्धे सति यत् त्व् अन्यद् आधिक्यम् उपजायते
वाक्यार्तम् एव तं प्राहुर् अनेकपदसंश्रयम् ॥
स त्व् अनेकपदस्थो ऽपि प्रतिभेदं समाप्यते
जातिवत् समुदाये ऽपि संख्यावत् कल्प्यते ऽपरैः ॥
सर्वभेदानुगुण्यं तु सामान्यम् अपरे विदुः
तद् अर्थान्तरसंसर्गाद् भजते भेदरूपताम् ॥
भेदान् आकाङ्क्षतस् तस्य या परिप्लवमामता
अवच्छिनत्ति संबन्धस् तां विशेषे निवेशयन् ॥
कार्यानुमेयः संबन्धो रूपं तस्य न विद्यते
असत्त्वभूतम् अत्यन्तम् अतस् तं प्रतिजानते ॥
नियतं साधने साध्यं क्रिया नियतसाधना
स संनिधानमात्रेण नियमः संप्रकाशते ॥
गुणभावेन साकाङ्क्षं तत्र नाम प्रवर्तते
साध्यत्वेन निमित्तानि क्रियापदम् अपेक्षते ॥
सन्त एव विशेषा ये पदार्थेष्व् अविभाविताः
ते क्रमाद् अनुगम्यन्ते न वाक्यम् अभिधायकम् ॥
शब्दानां क्रममात्रे च नान्यः शब्दो ऽस्ति वाचकः
क्रमो हि धर्मः कालस्य तेन वाक्यं न विद्यते ॥
ये च संभविनो भेदाः पदार्थेष्व् अविभाविताः
ते संनिधाने व्यज्यन्ते न तु वर्णेष्व् अयं क्रमः ॥
वर्णानां च पदानां च क्रममात्रनिवेशिनी
पदाख्या वाक्यसंज्ञा च शब्दत्वं नेष्यते तयोः ॥
समाने ऽपि तु शब्दत्वे दृष्टः संप्रत्ययः पदात्
प्रतिवर्णं त्व् असौ नास्ति पदस्यार्थम् अतो विदुः ॥
यथा सावयवा वर्णा विना वाच्येन केन चित्
अर्थवन्तः समुदिता वाक्यम् अप्य् एवम् इष्यते ॥
अनर्थकान्य् अपायत्वात् पदार्थेनार्थवन्ति वा
क्रमेणोच्चरितान्य् आहुर् वाक्यार्थं भिन्नलक्षणम् ॥
नित्यत्वे समुदायानां जातेर् वा परिकल्पने
एकस्यैकार्थताम् आहुर् वाक्यस्याव्यभिचारिणीम् ॥
अभेदपूर्वकाभेदाः कल्पिता वाक्यवादिभिः
भेदपूर्वान् अभेदांस् तु मन्यन्ते पददर्शिनः ॥
पदप्रकृतिभावश् च वृत्तिभेदेन वर्ण्यते
पदानां संहिता योनिः संहिता वा पदाश्रया ॥
पदाम्नायश् च यद्य् अन्यः संहिताया निदर्शकः
नित्यस् तत्र कथं कार्यं पदं लक्षणदर्शनात् ॥
प्रतिवर्णम् असंवेद्यः पदार्थप्रत्ययो यथा
पदेश्व् एवम् असंवेद्यं वाक्यार्थस्य निरूपणम् ॥
वाक्यार्थः संनिविशते पदेषु सहवृत्तिषु
यथा तथैव वर्णेषु पदार्थः सहवृत्तिषु ॥
सूक्ष्मं ग्राह्यं यथान्येन संसृष्टं सह गृह्यते
वर्णो ऽप्य् अन्येन वर्णेन संबद्धो वाचकस् तथा ॥
पदस्योच्चारणाद् अर्थो यथा कश् चिन् निरूप्यते
वर्णानाम् अपि सांनिध्यात् तथा सो ऽर्थः प्रतीयते ॥
प्राप्तस्य यस्य सामर्थ्यान् नियमार्था पुनः श्रुतिः
तेनात्यन्तं विशेषेण सामान्यं यदि बाध्यते ॥
यजेतेति ततो द्रव्यं प्राप्तं सामर्थ्यलक्षणम्
व्रीहिश्रुत्या निवर्तेत न स्यात् प्रतिनिधिस् तथा ॥
तस्माद् व्रीहित्वम् अधिकं व्रीहिशब्दः प्रकल्पयेत्
द्रव्यत्वम् अविरुद्धत्वात् प्राप्त्यर्थः सन् न बाधते ॥
तेन चापि व्यवच्छिन्ने द्रव्यत्वे सहचारिणि
असंभवाद् विशेषाणां तत्रान्येषाम् अदर्शनम् ॥
न च सामान्यवत् सर्वे क्रियाशब्देन लक्षिताः
विशेषा न हि सर्वेषां सतां शब्दो ऽभिधायकः ॥
शुक्लादयो गुणाः सन्तो यथा तत्राविवक्षिताः
तथाविवक्षा भेदानां द्रव्यत्वसहचारिणाम् ॥
असंनिधौ प्रतिनिधिर् मा भून् नित्यस्य कर्मणः
काम्यस्य वा प्रवृत्तस्य लोप इत्य् उपपद्यते ॥
विशिष्टैव क्रिया येन वाक्यार्थः परिकल्प्यते
द्रव्याभावे प्रतिनिधौ तस्य तत् स्यात् क्रियान्तरम् ॥
निर्ज्ञातार्थं पदं यच् च तदर्थे प्रतिपादिते
पिकादि यद् अविज्ञातं तत् किम् इत्य् अनुयुज्यते ॥
सामर्थ्यप्रापितं यच् च व्यक्त्यर्थम् अनुषज्यते
श्रुतिर् एवानुषङ्गेण बाधिका लिङ्गवाक्ययोः ॥
अप्राप्तो यस् तु शुक्लादिः संनिधानेन गम्यते
स यत्नप्रापितो वाक्ये श्रुतिधर्मविलक्षणः ॥
अभिन्नम् एव वाक्यं तु यद्य् अभिन्नार्थम् इष्यते
तत् सर्वं श्रुतिभूतत्वान् न श्रुत्यैव विरोत्स्यते ॥
वाक्यानां समुदायश् च य एकार्थप्रसिद्धये
साकाङ्क्षावयवस् तत्र वाक्यार्थो ऽपि न विद्यते ॥
प्रासङ्गिकम् इदं कार्यम् इदं तन्त्रेण लभ्यते
इदम् आवृत्तिभेदाभ्याम् अत्र बाधसमुच्चयौ ॥
ऊहो ऽस्मिन् विषये न्याय्यः संबन्धो ऽस्य न बाध्यते
सामान्यस्यातिदेशो ऽयं विशेषो ऽत्रातिदिश्यते ॥
अर्थित्वम् अत्र सामर्थ्यम् अस्मिन्न् अर्थो न भिद्यते
शास्त्रात् प्राप्ताधिकारो ऽयं व्युदासो ऽस्य क्रियान्तरे ॥
इयं श्रुत्या क्रमप्राप्तिर् इयम् उच्चारणाद् इति
क्रमो ऽयम् अत्र बलवान् अस्मिंस् तु न विवक्षितः ॥
इदं पराङ्गैः संबद्धम् अङ्गानाम् अप्रयोजकम्
प्रयोजकम् इदं तेषाम् अत्रेदं नान्तरीयकम् ॥
इदं प्रधानं शेषो ऽयं विनियोगक्रमस् त्व् अयम्
साक्षाद् अस्योपकारीदम् इदम् आराद् विशेषकम् ॥
शक्तिव्यापारभेदो ऽस्मिन् फलम् अत्र तु भिद्यते
संबन्धाज् जातभेदो ऽयं भेदस् तत्राविवक्षितः ॥
प्रसज्यप्रतिषेधो ऽयं पर्युदासो ऽयम् अत्र तु
इदं गौणम् इदं मुख्यं व्यापीदं गुरु लघ्व् इदम् ॥
भेदेनाङ्गाङ्गिभावो ऽस्य बहुभेदं विकल्प्यते
इदं नियम्यते ऽस्यात्र योग्यत्वम् उपजायते ॥
अस्य वाक्यान्तरे दृष्टाल् लिङ्गाद् भेदो ऽनुमीयते
अयं शब्दैर् अपोद्धृत्य पदार्थः प्रविभज्यते ॥
इति वाक्येषु ये धर्माः पदार्थोपनिबन्धनाः
सर्वे तेन प्रकल्पेरन् पदं चेत् स्यद् अवाचकम् ॥
अविभक्ते ऽपि वाक्यार्थे शक्तिभेदाद् अपोद्धृते
वाक्यान्तरविभागेन यथोक्तं न विरुध्यते ॥
यथैवैकस्य गन्धस्य भेदेन परिकल्पना
पुष्पादिषु तथा वाक्ये ऽप्य् अर्थभेदो ऽभिधीयते ॥
गवये नरसिंहे वाप्य् एकज्ञानावृते यथा
भागं जात्यन्तरस्यैव सदृशं प्रतिपद्यते ॥
अप्रसिद्धं तु यं भागम् अदृष्टम् अनुपश्यति
तावत्य् असंविदं मूढः सर्वत्र प्रतिपद्यते ॥
तथा पिकादियोगेन वाक्ये ऽत्यन्तविलक्षणे
सदृशस्येव संज्ञानम् असतो ऽर्थस्य मन्यते ॥
एकस्य भागे सादृश्यं भागे भेदश् च लक्ष्यते
निर्भागस्य प्रकाशस्य निर्भागेणैव चेतसा ॥
तथैव भागे सादृश्यं भागे भेदो ऽवसीयते
भागाभावे ऽपि वाक्यानाम् अत्यन्तं भिन्नधर्मणाम् ॥
रूपनाशे पदानां स्यात् कथं चावधिकल्पना
अगृहीतावधौ शब्दे कथं चार्थो विविच्यते ॥
संसर्ग इव रूपाणां शब्दे ऽन्यत्र व्यवस्थितः
नानारूपेषु तद्रूपं तन्त्रेणापरम् इष्यते ॥
तस्मिन्न् अभेदे भेदानां संसर्ग इव वर्तते
रूपं रूपान्तरात् तस्माद् अनन्यत् प्रविभज्यते ॥
शास्त्रे प्रत्यायकस्यापि क्वचिद् एकत्वम् आश्रितम्
प्रत्याय्येन क्वचिद् भेदो ग्रहणग्राह्ययोः स्थितः ॥
ऊ इत्य् अभेदम् आश्रित्य यथासंख्यं प्रकल्पितम्
लृलुटोर् ग्रहणे भेदो ग्राह्याभ्यां परिकल्पितः ॥
यस्येत्य् एतद् अणो रूपं संज्ञिनाम् अभिधायकम्
न हि प्रतीयमानेन ग्रहणस्यास्ति संभवः ॥
ऊ इत्य् एतद् अभिन्नं च भिन्नवाक्यनिबन्धनम्
भेदेन ग्रहणं यस्य पररूपम् इव द्वयोः ॥
प्लुतस्याङ्गविवृद्धिं च समाहारम् अचोस् तथा
व्युदस्यता पुनर् भेदः शब्देष्व् अत्यन्तम् आश्रितः ॥
अर्धर्चादिषु शब्देषु रूपभेदः क्रमाद् यथा
तन्त्रात् तथैकशब्दत्वे भिन्नानां श्रुतिर् अन्यथा ॥
संहिताविषये वर्णाः स्वरूपेणाविकारिणः
शब्दान्तरत्वं यान्तीव शक्त्यन्तरपरिग्रहात् ॥
इन्द्रियादिविकारेण दृष्टं ग्राह्येषु वस्तुषु
आत्मत्यागाद् ऋते भिन्नं ग्रहणं स क्रमः श्रुतौ ॥
अभिधानक्रियाभेदाच् छब्देष्व् अविकृतेष्व् अपि
रूपम् अत्यन्तभेदेन तद् एवैकं प्रकाशते ॥
ऋचो वा गीतिमात्रं वा साम द्रव्यान्तरं न तु
गीतिभेदात् तु गृह्यन्ते ता एव विकृता ऋचः ॥
उपायाच् छ्रुतिसंहारे भिन्नानाम् एकशेषिणाम्
तन्त्रेणोच्चारणे तेषां शास्त्रे साधुत्वम् उच्यते ॥
परिगृह्य श्रुतिं चैकां रूपभेदवताम् अपि
तन्त्रेणोच्चारणं कार्यम् अन्यथा ते न साधवः ॥
सरूपाणां च वाक्यानां शास्त्रेणाप्रतिपादितम्
तन्त्रेणोच्चारणाद् एकं रूपं साधूपलभ्यते ॥
एकस्यानेकरूपत्वं नालिकादिपरिग्रहात्
यथा तथैव तन्त्रात् स्याद् बहूनाम् एकरूपता ॥
यथा पदसरूपाणां वाक्यानां संभवः पृथक्
तथा वाक्यान्तराभावे स्याद् एषां पृथगर्थता ॥
अभिधेयः पदस्यार्थो वाक्यस्यार्थः प्रयोजनम्
यस्य तस्य न संबन्धो वाक्यानाम् उपपद्यते ॥
तत्र क्रियापदान्य् एव व्यपेक्षन्ते परस्परम्
क्रियापदानुषक्तस् तु संबन्धो ऽथ प्रतीयते ॥
आवृत्तिर् अनुवादो वा पदार्थव्यक्तिकल्पने
प्रत्येकं तु समाप्तो ऽर्थः सहभूतेषु वर्तते ॥
अविकल्पितवाक्यार्थे विकल्पा भावनाश्रयाः
अत्राधिकरणे वादाः पूर्वेषां बहुधा मताः ॥
अभ्यासात् प्रतिभाहेतुः सर्वः शब्दो ऽपरैः स्मृतः
बालानां च तिरश्चां च यथार्थप्रतिपादने ॥
अनागमश् च सो ऽभ्यासः समयः कैश् चिद् इष्यते
अनन्तरम् इदं कार्यम् अस्माद् इत्य् उपदर्शकः ॥
अस्त्य् अर्थः सर्वशब्दानां इति प्रत्याय्यलक्षणम्
अपूर्वदेवतास्वर्गैः समम् आहुर् गवादिषु ॥
प्रयोगदर्शनाभ्यासाद् आकारावग्रहस् तु यः
न स शब्दस्य विषयः स हि यत्नान्तराश्रयः ॥
के चिद् भेदाः प्रकाश्यन्ते शब्दैस् तदभिधायिभिः
अनुनिष्पादिनः कांश् चिच् छब्दार्थान् इति मन्यते ॥
जातेः प्रत्यायके शब्दे या व्यक्तिर् अनुषङ्गिणी
न तद्व्यक्तिगतान् भेदाञ् जातिशब्दो ऽवलम्बते ॥
घटादीनां न चाकारान् प्रत्याययति वाचकः
वस्तुमात्रनिवेशित्वात् तद्गतिर् नान्तरीयका ॥
क्रिया विना प्रयोगेण न दृष्टा शब्दचोदिता
प्रयोगस् त्व् अनुनिष्पादी शब्दार्थ इति गम्यते ॥
नियतास् तु प्रयोगा ये नियतं यच् च साधनम्
तेषां शब्दाभिधेयत्वम् अपरैर् अनुगम्यते ॥
समुदायो ऽभिधेयो वाप्य् अविकल्पसमुच्चयः
असत्यो वापि संसर्गः शब्दार्थः कैश् चिद् इष्यते ॥
असत्योपाधि यत् सत्यं तद् वा शब्दनिबन्धनाम्
शब्दो वाप्य् अभिजल्पत्वम् आगतो याति वाच्यताम् ॥
सो ऽयम् इत्य् अभिसंबन्धाद् रूपम् एकीकृतं यता
शब्दस्यार्थेन तं शब्दम् अभिजल्पं प्रचक्षते ॥
तयोर् अपृथगात्मत्वे रूढिर् अव्यभिचारिणी
किं चिद् एव क्व चिद् रूपं प्राधान्येनावतिष्ठते ॥
लोके ऽर्थरूपतां शब्दः प्रतिपन्नः प्रवर्तते
शास्त्रे तूभयरूपत्वं प्रविभक्तं विवक्षया ॥
अशक्तेः सर्वशक्तेर् वा शब्दैर् एव प्रकल्पिता
एकस्यार्थस्य नियता क्रियादिपरिकल्पना ॥
यो वार्थो बुद्धिविषयो बाह्यवस्तुनिबन्धनः
स बाह्यं वस्त्व् इति ज्ञातः शब्दार्थ इति गम्यते ॥
आकारवन्तः संवेद्या व्यक्तिस्मृतिनिबन्धनाः
एते प्रत्यवभासन्ते संविन्ंआत्रं त्व् अतो ऽन्यथा ॥
यथेन्द्रियं संनिपतद् वैचित्रेणोपदर्शकं
तथैव शब्दाद् अर्थस्य प्रतिपत्तिर् अनेकधा ॥
वक्त्रान्यथैव प्रक्रान्तो भिन्नेषु प्रतिपत्तृषु
स्वप्रत्ययानुकारेण शब्दार्थः प्रविभज्यते ॥
एकस्मिन्न् अपि दृश्ये ऽर्थे दर्शनं भिद्यते पृथक्
कालान्तरेण चैको ऽपि तं पश्यत्य् अन्यथा पुनः ॥
एकस्यापि च शब्दस्य निमित्तैर् अव्यवस्थितैः
एकेन बहुभिश् चार्थो बहुधा परिकल्प्यते ॥
तस्माद् अदृष्टतत्त्वानां सापराधं बहुच्छलं
दर्शनं वचनं वापि नित्यम् एवानवस्थितम् ॥
ऋषीणां दर्शनं यच् च तत्त्वे किं चिद् अवस्थितम्
न तेन व्यवहारो ऽस्ति न तच् छब्दनिबन्धनं ॥
तलवद् दृश्यते व्योम खद्योतो हव्यवाड् इव
नैव चास्ति तलं व्योम्नि न खद्योते हुताशनः ॥
तस्मात् प्रत्यक्षम् अप्य् अर्थं विद्वान् ईक्षेत युक्तितः
न दर्शनस्य प्रामाण्याद् दृश्यम् अर्थं प्रकल्पयेत् ॥
असमाख्येयतत्त्वानाम् अर्थानां लौकिकैर् यथा
व्यवहारे समाख्यानं तत् प्रज्ञो न विकल्पयेत् ॥
विच्छेदग्रहणे ऽर्थानां प्रतिभान्यैव जायते
वाक्यार्थ इति ताम् आहुः पदार्थैर् उपपादिताम् ॥
इदं तद् इति सान्येषाम् अनाक्येया कथं चन
प्रत्यात्मवृत्ति सिद्धा सा कर्त्रापि न निरूप्यते ॥
उपश्लेषम् इवार्थानां सा करोत्य् अविचारिता
सार्वरूप्यम् इवापन्ना विषयत्वेन वर्तते ॥
साक्शाच् छब्देन जनितां भावनानुगमेन वा
इतिकर्तव्यतायां तां न कश् चिद् अतिवर्तते ॥
प्रमाणत्वेन तां लोकः सर्वः समनुगच्छति
समारम्भाः प्रतायन्ते तिरश्चाम् अपि तद्वशात् ॥
यथा द्रव्यविशेषाणां परिपाकैर् अयत्नजाः
मदादिशक्तयो दृष्टाः प्रतिभास् तद्वतां तथा ॥
स्वरवृत्तिं विकुरुते मधौ पुंस्कोकिलस्य कः
जन्त्वादयः कुलायादि करणे शिक्षिताः कथम् ॥
आहारप्रीत्यपद्वेष प्लवनादिक्रियासु कः
जात्यन्वयप्रसिद्धासु प्रयोक्ता मृगपक्षिणाम् ॥
भावनानुगताद् एतद् आगमाद् एव जायते
आसत्तिविप्रकर्षाभ्याम् आगमस् तु विशिष्यते ॥
स्वभाववरणाभास योगादृष्टोपपादिताम्
विशिष्टोपहितां चेति प्रतिभां षड्विधां विदुः ॥
यथा संयोगिभिर् द्रव्यैर् लक्षिते ऽर्थे प्रयुज्यते
गोशब्दो न त्व् असौ तेषां विशेशाणां प्रकाशकः ॥
आकारवर्णावयवैः संसृष्टेषु गवादिषु
शब्दः प्रवर्तमानो ऽपि न तान् अङ्गीकरोत्य् असौ ॥
संस्थानवर्णावयवैर् विशिष्टे ऽर्थे प्रयुज्यते
शब्दो न तस्यावयवे प्रवृत्तिर् उपलभ्यते ॥
दुर्लभं कस्य चिल् लोके सर्वावयवदर्शनं
कैश् चित् त्व् अवयवैर् दृष्टैर् अर्थः कृत्सो ऽनुमीयते ॥
तथा जात्युत्पलादीनां गन्धेन सहचारिणाम्
नित्यसंबन्धिनां दृष्टं गुणानाम् अवधारणम् ॥
संख्याप्रमाणसंस्थान निरपेक्षः प्रवर्तते
बिन्दौ च समुदाये च वाचकः सलिलादिषु ॥
संस्कारादिपरिच्छिन्ने तैलादौ यो व्यवस्थितः
आहैकदेशं तत्त्वेन तस्यावयववर्तिना ॥
येनार्थेनाभिसंबद्धम् अभिधानं प्रयुज्यते
तदर्थापगमे तस्य प्रयोगो विनिवर्तते ॥
यांस् तु संभविनो धर्मान् अन्तर्णीय प्रयुज्यते
शब्दस् तेषां न सांनिध्यं नियमेन व्यपेक्षते ॥
यथा रोमशफादीनां व्यभिचारे ऽपि दृश्यते
गोशब्दो न तथा जातेर् विप्रयोगे प्रवर्तते ॥
तस्मात् संभविनो ऽर्थस्य शब्दात् संप्रत्यये सति
अदृष्टविप्रयोगार्थः संबन्धित्वेन गम्यते ॥
वाचिका द्योतिका व स्युर् द्वित्वादीनां विभक्तयः
स्याद् वा संख्यावतो ऽर्थस्य समुदायो ऽभिधायकः ॥
विना संख्याभिधानाद् वा संख्याभेदसमन्वितान्
अर्थान् स्वरूपभेदेन काम्श् चिद् आहुर् गवादयः ॥
ये शब्दा नित्यसंबन्धा विवेके ज्ञातशक्तयः
अन्वयव्यतिरेकाभ्यां तेषाम् अर्थो विभज्यते ॥
यावच् चाव्यभिचारेण तयोः शक्यं प्रकल्पनम्
नियमस् तत्र न त्व् एवं नियमो नुट्शबादिषु ॥
संभवे नाभिधानस्य लक्षणत्वं प्रकल्पते
आपेक्षिक्यो हि संसर्गे नियताः शब्दशक्तयः ॥
न कूपसूपयूपानाम् अन्वयो ऽर्थस्य दृश्यते
अतो ऽर्थान्तरवाचित्वं संघातस्यैव गम्यते ॥
अन्वाख्यानानि भिद्यन्ते शब्दव्युत्पत्तिकर्मसु
बहूनां संभवे ऽर्थानां निमित्तं किं चिद् इष्यते ॥
वैरवासिष्ठगिरिशास् तथैकागारिकादयः
कैश् चित् कथं चिद् आख्याता निमित्तावधिसंकरैः ॥
यथा पथः समाख्यानं वृक्षवल्मीकपर्वतैः
अविरुद्धं गवादीनां भिन्नैश् च सहचारिभिः ॥
अन्यथा च समाख्यानम् अवस्थाभेददर्शिभिः
क्रियते किंशुकादीनाम् एकदेशावधारणं ॥
कैश् चिन् निर्वचनं भिन्नं गिरतेर् गर्जतेर् गमेः
गवतेर् गदतेर् वापि गौर् इत्य् अत्रानुदर्शितम् ॥
गौर् इत्य् एव स्वरूपाद् वा गोशब्दो गोषु वर्तते
व्युत्पाद्यते न वा सर्वं कैश् चिच् चोभयथेष्यते ॥
सामान्येनोपदेशश् च शास्त्रे लघ्वर्थम् आश्रितः
जात्यन्तरवद् अन्यस्य विशेषाः प्रतिपादकाः ॥
अर्थान्तरे च यद् वृत्तं तत् प्रकृत्यन्तरं विदुः
तुल्यरूपं न तद् रूढाव् अन्यस्मिन्न् अनुषज्यते ॥
भिन्नाव् इजियजी धातू नियतौ विषयान्तरे
कैश् चित् कथं चिद् उद्दिष्टौ चित्रं हि प्रतिपादनम् ॥
एवं च वालवायादि जित्वरीवद् उपाचरेत्
भेदाभेदाभ्युपगमे न विरोधो ऽस्ति कश् चन ॥
अडादीनां व्यवस्थार्थं पृथक्त्वेन प्रकल्पनम्
धातूपसर्गयोः शास्त्रे धातुर् एव तु तादृशः ॥
तथा हि संग्रामयतेः सोपसर्गाद् विधिः स्मृतः
क्रियाविशेषाः सम्घाते प्रक्रम्यन्ते तथाविधाः ॥
कार्याणाम् अन्तरङ्गत्वम् एवं धातूपसर्गयोः
साधनैर् याति संबन्धं तथाभूतैव सा क्रिया ॥
प्रयोगार्थेषु सिद्धः सन् भेत्तव्यो ऽर्थो विशिष्यते
प्राक् च साधनसंबन्धात् क्रिया नैवोपजायते ॥
धातोः साधनयोगस्य भाविनः प्रक्रमाद् यथा
धातुत्वं कर्मभावश् च तथान्यद् अपि दृश्यताम् ॥
बीजकालेषु संबन्धाद् यथा लाक्षारसादयः
वर्णादिपरिणामेन फलानाम् उपकुर्वते ॥
बुद्धिस्थाद् अभिसंबन्धात् तथा धातूपसर्गयोः
अभ्यन्तरीकृताद् भेदः पदकाले प्रकाशते ॥
क्व चित् संभविनो भेदाः केवलैर् अनिदर्शिताः
उपसर्गेण संबन्धे व्यज्यन्ते प्रनिरादिना ॥
स वाचको विशेषाणां संभवाद् द्योतको ऽपि वा
शक्त्याधानाय वा धातोः सहकारी प्रयुज्यते ॥
स्थादिभिः केवलैर् यच् च गमनादि न गम्यते
तत्रानुमानाद् द्विविधात् तद्धर्मा प्रादिर् उच्यते ॥
अप्रयोगे ऽधिपर्योश् च यावद् दृष्टं क्रियान्तरम्
तस्याभिधायको धातुः सह ताभ्याम् अनर्थकः ॥
तथैव स्वार्थिकाः के चित् संघातान्तरवृत्तयः
अनर्थकेन संसृष्टाः प्रकृत्यर्थानुवादिनः ॥
निपाता द्योतकाः के चित् पृथगर्थप्रकल्पने
आगमा इव के चित् तु संभूयार्थस्य साधकाः ॥
उपरिष्टात् पुरस्ताद् वा द्योतकत्वं न भिद्यते
तेषु प्रयुज्यमानेषु भिन्नार्थेष्व् अपि सर्वथा ॥
चादयो न प्रयुज्यन्ते पदत्वे सति केवलाः
प्रत्ययो वाचकत्वे ऽपि केवलो न प्रयुज्यते ॥
समुच्चिताभिधाने तु व्यतिरेको न विद्यते
असत्त्वभूतो भावश् च तिङ्पदैर् अभिधीयते ॥
समुच्चिताभिधाने ऽपि विशिष्टार्थाभिधायिनाम्
गुणैर् पदानां संबन्धः परतन्त्रास् तु चादयः ॥
जनयित्वा क्रिया का चित् संबन्धं विनिवर्तते
श्रूयमाणे क्रियाशब्दे संबन्धो जायते क्व चित् ॥
तत्र षष्ठी प्रतिपदं समासस्य निवृत्तये
विहिता दर्शनार्थं तु कारकं प्रत्युदाहृतम् ॥
स चोपजातः संबन्धो विनिवृत्ते क्रियापदे
कर्मप्रवचनीयेन तत्र तत्र नियम्यते ॥
येन क्रियापदाक्षेपः स कारकविभक्तिभिः
युज्यते विर् यथा तस्य लिखाव् अनुपसर्गता ॥
तिष्ठतेर् अप्रयोगश् च दृष्टो ऽप्रत्य् अजयन्न् इति
सुन्व् अभीत्य् आभिमुख्ये च केवलो ऽपि प्रयुज्यते ॥
कर्मप्रवचनीयत्वं क्रियायोगे विधीयते
षत्वादिविनिवृत्त्यर्थं स्वत्यादीनां विधर्मणाम् ॥
हेतुहेतुमतोर् योग परिच्छेदे ऽनुना कृते
आरम्भाद् बाध्यते प्राप्ता तृतीया हेतुलक्षणा ॥
क्रियाया द्योतको नायं न संबन्धस्य वाचकः
नापि क्रियापदाक्षेपि संबन्धस्य तु भेदकः ॥
अनर्थकानां संघातः सार्थको ऽनर्थकस् तथा
वर्णानां पदम् अर्थेन युक्तं नावयवाः पदे ॥
पदानाम् अर्थयुक्तानां संघातो भिद्यते पुनः
अर्थान्तरावबोधेन संबन्धविगमेन च ॥
सार्थकानर्थकौ भेदे संबन्धं नाधिगच्छतः
अधिगच्छत इत्य् एके कुटीरादिनिदर्शनात् ॥
अर्थवद्भ्यो विशिष्टार्थः संघात उपजायते
नोपजायत इत्य् एके समासस्वार्थिकादिषु ॥
के चिद् धि युतसिद्धार्था भेदे निर्ज्ञातशक्तयः
अन्वयव्यतिरेकाभ्यां के चित् कल्पितशक्तयः ॥
शास्त्रार्थ एव वर्णानाम् अर्थवत्त्वे प्रदर्शितः
धात्वादीनां हि शुद्धानां लौकिको ऽर्थो न विद्यते ॥
कृत्तद्धितानाम् अर्थश् च केवलानाम् अलौकिकः
प्राग् विभक्तेस् तदन्तस्य तथैवार्थो न विद्यते ॥
अभिव्यक्ततरो यो ऽर्थः प्रत्ययान्तेषु लक्ष्यते
अर्थवत्ताप्रकरणाद् आश्रितः स तथाविधः ॥
आत्मभेदो न चेत् कश् चिद् वर्णेभ्यः पदवाक्ययोः
अन्योन्यापेक्षया शक्त्या वर्णः स्याद् अभिधायकः ॥
वर्णेन केन चिन् न्यूनः संघातो यो ऽभिधायकः
न चेच् छब्दान्तरम् असाव् अन्यूनस् तेन गम्यते ॥
स तस्मिन् वाचके शब्दे निमित्तात् स्मृतिम् आदधत्
साक्षाद् इव व्यवहितं शब्देनार्थम् उपोहते ॥
पदवाच्यो यथा नार्थः कश् चिद् गौरखरादिषु
सत्य् अपि प्रत्यये ऽत्यन्तं समुदाये न गम्यते ॥
समन्वित इवार्थात्मा पदार्थैर् यः प्रतीयते
पदार्थदर्शनं तत्र तथैवानुपकारकम् ॥
समुदायावयवयोर् भिन्नार्थत्वे च वृत्तिषु
युगपद् भेदसंसर्गौ विरुद्धाव् अनुषङ्गिणौ ॥
कश् च साधनमात्रार्थान् अध्यादीन् परिकल्पयेत्
अप्रयुक्तपदश् चार्थो बहुव्रीहौ कथं भवेत् ॥
प्रज्ञुसंज्ञ्वाद्यवयवैर् न चास्त्य् अर्थावधारणम्
तस्मात् संघात एवैको विशिष्टार्थनिबन्धनम् ॥
गर्गा इत्य् एक एवायं बहुष्व् अर्थेषु वर्तते
द्वन्द्वसंज्ञो ऽपि संघातो बहूनाम् अभिधायकः ॥
यथैकशेषे भुज्यादिः प्रत्येकम् अवतिष्ठते
क्रियैवं द्वन्द्ववाच्ये ऽर्थे प्रत्येकं प्रविभज्यते ॥
यच् च द्वन्द्वपदार्थस्य तच्छब्देन व्यपेक्षणम्
सापि व्यावृत्तरूपे ऽर्थे सर्वनामसरूपता ॥
यथा च खदिरच्छेदे भागेषु क्रमवांस् छिदिः
तथा द्वन्द्वपदार्थस्य भागेषु क्रमदर्शनम् ॥
सङ्घैकदेशे प्रक्रान्तान् यथा सङ्घानुपातिनः
क्रियाविशेषान् मन्यन्ते स द्वन्द्वावयवे क्रमः ॥
प्रतिपादयता वृत्तिम् अबुद्धान् वाक्यपूर्विकाम्
वृत्तौ पदार्थभेदेन प्राधान्यम् उपदर्शितम् ॥
अभेदाद् अभिधेयस्य नञ्समासे विकल्पितम्
प्राधान्यं बहुधा भाष्ये दोषास् तु प्रक्रियागताः ॥
जहत्स्वार्थविकल्पे च सर्वार्थत्यागम् इच्छता
बहुव्रीहिपदार्थस्य त्यागः सर्वस्य दर्शितः ॥
शास्त्रे क्व चित् प्रकृत्यर्थः प्रत्ययेनाभिधीयते
प्रकृतौ विनिवृत्तायां प्रत्ययार्थश् च धातुभिः ॥
यम् अर्थम् आहतुर् भिन्नौ प्रत्ययाव् एक एव तम्
क्व चिद् आह पचन्तीति धातुस् ताभ्यां विना क्व चित् ॥
अन्वाख्यानस्मृतेर् ये च प्रत्ययार्था निबन्धनम्
निर्दिष्टास् ते प्रकृत्यर्थाः स्मृत्यन्तर उदाहृताः ॥
प्रसिद्धेर् उद्वमिकरीत्य् एवं शास्त्रे ऽभिधीयते
व्यवहाराय मन्यन्ते शास्त्रार्थप्रक्रिया यतः ॥
शास्त्रेषु प्रक्रियाभेदैर् अविद्यैवोपवर्ण्यते
अनागमविकल्पा तु स्वयं विद्योपवर्तते ॥
अनिबद्धं निमित्तेषु निरुपाख्यं फलं यथा
तथा विद्याप्य् अनाख्येया शास्त्रोपायेव लक्ष्यते ॥
यथाभ्यासं हि वाग् अर्थे प्रतिपत्तिं समीहते
स्वभाव इव चानादिर् मिथ्याभ्यासो व्यवस्थितः ॥
उत्प्रेक्षते सावयवं परमाणुम् अपण्डितः
तथावयविनं युक्तम् अन्यैर् अवयवैः पुनः ॥
घटादिदर्शनाल् लोकः परिच्छिन्नो ऽवसीयते
समारम्भाच् च भावानाम् आदिमद् ब्रह्म शाश्वतम् ॥
उपायाः शिक्षमाणानां बालानाम् उपलापनाः
असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते ॥
अन्यथा प्रतिपद्यार्थं पदग्रहणपूर्वकम्
पुनर् वाक्ये तम् एवार्थम् अन्यथा प्रतिपद्यते ॥
उपात्ता बहवो ऽप्य् अर्था येष्व् अन्ते प्रतिषेधनम्
क्रियते ते निवर्तन्ते तस्मात् तांस् तत्र नाश्रयेत् ॥
वृक्षो नास्तीति वाक्यं च विशिष्टाभावलक्षणम्
नार्थे न बुद्धौ संबन्धो निवृत्तेर् अवतिष्ठते ॥
विच्छेदप्रतिपत्तौ च यद्य् अस्तीत्य् अवधार्यते
अशब्दवाच्या सा बुद्धिर् निवर्त्येत स्थिता कथम् ॥
अथ यज् ज्ञानम् उत्पन्नं तन् मिथ्येति नञा कृतम्
नञो व्यापारभेदे ऽस्मिन्न् अभावावगतिः कथम् ॥
निराधारप्रवृत्तौ च प्राक्प्रवृत्तिर् नञो भवेत्
अथाधारः स एवास्य नियमार्था श्रुतिर् भवेत् ॥
नियमद्योतनार्था वाप्य् अनुवादो यथा भवेत्
कश् चिद् एवार्थवांस् तत्र शब्दः शेषास् त्व् अनर्थकाः ॥
विरुद्धं चाभिसंबन्धम् उदाहार्यादिभिः कृतम्
वाक्ये समाप्ते वाक्यार्थम् अन्यथा प्रतिपद्यते ॥
स्तुतिनिन्दाप्रधानेषु वाक्येष्व् अर्थो न तादृशः
पदानां प्रविभागेन यादृशः परिकल्प्यते ॥
अथासंसृष्ट एवार्थः पदेषु समवस्थितः
वाक्यार्थस्याभ्युपायो ऽसाव् एकस्य प्रतिपादने ॥
पूर्वं पदेष्व् असंसृष्टो यः क्रमाद् उपचीयते
छिन्नग्रथितकल्पत्वात् तद् विशिष्टतरं विदुः ॥
एकम् आहुर् अनेकार्थं शब्दम् अन्ये परीक्षकाः
निमित्तभेदाद् एकस्य सार्वार्थ्यं तस्य भिद्यते ॥
यौगपद्यम् अतिक्रम्य पर्याये व्यवतिष्ठते
अर्थप्रकरणाभ्यां वा योगाच् छब्दान्तरेण वा ॥
यथा सास्नादिमान् पिण्डो गोशब्देनाभिधीयते
तथा स एव गोशब्दो वाहीके ऽपि व्यवस्थितः ॥
सर्वशक्तेस् तु तस्यैव शब्दस्यानेकधर्मणः
प्रसिद्धिभेदाद् गौणत्वं मुख्यत्वं चोपजायते ॥
एको मन्त्रस् तथाध्यात्मम् अधिदैवम् अधिक्रतु
असंकरेण सर्वार्थो भिन्नशक्तिर् अवस्थितः ॥
गोत्वानुषङ्गो वाहीके निमित्तात् कैश् चिद् इष्यते
अर्थमात्रं विपर्यस्तं शब्दः स्वार्थे व्यवस्थितः ॥
तथा स्वरूपं शब्दानां सर्वार्थेष्व् अनुषज्यते
अर्थमात्रं विपर्यस्तं स्वरूपे तु श्रुतिः स्थिता ॥
एकत्वं तु सरूपत्वाच् छब्दयोर् गौणमुख्ययोः
प्राहुर् अत्यन्तभेदे ऽपि भेदमार्गानुदर्शिनः ॥
सामिधेन्यन्तरं चैवम् आवृत्ताव् अनुषज्यते
मन्त्रास् च विनियोगेन लभन्ते भेदम् ऊहवत् ॥
तान्य् आम्नायान्तराण्य् एव पठ्यते किं चिद् एव तु
अनर्थकानां पाठो वा शेषस् त्व् अन्यः प्रतीयते ॥
शब्दस्वरूपम् अर्थस् तु पाठे ऽन्यैर् उपवर्ण्यते
अत्यन्तभेदः सर्वेषां तत्संबन्धात् तु तद्वताम् ॥
अन्या संस्कारसावित्री कर्मण्य् अन्या प्रयुज्यते
अन्या जपप्रबन्धेषु सा त्व् एकैव प्रतीयते ॥
अर्थस्वरूपे शब्दानां स्वरूपाद् वृत्तिम् इच्छतः
वाक्यरूपस्य वाक्यार्थे वृत्तिर् अन्यानपेक्षया ॥
अनेकार्थत्वम् एकस्य यैः शब्दस्यानुगम्यते
सिद्ध्यसिद्धिकृता तेषां गौणमुख्यप्रकल्पना ॥
अर्थप्रकरणापेक्षो यो वा शब्दान्तरैः सह
युक्तः प्रत्याययत्य् अर्थं तं गौणम् अपरे विदुः ॥
शुद्धस्योच्चारणे स्वार्थः प्रसिद्धो यस्य गम्यते
स मुख्य इति विज्ञेयो रूपमात्रनिबन्धनः ॥
यस् त्व् अन्यस्य प्रयोगेण यत्नाद् इव नियुज्यते
तम् अप्रसिद्धं मन्यन्ते गौणार्थाभिनिवेशिनम् ॥
स्वार्थे प्रवर्तमानो ऽपि यस्यार्थं यो ऽवलम्बते
निमित्तं तत्र मुख्यं स्यान् निमित्ती गौण इष्यते ॥
पुराराद् इति भिन्ने ऽर्थे यौ वर्तेते विरोधिनि
अर्थप्रकरणापेक्षं तयोर् अप्य् अवधारणम् ॥
वाक्यस्यार्थात् पदार्थानाम् अपोद्धारे प्रकल्पिते
शब्दान्तरेण संबन्धः कस्यैकस्योपपद्यते ॥
यच् चाप्य् एकं पदं दृष्टं चरितास्तिक्रियं क्व चित्
तद् वाक्यान्तरम् एवाहुर् न तद् अन्येन युज्यते ॥
यच् च को ऽयम् इति प्रश्ने गौर् अश्व इति चोच्यते
प्रश्न एव क्रिया तत्र प्रक्रान्ता दर्शनादिका ॥
नैवाधिकत्वं धर्माणां न्यूनता वा प्रयोजिका
आधिक्यम् अपि मन्यन्ते प्रसिद्धेर् न्यूनतां क्व चित् ॥
जातिशब्दो ऽन्तरेणापि जातिं यत्र प्रयुज्यते
संबन्धिसदृशाद् धर्मात् तं गौणम् अपरे विदुः ॥
विपर्यासाद् इवार्थस्य यत्रार्थान्तरताम् इव
मन्यन्ते स गवादिस् तु गौण इत्य् उच्यते क्व चित् ॥
नियताः साधनत्वेन रूपशक्तिसमन्विताः
यथा कर्मसु गम्यन्ते सीरासिमुसलादयः ॥
क्रियान्तरे न चैतेषां विभवन्ति न शक्तयः
रूपाद् एव तु तादर्थ्यं नियमेन प्रतीयते ॥
तथैव रूपशक्तिभ्याम् उत्पत्त्या समवस्थितः
शब्दो नियततादर्थ्यः शक्त्यान्यत्र प्रयुज्यते ॥
श्रुतिमात्रेण यत्रास्य सामर्थ्यम् अवसीयते
तं मुख्यम् अर्थं मन्यन्ते गौणं यत्नोपपादितम् ॥
गोयुष्मन्महतां च्व्यर्थे स्वार्थाद् अर्थान्तरे स्थितौ
अर्थान्तरस्य तद्भावस् तत्र मुख्यो ऽपि दृश्यते ॥
महत्त्वं शुक्लभावं च प्रकृतिः प्रतिपद्यते
भेदेनापेक्षिता सा तु गौणत्वस्य प्रसाधिका ॥
अग्निसोमादयः शब्दा ये स्वरूपपदार्थकाः
संज्ञिभिः संप्रयुज्यन्ते ऽप्रसिद्धेस् तेषु गौणता ॥
अग्निदत्तस् तु यो ऽग्निः स्यात् तत्र स्वार्थोपसर्जनः
शब्दो दत्तार्थवृत्तित्वाद् गौणत्वं प्रतिपद्यते ॥
निमित्तभेदात् प्रक्रान्ते शब्दव्युत्पत्तिकर्मणि
हरिश्चन्द्रादिषु सुटो भावाभावौ व्यवस्थितौ ॥
ऋष्यादौ प्राप्तसंस्कारो यः शब्दो ऽन्येन युज्यते
तत्रान्तरङ्गसंस्कारो बाह्ये ऽर्थे न निवर्तते ॥
अत्यन्तविपरीतो ऽपि यथा यो ऽर्थो ऽवधार्यते
यथासंप्रत्ययं शब्दस् तत्र मुख्यः प्रयुज्यते ॥
यद्य् अपि प्रत्ययाधीनम् अर्थतत्त्वावधारणम्
न सर्वः प्रत्ययस् तस्मिन् प्रसिद्ध इव जायते ॥
दर्शनं सलिले तुल्यं मृगतृष्णादिदर्शनैः
भेदात् तु स्पर्शनादीनां न जलं मृगतृष्णिका ॥
यद् असाधारणं कार्यं प्रसिद्धं रज्जुसर्पयोः
तेन भेदपरिच्छेदस् तयोस् तुल्ये ऽपि दर्शने ॥
प्रसिद्धार्थविपर्यास निमित्तं यच् च दृश्यते
यस् तस्माल् लक्ष्यते भेदस् तम् असत्यं प्रचक्षते ॥
यच् च निम्नोन्नतं चित्रे सरूपं पर्वतादिभिः
न तत्र प्रतिघातादि कार्यं तद्वत् प्रवर्तते ॥
स्पर्शप्रबन्धो हस्तेन यथा चक्रस्य संततः
न तथालातचक्रस्य विच्छिन्नं स्पृश्यते हि तत् ॥
वप्रप्राकारकल्पैश् च स्पर्शनावरणे यथा
नगरेषु न ते तद्वद् गन्धर्वनगरेष्व् अपि ॥
मृगपश्वादिभिर् यावान् मुख्यैर् अर्थः प्रसाध्यते
तावान् न मृन्मयेष्व् अस्ति तस्मात् ते विषयः कनः ॥
महान् आव्रियते देशः प्रसिद्धैः पर्वतादिभिः
अल्पदेशान्तरावस्थं प्रतिबिम्बं तु दृश्यते ॥
मरणादिनिमित्तं च यथा मुख्या विषादयः
न ते स्वप्नादिषु स्वस्य तद्वद् अर्थस्य साधकाः ॥
देशकालेन्द्रियगतैर् भेदैर् यद् दृश्यते ऽन्यथा
यथा प्रसिद्धिर् लोकस्य तथा तद् अवसीयते ॥
यच् चोपघातजं ज्ञानं यच् च ज्ञानम् अलौकिकम्
न ताभ्यां व्यवहारो ऽस्ति शब्दा लोकनिबन्धनाः ॥
घटादिषु यथा दीपो येनार्थेन प्रयुज्यते
ततो ऽन्यस्यापि सांनिध्यात् स करोति प्रकाशनम् ॥
संसर्गिषु तथार्थेषु शब्दो येन प्रयुज्यते
तस्मात् प्रयोजकाद् अन्यान् अपि प्रत्याययत्य् असौ ॥
निर्मन्थनं यथारण्योर् अग्न्यर्थम् उपपादितम्
धूमम् अप्य् अनभिप्रेतं जनयत्य् एकसाधनम् ॥
तथा शब्दो ऽपि कस्मिंश् चित् प्रत्याय्ये ऽर्थे विवक्षिते
अविवक्षितम् अप्य् अर्थं प्रकाशयते संनिधेः ॥
यथैवात्यन्तसंसृष्टस् त्यक्तुम् अर्थो न शक्यते
तथा शब्दो ऽपि संबन्धी प्रविवक्तुं न शक्यते ॥
अर्थानां संनिधाने ऽपि सति चैषां प्रकाशने
प्रयोजको ऽर्थः शब्दस्य रूपाभेदे ऽपि गम्यते ॥
क्व चिद् गुणप्रधानत्वम् अर्थानाम् अविवक्षितम्
क्व चित् सांनिध्यम् अप्य् एषां प्रतिपत्ताव् अकारणम् ॥
*यच् चानुपात्तं शब्देन तत् कस्मिंश् चित् प्रतीयते
क्व चित् प्रधानम् एवार्थो भवत्य् अयस्य लक्षणम् ॥
*आख्यातं तद्धितार्थस्य यत् किं चिद् उपदर्शकम्
गुणप्रधानभावस्य तत्र दृष्टो विपर्ययः ॥
*निर्देशे लिङ्गसंख्यानां संनिधानम् अकारणम्
प्रमाणम् अर्धह्रसादाव् अनुपात्तं प्रतीयते ॥
ह्रस्वस्यार्धं च यद् दृष्टं तत् तस्यासंनिधाव् अपि
ह्रस्वस्य लक्षणार्थत्वात् तद्वद् एवाभिधीयते ॥
दीर्घप्लुताभ्यां तस्य स्यान् मात्रया वा विशेषणम्
जातेर् वा लक्षणाय स्यात् सर्वथा सप्तपर्णवत् ॥
गन्तव्यं दृश्यतां सूर्य इति कालस्य लक्षणे
ज्ञायतां काल इत्य् एतत् सोपायम् अभिधीयते ॥
विध्यत्य् अधनुषेत्य् अत्र विशेषेण निदर्श्यते
सामान्यम् आश्रयः शक्तेर् यः कश् चित् प्रतिपादकः ॥
काकेभ्यो रक्ष्यतां सर्पिर् इति बालो ऽपि चोदितः
उपघातपरे वाक्ये न श्वादिभ्यो न रक्षति ॥
प्रक्षालने शरावाणां स्थाननिर्मार्जनं तथा
अनुक्तम् अपि रूपेण भुज्यङ्गत्वात् प्रतीयते ॥
वाक्यात् प्रकरणाद् अर्थाद् औचित्याद् देशकालतः
शब्दार्थाः प्रविभज्यन्ते न रूपाद् एव केवलात् ॥
संसर्गो विप्रयोगश् च साहचर्यं विरोधिता
अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः ॥
सामर्थ्यम् औचिती देशः कालो व्यक्तिः स्वरादयः
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥
भेदपक्षे ऽपि सारूप्याद् भिन्नार्थाः प्रतिपत्तृषु
नियता यान्त्य् अभिव्यक्तिं शब्दाः प्रकरणादिभिः ॥
नामाख्यातसरूपा ये कार्यान्तरनिबन्धनाः
शब्दा वाक्यस्य तेष्व् अर्थो न रूपाद् अधिगम्यते ॥
या प्रवृत्तिनिवृत्त्यर्था स्तुतिनिन्दाप्रकल्पना
कुशलः प्रतिपत्ता ताम् अयथार्थां समीहते ॥
विधीयमानं यत् क्रर्म दृष्टादृष्टप्रयोजनम्
स्तूयते सा स्तुतिस् तस्य कर्तुर् एव प्रयोजिका ॥
व्याघ्रादिव्यपदेशेन यथा बालो निवर्त्यते
असत्यो ऽपि तथा कश् चित् प्रत्यवायो ऽभिधीयते ॥
न संविधानां कृत्वापि प्रत्यवाये तथाविधे
शास्त्रेण प्रतिषिद्धे ऽर्थे विद्वान् कश् चित् प्रवर्तते ॥
सर्पेषु संविधायापि सिद्धैर् मन्त्रौषधादिभिः
नान्यथा प्रतिपत्तव्यं न दतो गमयेद् इति ॥
क्व चित् तत्त्वसमाख्यानं क्रियते स्तुतिनिन्दयोः
तत्रापि च प्रवृत्तिश् च निवृत्तिश् चोपदिश्यते ॥
रूपं सर्वपदार्थानां वाक्यार्थोपनिबन्धनम्
सापेक्षा ये तु वाक्यार्थाः पदार्थैर् एव ते समाः ॥
वाक्यं तद् अपि मन्यन्ते यत् पदं चरितक्रियम्
अन्तरेण क्रियाशब्दं वाक्यादेर् द्वित्वदर्शनात् ॥
आख्यातशब्दे नियतं साधनं यत्र गम्यते
तद् अप्य् एकं समाप्तार्थं वाक्यम् इत्य् अभिधीयते ॥
शब्दव्यवहिता बुद्धिर् अप्रयुक्तपदाश्रया
अनुमानं तदर्थस्य प्रत्यये हेतुर् उच्यते ॥
अपरे तु पदस्यैव तम् अर्थं प्रतिजानते
शब्दान्तराभिसंबन्धम् अन्तरेण व्यवस्थितम् ॥
यस्मिन्न् उच्चरिते शब्दे यदा यो ऽर्थः प्रतीयते
तम् आहुर् अर्थं तस्यैव नान्यद् अर्थस्य लक्षणम् ॥
क्रियार्थोपपदेश्व् एवं स्थानिनां गम्यते क्रिया
वृत्तौ निरादिभिश् चैवं क्रान्ताद्यर्थः प्रतीयते ॥
तानि शब्दान्तराण्य् एव पर्याया इव लौकिकाः
अर्थप्रकरणाभ्यां तु तेषां स्वार्थो नियम्यते ॥
प्रतिबोधाभ्युपायास् तु ये तं तं पुरुषं प्रति
नावश्यं ते ऽभिसंबद्धाः शब्दा ज्ञेयेन वस्तुना ॥
असत्यां प्रतिपत्तौ वा मिथ्या वा प्रतिपादने
स्वैर् अर्थैर् नित्यसंबन्धास् ते ते शब्दा व्यवस्थिताः ॥
यथाप्रकरणं द्वारम् इत्य् अस्यां कर्मणः श्रुतौ
बधान देहि वेत्य् एतद् उपायाद् अवगम्यते ॥
तत्र साधनवृत्तिर् यः शब्दः सत्त्वनिबन्धनः
न स प्रधानभूतस्य साध्यस्यार्थस्य वाचकः ॥
स्वार्थमात्रं प्रकाश्यासौ सापेक्षो विनिवर्तते
अर्थस् तु तस्य संबन्धी प्रकल्पयति संनिधिम् ॥
पारार्थ्यस्याविशिष्टत्वान् न शब्दाच् छब्दसंनिधिः
नार्थाच् छब्दस्य सांनिध्यं न शब्दाद् अर्थसंनिधिः ॥
नष्टरूपम् इवाख्यातम् आक्षिप्तं कर्मवाचिना
यदि प्राप्तं प्रधानत्वं युगपद् भावसत्त्वयोः ॥
तैस् तु नामसरूपत्वम् आख्यातस्यास्य वर्ण्यते
अन्वयव्यतिरेकाभ्यां व्यवहारो विभज्यते ॥
न चापि रूपात् संदेहे वाचकत्वं निवर्तते
अर्धं पशोर् इति यथा सामर्थ्यात् तद् धि कल्पते ॥
सर्वं सत्त्वपदं शुद्धं यदि भावनिबन्धनम्
संसर्गे च विभक्तो ऽस्य तस्यार्थो न पृथग् यदि ॥
क्रियाप्रधानम् आख्यातं नाम्नां सत्त्वप्रधानता
चत्वारि पदजातानि सर्वम् एतद् विरुध्यते ॥
वाक्यस्य बुद्धौ नित्यत्वम् अर्थयोगं च लौकिकम्
दृष्ट्वा चतुष्ट्वं नास्तीति वदत्य् औदुम्बरायणः ॥
व्याप्तिमांश् च लघुश् चैव व्यवहारः पदाश्रयः
लोके शास्त्रे च कार्यार्थं विभागेनैव कल्पितः ॥
न लोके प्रतिपत्तॄणाम् अर्थयोगात् प्रसिद्धयः
तस्माद् अलौकिको वाक्याद् अन्यः कश् चिन् न विद्यते ॥
अन्यत्र श्रूयमाणैश् च लिङ्गैर् वाक्यैश् च सूचिताः
स्वार्था एव प्रतीयन्ते रूपाभेदाद् अलक्षिताः ॥
उत्सर्गवाक्ये यत् त्यक्तम् अशब्दम् इव शब्दवत्
तद् बाधकेषु वाक्येषु श्रुतम् अन्यत्र गम्यते ॥
ब्राह्मणानां श्रुतिर् दध्नि प्रक्रान्ता माठराद् विना
माठरस् तक्रसंबन्धात् तत्राचष्टे यथार्थताम् ॥
अनेकाख्यातयोगे ऽपि वाक्यं न्यायापवादयोः
एकम् एवेष्यते कैश् चिद् भिन्नरूपम् इव स्थितम् ॥
नियमः प्रतिषेधश् च विधिशेषस् तथा सति
द्वितीये यो लुग् आख्यातस् तच्छेषम् अलुकं विदुः ॥
निराकाङ्क्षाणि निर्वृत्तौ प्रधानानि परस्परम्
तेषाम् अनुपकारित्वात् कथं स्याद् एकवाक्यता ॥
विशेषविधिनार्थित्वाद् वाक्यशेषो ऽनुमीयते
विधेयवन् निवर्त्ये ऽर्थे तस्मात् तुल्यं व्यपेक्षणम् ॥
संज्ञाशब्दैकदेशो यस् तस्य लोपो न विद्यते
विशिष्टरूपा सा संज्ञा कृता च न निवर्तते ॥
संज्ञान्तराच् च दत्तादेर् नान्या संज्ञा प्रतीयते
संज्ञिनं देवदत्ताख्यं दत्तशब्दः कथं वदेत् ॥
सर्वैर् अवयवैस् तुल्यं संबन्धं समुदायवत्
के चिच् छब्दस्वरूपाणां मन्यन्ते सर्वसंज्ञिभिः ॥
वर्णानाम् अर्थवत्त्वं तु संज्ञानां संज्ञिभिर् भवेत्
संबद्धो ऽवयवः संज्ञा प्रविवेके न कल्पते ॥
सर्वस्वरूपैर् युगपत् संबन्धे सति संज्ञिनः
नैकदेशसरूपेभ्यस् तत्प्रत्यायनसंभवः ॥
एकदेशात् तु संघाते केषां चिज् जायते स्मृतिः
स्मृतेस् तु विषयाच् छब्दात् संघातार्थः प्रतीयते ॥
एकदेशात् स्मृतिर् भिन्ने संघाते नियता कथम्
कथं प्रतीयमानः स्याच् छब्दो ऽर्थस्याभिधायकः ॥
एकदेशसरूपास् तु तैस् तैर् भेदैः समन्विताः
अनुनिष्पादिनः शब्दाः संज्ञासु समवस्थिताः ॥
साधारणत्वात् संधिग्धाः सामर्थ्यान् नियताश्रयाः
तेषां ये साधवस् तेषु शास्त्रे लोपादि शिष्यते ॥
तुल्यायाम् अनुनिष्पत्तौ ज्ये-द्रा-घा इत्य् असाधवः
न ह्य् अन्वाख्यायके शास्त्रे तेषु दत्तादिवत् स्मृतिः ॥
कृतणत्वाश् च ये शब्दा नित्याः खरणसादयः
एकद्रव्योपदेशित्वात् तान् साधून् संप्रचक्षते ॥
गोत्राण्य् एव तु तान्य् आहुः संज्ञाशक्तिसमन्वयात्
निमित्तापेक्षणं तेषु स्वार्थे नावश्यम् इष्यते ॥
व्यवहाराय नियमः संज्ञानां संज्ञिनि क्व चित्
नित्य एव तु संबन्धो डित्थादिषु गवादिवत् ॥
कृतकत्वाद् अनित्यत्वं संबन्धस्योपपद्यते
संज्ञायां सा हि पुरुषैर् यथाकामं नियुज्यते ॥
यथा हि पांसुलेखानां बालकैर् मधुक्रादयः
संज्ञाः क्रियन्ते सर्वासु संज्ञास्व् एषैव कल्पना ॥
वृद्ध्यादीनां च शास्त्रे ऽस्मिञ् छक्त्यवच्छेदलक्षणः
अकृत्रिमो हि संबन्धो विशेषणविशेष्यवत् ॥
संज्ञा स्वरूपम् आश्रित्य निमित्ते सति लौकिकी
का चित् प्रवर्तते का चिन् निमित्तासंनिधाव् अपि ॥
शास्त्रे ऽपि महती संज्ञा स्वरूपोपनिबन्धना
अनुमानं निमित्तस्य संनिधाने प्रतीयते ॥
आवृत्तेर् अनुमानं वा सारूप्यात् तत्र गम्यते
शब्दभेदानुमानं वा शक्तिभेदस्य वा गतिः ॥
क्व चिद् विषयभेदेन कृत्रिमा व्यवतिष्ठते
संख्यायाम् एकविषयं व्यवस्थानं द्वयोर् अपि ॥
विषयं कृत्रिमस्यापि लौकिकः क्व चिद् उच्चरन्
व्याप्नोति दूरात् संबुद्धौ तथा हि ग्रहणं द्वयोः ॥
सङ्घैकशेषद्वन्द्वेषु के चित् सामर्थ्यलक्षणम्
प्रत्याश्रयम् अवस्थानं क्रियाणां प्रतिजानते ॥
भोजनं फलरूपाभ्याम् एकैकस्मिन् समाप्यते
अन्यथा हि व्यवस्थाने न तदर्थः प्रकल्प्यते ॥
अन्नादानादि रूपां च सर्वे तृप्तिफलां भुजिम्
प्रत्येकं प्रतिपद्यन्ते न तु नाट्यक्रियाम् इव ॥
पाद्यवत् सा विभागेन सामर्थ्याद् अवतिष्ठते
भुजिः करोति भुज्यर्थं न तन्त्रेण प्रदीपवत् ॥
दृश्यादिस् तु क्रियैकापि तथाभूतेषु कर्मसु
आवृत्तिम् अन्तरेणापि समुदायाश्रया भवेत् ॥
भिन्नव्यापाररूपाणां व्यवहारादिदर्शने
कर्तॄणां दर्शनं भिन्नं संभूयार्थस्य साधकम् ॥
लक्ष्यस्य लोकसिद्धत्वाच् छास्त्रे लिङ्गस्य दर्शनात्
अर्थिष्व् आदैक्षु भेदेन वृद्धिसंज्ञा समाप्यते ॥
शतादानप्रधानत्वाद् दण्डने शतकर्मके
अर्थिनां गुणभेदे ऽपि संख्येयो ऽर्थो न भिद्यते ॥
सङ्घस्यैव विधेयत्वात् कार्यवत् प्रतिपादने
तत्र तन्त्रेण संबन्धः समासाभ्यस्तसंज्ञयोः ॥
लक्षणार्था श्रुतिर् येषां कां चिद् एव क्रियां प्रति
तैर् व्यस्तैश् च समस्तैश् च स धर्म उपलक्ष्यते ॥
वृषलैर् न प्रवेष्टव्यम् इत्य् एतस्मिन् गृहे यथा
प्रत्येकं संहतानां च प्रवेशः प्रतिषिध्यते ॥
संभूय त्व् अर्थलिप्सादि प्रतिषेधोपदेशने
पृथग् अप्रतिषिद्धत्वात् प्रवृत्तिर् न विरुध्यते ॥
व्यवायलक्षणार्थात्वाद् अट्कुप्वाङादिभिस् तथा
प्रत्येकं वा समस्तैर् वा णत्वं न प्रतिषिध्यते ॥
अनुग्रहार्था भोक्तॄणां भुजिर् आरभ्यते यदा
देशकालाद्यभेदेन नानुगृह्णाति तान् असौ ॥
पात्रादिभेदान् नानात्वं यस्यैकस्योपदिश्यते
विपर्यये वा भिन्नस्य तस्यैकत्वं प्रकल्प्यते ॥
संहत्यापि च कुर्वाणा भेदेन प्रतिपादिताः
स्वं स्वं भोज्यं विभागेन प्राप्तं संभूय भुञ्जते ॥
वीप्साया विषयाभावाद् विरोधाद् अन्यसंख्यया
द्विधा समाप्त्ययोगाच् च शतम् सङ्घे ऽवतिष्ठते ॥
भुजिर् द्वन्द्वैकशेषाभ्यां यत्रान्यैः सह शिष्यते
तत्रापि लक्षणार्थत्वाद् द्विधा वाक्यं समाप्यते ॥
वाक्यान्तराणां प्रत्येकं समाप्तिः कैश् चिद् इष्यते
रूपान्तरेण युक्तानां वाक्यनां तेन संग्रहः ॥
न वाक्यस्याभिधेयानि भेदवाक्यानि कानि चित्
तस्मिंस् तूच्चरिते भेदांस् तथान्यान् प्रतिपद्यते ॥
येषां समस्तो वाक्यार्थः प्रतिभेदं समाप्यते
तेषां तदानीं भिन्नस्य किं पदार्थस्य सत्तया ॥
अथ तैर् एव जनितः सो ऽर्थो भिन्नेषु वर्तते
पूर्वस्यार्थस्य तेन स्याद् विरोधः सह वा स्थितिः ॥
सहस्थितौ विरोधित्वं स्याद् विशिष्टाविशिष्टयोः
व्यभिचारी तु संबन्धस् त्यागे ऽर्थस्य प्रसज्यते ॥
एकः साधारणो वाच्यः प्रतिशब्दम् अवस्थितः
सङ्घे सङ्घिषु चार्थात्मा सम्निधाननिदेशकः ॥
यथा साधारणे स्वत्वं त्यागस्य च फलं धने
प्रीतिश् चाविकला तद्वत् संबन्धो ऽर्थेन तद्वताम् ॥
वर्णानाम् अर्थवत्तायां तेनैवार्थेन तद्वति
समुदाये न चैकत्वं भेदेन व्यवतिष्ठते ॥
एकेनैव प्रदीपेन सर्वे साधारणं धनम्
पश्यन्ति तद्वद् एकेन सुपा संख्याभिधीयते ॥
नार्थवत्ता पदे वर्णे वाक्ये चैवं विशिष्यते
अभ्यासात् प्रक्रमो ऽन्यस् तु विरुद्ध इव दृश्यते ॥
विनियोगाद् ऋते शब्दो न स्वार्थस्य प्रकाशकः
अर्थाभिधानसंबन्धम् उक्तिद्वारं प्रचक्षते ॥
यथा प्रणिहितं चक्षुर् दर्शनायोपकल्पते
तथाभिसंहितः शब्दो भवत्य् अर्थस्य वाचकः ॥
क्रियाव्यवेतः संबन्धो दृष्टः करणकर्मभिः
अभिधानियमस् तस्माद् अभिधानाभिधेययोः ॥
बहुष्व् एकाभिधानेषु सर्वेष्व् एकार्थकारिषु
यत् प्रयोक्ताभिसंधत्ते शब्दस् तत्रावतिष्ठते ॥
आम्नायशब्दान् अभ्यासे के चिद् आहुर् अनर्थकान्
स्वरूपमात्रवृत्तींश् च परेषां प्रतिपादने ॥
अभिधानक्रियायोगाद् अर्थस्य प्रतिपादकान्
नियोगभेदान् मन्यन्ते तान् एवैकत्वदर्शिनः ॥
तेषाम् अत्यन्तनानात्वं नानात्वव्यवहारिणः
अक्षादीनाम् इव प्राहुर् एकजातिसमन्वयात् ॥
प्रयोगाद् अभिसंधानम् अन्यद् एषु न विद्यते
विषये यतशक्तित्वात् स तु तत्र व्यवस्थितः ॥
नानात्वस्यैव संज्ञानम् अर्थप्रकरणादिभिः
न जात्व् अर्थान्तरे वृत्तिर् अन्यार्थानां कथं चन ॥
पदरूपम् च यद् वाक्यम् अस्तित्वोपनिबन्धनम्
कामं विमर्शस् तत्रायं न वाक्यावयवे पदे ॥
यथैवानर्थकैर् वर्णैर् विशिष्टो ऽर्थो ऽभिधीयते
पदैर् अनर्थकैर् एवं विशिष्टो ऽर्थो ऽभिधीयते ॥
यद् अन्तराले ज्ञानं तु पदार्थेषूपजायते
प्रतिपत्तेर् उपायो ऽसौ प्रक्रमानवधारणात् ॥
पूर्वैर् अर्थैर् अनुगतो यथार्थात्मा परः परः
संसर्ग एव प्रक्रान्तस् तथान्येष्व् अर्थवस्तुषु ॥
अङ्गीकृते तु केषां चित् साध्येनार्थेन साधने
आराधनियमार्थैव साधनानां पुनः श्रुतिः ॥
आधारे नियमाभावात् तदाक्षेपो न विद्यते
सामर्थ्यात् संभवस् तस्य श्रुतिस् त्व् अन्यनिवृत्तये ॥
क्रिया क्रियान्तराद् भिन्ना नियताधारसाधना
प्रक्रान्ता प्रतिपत्तॄणां भेदाः संबोधहेतवः ॥
अविभागं तु शब्देभ्यः क्रमवद्भ्यो ऽपदक्रमम्
प्रकाशते तदन्येषां वाक्यं वाक्यार्थ एव च ॥
स्वरूपं विद्यते यस्य तस्यात्मा न निरूप्यते
नास्ति यस्य स्वरूपं तु तस्यैवात्मा निरूप्यते ॥
अशब्दम् अपरे ऽर्थस्य रूपनिर्धारणं विदुः
अर्थावभासरूपा च शब्देभ्यो जायते स्मृतिः ॥
अन्यथैवाग्निसंबन्धाद् दाहं दग्धो ऽभिमन्यते
अन्यथा दाहशब्देन दाहार्थः संप्रतीयते ॥
पृथङ्निविष्टतत्त्वानां पृथगर्थानुपातिनाम्
इन्द्रियाणां यथा कार्यम् ऋते देहान् न कल्पते ॥
तथा पदानां सर्वेषां पृथगर्थनिवेशिनाम्
वाक्येभ्यः प्रविभक्तानाम् अर्थवत्ता न विद्यते ॥
संसर्गरूपं संसृष्टेष्व् अर्थवस्तुषु गृह्यते
नात्रोपाख्यायते तत्त्वम् अपदार्थस्य दर्शनात् ॥
दर्शनस्यापि यत् सत्यं न तथा दर्शनं स्थितम्
वस्तु संसर्गरूपेण तद् अरूपं निरूप्यते ॥
अस्तित्वेनानुषक्तो वा निवृत्त्यात्मनि वा स्थितः
अर्थो ऽभिधीयते यस्माद् अतो वाक्यं प्रयुज्यते ॥
क्रियानुषङ्गेण विना न पदार्थः प्रतीयते
सत्यो वा विपरीतो वा व्यवहारे न सो ऽस्त्य् अतः ॥
सद् इत्य् एतत् तु यद् वाक्यं तद् अभूद् अस्ति नेति वा
क्रियाभिधानसंबन्धम् अन्तरेण न गम्यते ॥
आख्यातपदवाच्ये ऽर्थे साधनोपनिबन्धने
विना सत्त्वाभिधानेन नाकाङ्क्षा विनिवर्तते ॥
प्राधान्यात् तु क्रिया पूर्वम् अर्थस्य प्रविभज्यते
साध्यप्रयुक्तान्य् अङ्गानि फलं तस्य प्रयोजकम् ॥
प्रयोक्तैवाभिसंधत्ते साध्यसाधनरूपताम्
अर्थस्य चाभिसंबन्ध कल्पनां प्रसमीहते ॥
पचिक्रियां करोतीति कर्मत्वेनाभिधीयते
पक्तिः करणरूपं तु साध्यत्वेन प्रतीयते ॥
यो ऽंशो येनोपकारेण प्रयोक्तॄणां विवक्षितः
अर्थस्य सर्वशक्तित्वात् स तथैव व्यवस्थितः ॥
आराद्वृत्तिषु संबन्धः कदा चिद् अभिधीयते
आश्लिष्टो यो ऽनुपश्लिष्टः स कदा चित् प्रतीयते ॥
संसृष्टानां विभक्तत्वं संसर्गश् च विवेकिनाम्
नानात्मकानाम् एकत्वं नानात्वं च विपर्यये ॥
सर्वात्मकत्वाद् अर्थस्य नैरात्म्याद् वा व्यवस्थितम्
अत्यन्तयतशक्तित्वाच् छब्द एव निबन्धनम् ॥
वस्तूपलक्षणः शब्दो नोपकारस्य वाचकः
न स्वशक्तिः पदार्थानां संस्प्रष्टुं तेन शक्यते ॥
संबन्धिधर्मा संयोगः स्वशब्देनाभिधीयते
संबन्धः समवायस् तु संबन्धित्वेन गम्यते ॥
लक्षणाद् व्यवतिष्ठन्ते पदार्था न तु वस्तुतः
उपकारात् स एवार्थः कथं चिद् अनुगम्यते ॥
वाक्यार्थो यो ऽभिसंबन्धो न तस्यात्मा क्व चित् स्थितः
व्यवहारे पदार्थानां तम् आत्मानं प्रचक्षते ॥
पदार्थे समुदाये वा समाप्तो नैव वा क्व चित्
पदार्थरूपभेदेन तस्यात्मा प्रविभज्यते ॥
अन्वाख्यानाय यो भेदः प्रतिपत्तिनिबन्धनम्
साकाङ्क्षावयवं भेदे तेनान्यद् उपवर्ण्यते ॥
अनेकशक्तेर् एकस्य प्रविभागो ऽनुगम्यते
एकार्थत्वं हि वाक्यस्य मात्रयापि प्रतीयते ॥
संप्रत्ययार्थाद् बाह्यो ऽर्थः सन्न् असन् वा विभज्यते
बाह्यीकृत्य विभागस् तु शक्त्यपोद्धारलक्षणः ॥
प्रत्ययार्थात्मनियताः शक्तयो न व्यवस्थिताः
अन्यत्र च ततो रूपं न तासाम् उपलभ्यते ॥
बहुश्व् अपि तिङन्तेषु साकाङ्क्षेष्व् एकवाक्यता
तिङा तिङ्भ्यो निघातस्य पर्युदासस् तथार्थवान् ॥
एकतिङ् यस्य वाक्यं तु शास्त्रे नियतलक्षणम्
तस्यातिङ्ग्रहणेनार्थो वाक्यभेदान् न विद्यते ॥
तिङन्तान्तरयुक्तेषु युक्तयुक्तेषु वा पुनः
मृगः पश्यत यातीति भेदाभेदौ न तिष्ठतः ॥
इतिकर्तव्यतार्थस्य सामर्थ्याद् यत्र काङ्क्ष्यते
अशब्दलक्षणाकाङ्क्षं समाप्तार्थं तद् उच्यते ॥
तत्त्वान्वाख्यानमात्रे तु यावान् अर्थो ऽनुषज्यते
विनापि तत्प्रयोगेण श्रुतेर् वाक्यं समाप्यते ॥
चिङ्क्रम्यमाणो ऽधीष्वात्र जपंश् चङ्क्रमणं कुरु
तादर्थ्यस्याविशेषे ऽपि शब्दाद् भेदः प्रतीयते ॥
फलवन्तः क्रियाभेदाः क्रियान्तरनिबन्धनाः
असंख्याताः क्रमोद्देशैर् एकाख्यातनिदर्शिताः ॥
निवृतभेदा सर्वैव क्रियाख्याते ऽभिधीयते
श्रुतेर् अशक्या भेदानां प्रविभागप्रकल्पना ॥
अश्वमेधेन यक्ष्यन्ते राजानः सत्त्रम् आसते
ब्राह्मणा इति नाख्यात रूपाद् भेदः प्रतीयते ॥
सकृच् छ्रुता सप्तदशस्व् अनावृत्तापि या क्रिया
प्रजापत्येषु सामर्थ्यात् सा भेदं प्रतिपद्यते ॥
देवदत्तादिषु भुजिः प्रत्येकम् अवतिष्ठते
प्रतिस्वतन्त्रं वाक्यं वा भेदेन प्रतिपद्यते ॥
उच्चारणे तु वाक्यानाम् अन्यद् रूपं न गृह्यते
प्रतिपत्तौ तु भिन्नानाम् अन्यद् रूपं प्रतीयते ॥
एकं ग्रहणवाक्यं च सामान्येनाभिधीयते
कर्तरीति यथा तच् च पश्वादिषु विभज्यते ॥
यदि आकाङ्क्षा निवर्तेत तद्भूतस्य सकृच् छ्रुतौ
नैवान्येनाभिसंबन्धं तद् उपेयात् कथं चन ॥
एकरूपम् अनेकार्थं तस्माद् उपनिबन्धनम्
योनिर् विभागवाक्यानां तेभ्यो ऽनन्यद् इव स्थितम् ॥
क्व चित् क्रिया व्यक्तिभागैर् उपकारे प्रवर्तते
सामान्यभाग एवास्याः क्व चिद् अर्थस्य साधकः ॥
कालभिन्नाश् च ये भेदा ये चाप्य् उष्ट्रासिकादिषु
प्रक्रमे जातिभागस्य शब्दात्मा तैर् न भिद्यते ॥
एकसंख्येषु भेदेषु भिन्ना जात्यादिभिः क्रियाः
भेदेन विनियुज्यन्ते तच्छब्दस्य सकृच् छ्रुतौ ॥
अक्षादेषु यथा भिन्ना भक्षिभञ्जिदिविक्रियाः
प्रयोगकालाभेदे ऽपि प्रतिभेदं पृथक् स्थिताः ॥
अक्षिणां तन्त्रिणां तन्त्रम् उपायस् तुल्यरूपता
एषां क्रमो विभक्तानां तन्निबद्धा सकृच् छ्रुतिः ॥
द्वाव् अप्य् उपायौ शब्दानां प्रयोगे समवस्थितौ
क्रमो वा यौगपद्यं वा यौ लोको नातिवर्तते ॥
क्रमे विभज्यते रूपं यौगपद्ये न भिद्यते
क्रिया तु यौगपद्ये ऽपि क्रमरूपानुपातिनी ॥
भेदसंसर्गशक्ती द्वे शब्दाद् भिन्ने इव स्थिते
यौगपद्ये ऽप्य् अनेकेन प्रयोगे भिद्यते श्रुतिः ॥
अभिन्नो रूपभेदेन य एको ऽर्थो विवक्षितः
तस्यावयवधर्मेण समुदायो ऽनुगम्यते ॥
भेदनिर्वचने त्व् अस्य प्रत्येदं वा समाप्यते
श्रुतिर् वचनभिन्ना वा वाक्यभेदे ऽवतिष्ठते ॥
तत्रैकवचनान्तो वा सो ऽक्षशब्दः प्रयुज्यते
प्रत्येकं वा बहुत्वेन प्रविभागो यथाश्रुति ॥
द्विष्ठानि यानि वाक्यानि तेष्व् अप्य् एकत्वदर्शिनाम्
अनेकशक्तेर् एकस्य स्वशक्तिः प्रविभज्यते ॥
अत्यन्तभिन्नयोर् वा स्यात् प्रयोगे तन्त्रलक्षणः
उपायस् तत्र संसर्गः प्रतिपत्तृषु भिद्यते ॥
भेदेनाधिगतौ पूर्वं शब्दौ तुल्यश्रुती पुनः
तन्त्रेण प्रतिपत्तारः प्रयोक्त्रा प्रतिपादिताः ॥
एकस्यापि विवक्षायाम् अनुनिष्पद्यते परः
विनाभिसंधिना शब्दः शक्तिरूपः प्रकाशते ॥
अनेका शक्तिर् एकस्य युगपच् छ्रूयते क्व चित्
अग्निः प्रकाशदाहाभ्याम् एकत्रापि नियुज्यते ॥
आवृत्तिशक्तिभिन्नार्थे वाक्ये सकृद् अपि श्रुते
लिङ्गाद् वा तन्त्रधर्माद् वा विभागो व्यवतिष्ठते ॥
संप्रसारणसंज्ञायां लिङ्गाभ्यां वर्णवाक्ययोः
प्रविभागस् तथा सूत्र एकस्मिन्न् एव जायते ॥
तथा द्विर्वचने ऽचीति तन्त्रोपायाद् अलक्षणः
एकशेषेण निर्देशो भाष्य एव प्रदर्शितः ॥
प्रायेण संक्षेपरुचीन् अल्पविद्यापरिग्रहान्
संप्राप्य वैयाकरणान् संग्रहे ऽस्तम् उपागते ॥
कृते ऽथ पातञ्जलिना गुरुणा तीर्थदर्शिना
सर्वेसं न्यायबीजानां महाभाष्ये निबन्धने ॥
अलब्धगाधे गाम्भीर्याद् उत्तान इव सौष्ठवात्
तस्मिन्न् अकृतबुद्धीनाम् नैवावास्थित निश्चयः ॥
वैजिसौभवहर्यक्षैः शुष्कतर्कानुसारिभिः
आर्षे विप्लाविते ग्रन्थे संग्रहप्रतिकञ्चुके ॥
यः पातञ्जलिशिष्येभ्यो भ्रष्टो व्याकरणागमः
कालेन दाक्षिणात्येषु ग्रन्थमात्रो व्यवस्थितः ॥
पर्वताद् आगमं लब्ध्वा भाष्यबीजानुसारिभिः
स नीतो बहुशाखत्वं चान्द्राचार्यादिभिः पुनः ॥
न्यायप्रस्थानमार्गांस् तान् अभ्यस्य स्वम् च दर्शनम्
प्रणीतो गुरुणास्माकम् अयम् आगमसंग्रहः ॥
वर्त्मनाम् अत्र केषाम् चिद् वस्तुमात्रम् उदाहृतम्
काण्डे तृतीये न्यक्षेन भविष्यति विचारणा ॥
प्रज्ञा विवेकं लभते भिन्नैर् आगमदर्शनैः
कियद् वा शक्यम् उन्नेतुं स्वतर्कम् अनुधावता ॥
तत् तद् उत्प्रेक्षमाणानां पुराणैर् आगमैर् विना
अनुपासितवृद्धानां विद्या नातिप्रसीदति ॥
मूल पाठ: Vākyapadīya · Data entry Yves Ramseier · GRETIL (Göttingen) · CC BY-NC-SA 4.0