वाक्यपदीय · अध्याय 1
अनादिनिधनम् ब्रह्म शब्दतत्त्वं यद् अक्षरम्
विवर्तते ऽर्थभावेन प्रक्रिया जगतो यतः ॥
एकम् एव यद् आम्नातं भिन्नशक्तिव्यपाश्रयात्
अपृथक्त्वे ऽपि शक्तिभ्यः पृथक्त्वेनेव वर्तते ॥
अध्याहितकलां यस्य कालशक्तिम् उपाश्रिताः
जन्मादयो विकाराः षड् भावभेदस्य योनयः ॥
एकस्य सर्वबीजस्य यस्य चेयम् अनेकधा
भोक्तृभोक्तव्यरूपेण भोगरूपेण च स्थितिः ॥
प्राप्त्युपायो ऽनुकारश् च तस्य वेदो महर्षिभिः
एको ऽप्य् अनेकवर्त्मेव समाम्नातः पृथक् पृथक् ॥
भेदानां बहुमार्गत्वं कर्मण्य् एकत्र चाण्गता
शब्दानां यतशक्तित्वं तस्य शाखासु दृष्यते ॥
स्मृतयो बहुरूपास् च दृष्टादृष्टप्रयोजनाः
तम् एवाश्रित्य लिङ्गेभ्यो वेदविद्भिः प्रकल्पिताः ॥
तस्यार्थवादरूपाणि निश्रिताः स्वविकल्पजाः
एकत्विनां द्वैतिनां च प्रवादा बहुधागता ॥
सत्या विसुद्धिस् तत्रोक्ता विद्यैवेकपदागमा
युक्ता प्रणवरूपेण सर्ववादाविरोधिना ॥
विधातुस् तस्य लोकानाम् अङ्गोपाङ्गनिबन्धनाः
विद्याभेदाः प्रतायन्ते ज्नानसंस्कारहेतवः ॥
आसन्नं ब्रह्मणस् तस्य तपसाम् उत्तमं तपः
प्रथमं छन्दसाम् अङ्गम् आहुर् व्याकरणं बुधाः ॥
प्राप्तरूपविभागाया यो वाचः परमो रसः
यत् तत् पुण्यतमं ज्योतिस् तस्य मार्गो ऽयम् आन्जसस्ः ॥
अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम्
तत्त्वावबोद्जः शब्दानं नास्ति व्याकरणाद् ऋते ॥
तद् द्वारम् अपवर्गस्य वाङ्मलानां चिकित्सितम्
पवित्रं सर्वविद्यानाम् अधिविद्यं प्रकासते ॥
यथार्थजातयः सर्वाः सबाकृतिनिबन्धनाः
तथैव लोके विद्यानाम् एसा विद्या परायनम् ॥
इदम् आद्यं पदस्थानं सिद्धिसोपानपर्वणाम्
इयं सा मोक्षमाणानाम् अजिह्मा राजपद्धतिः ॥
अत्रातीतविपर्यासः केवलाम् अनुपस्यति
छन्दस्यस् छन्दसां योनिम् आत्मा छन्दोमयीं तनुम् ॥
प्रत्यस्थमितभेदाया यद् वाचो रूपम् उत्तमम्
यद् अस्मिन्न् एव तमसि ज्योतिः सुद्धं विवर्तते ॥
वैकृतं समति क्रान्ता मूर्तिव्यापारदर्शनम्
व्यतीत्यालोकतमसी प्रकाशं यम् उपासते ॥
यत्र वाचो निमेत्तानि चिह्नानीवाक्षरस्मृतेः
शब्दपूर्वेण योगेन भासन्ते प्रतिबिम्बवत् ॥
अथर्वणाम् अङ्गिरसां सांनाम् ऋग्यजुषस्य च
यस्मिन्न् उच्चावचा वर्णाः पृथक्स्थितपरिग्रहाः ॥
यद् एकं प्रक्रियाभेदैर् बहुधा प्रविभज्यते
तद् व्याकरणं आगम्य परं ब्रह्माधिगम्यते ॥
नित्याः शब्दार्थसंबन्धास् तत्राम्नाता महर्षिभिः
सूत्राणां सानुतन्त्राणां भाष्याणां च प्रणेतृभिः ॥
अपोद्धारपदार्थाः ये ये चार्थाः स्थितलक्षणाः
अन्वाख्येयाश् च ये शब्दा ये चापि प्रतिपादकाः ॥
कार्यकारणभावेन योग्यभावेन च स्थिताः
धर्मे ये प्रत्यये चाङ्गं संबन्धाः साध्वसाधुषु ॥
ते लिङ्गैश् च स्वशब्दैश् च शास्त्रे ऽस्मिन्न् उपवर्णिताः
स्मृत्यर्थम् अनुगम्यन्ते के चिद् एव यथागमम् ॥
शिष्टेभ्य आगमात् सिद्धाः साधवो धर्मसाधनम्
अर्थप्रत्यायनाभेदे विपरीतास् त्व् असाधवः ॥
नित्यत्वे कृतकत्वे वा तेषाम् आदिर् न विद्यते
प्राणिनाम् इव सा चैषा व्यवस्थानित्यतोच्यते ॥
नानर्थिकाम् इमां कश् चिद् व्यवस्थां कर्तुम् अर्हति
तस्मान् निबध्यते शिष्टैः साधुत्वविषया स्मृतिः ॥
न चागमाद् ऋते धर्मस् तर्केण व्यवतिष्ठते
ऋषीणाम् अपि यज् ज्ञानं तद् अप्य् आगमपूर्वकम् ॥
धर्मस्य चाव्यवच्छिन्नाः पन्थानो ये व्यवस्थिताः
न तांल् लोकप्रसिद्धत्वात् कश् चित् तर्केण बाधते ॥
अवस्थादेशकालानां भेदाद् भिन्नासु शक्तिषु
भावानाम् अनुमानेन प्रसिद्धिर् अतिदुर्लभा ॥
निर्ज्ञातशक्तेर् द्रव्यस्य तां तान् अर्थक्रियां प्रति
विशिष्टद्रव्यसंबन्धे सा शक्तिः प्रतिबध्यते ॥
यत्नेनानुमितो ऽप्य् अर्थः कुशलैर् अनुमातृभिः
अभियुक्ततरैर् अन्यैर् अन्यथैवोपपाद्यते ॥
परेषाम् असमाख्येयम् अभ्यासाद् एव जायते
मणिरूप्यादिविज्ञानं तद्विदां नानुमानिकम् ॥
प्रत्यक्षम् अनुमानं च व्यतिक्रम्य व्यवस्थिताः
पितृरक्षःपिशाचानां कर्मजा एव सिद्धयः ॥
आविर्भूतप्रकाशानाम् अनुपप्लुतचेतसाम्
अतीतानागतज्ञानं प्रत्यक्षान् न विशिष्यते ॥
अतीन्द्रियान् असंवेद्यान् पश्यन्त्य् आर्षेण चक्षुषा
ये भावान् वचनं तेषां नानुमानेन बाधते ॥
यो यस्य स्वम् इव ज्ञानं दर्शनं नातिशङ्कते
स्थितं प्रत्यक्षपक्षे तं कथम् अन्यो निवर्तयेत् ॥
इदं पुण्यम् इदं पापम् इत्य् एतस्मिन् पदद्वये
आचण्डालमनुष्याणाम् अल्पं शास्त्रप्रयोजनम् ॥
चैतन्यम् इव यश् चायम् अविच्छेदेन वर्तते
आगमस् तम् उपासीनो हेतुवादैर् न बाध्यते ॥
हस्तस्पर्शाद् इवान्धेन विषमे पथि धावता
अनुमानप्रधानेन विनिपातो न दुर्लभः ॥
तस्माद् अकृतकं शास्त्रं स्मृतिं च सनिबन्धनाम्
आश्रित्यारभ्यते शिष्टैः साधुत्वविषया स्मृतिः ॥
द्वाव् उपादानशब्देषु शब्दौ शब्दविदो विदुः
एको निमित्तं शब्दानाम् अपरो ऽर्थे प्रयुज्यते ॥
अविभक्तो विभक्तेभ्यो जायते ऽर्थस्य वाचकः
शब्दस् तत्रार्थरूपात्मा संबन्धम् उपगच्छति ॥
आत्मभेदं तयोः के चिद् अस्तीत्य् आहुः पुराणगाः
बुद्धिभेदाद् अभिन्नस्य भेदम् एके प्रचक्षते ॥
अरणिस्थं यथा ज्योतिः प्रकाशान्तरकारणम्
तद्वच् छब्दो ऽपि बुद्धिस्थः श्रुतीनां कारणं पृथक् ॥
वितर्कितः पुरा बुद्ध्या क्व चिद् अर्थे निवेशितः
करणेभ्यो विवृत्तेन ध्वनिना सो ऽनुगृह्यते ॥
नादस्य क्रमजातत्वान् न पूर्वो न परश् च सः
अक्रमः क्रमरूपेण भेदवान् इव जायते ॥
प्रतिबिम्बं यथान्यत्र स्थितं तोयक्रियावशात्
तत्प्रवृत्तिम् इवान्वेति स धर्मः स्फोटनादयोः ॥
आत्मरूपं यथा ज्ञाने ज्ञेयरूपं च दृश्यते
अर्थरूपं तथा शब्दे स्वरूपं च प्रकाशते ॥
आण्डभावम् इवापन्नो यः क्रतुः शब्दसंज्ञकः
वृत्तिस् तस्य क्रियारूपा भागशो भजते क्रमम् ॥
यथैकबुद्धिविषया मूर्तिर् आक्रियते पटे
मूर्त्यन्तरस्य त्रितयम् एवं शब्दे ऽपि दृश्यते ॥
यथा प्रयोक्तुः प्राग् बुद्धिः शब्देष्व् एव प्रवर्तते
व्यवसायो ग्रहीतॄणाम् एवं तेष्व् एव जायते ॥
अर्थोपसर्जनीभूतान् अभिधेयेषु केषु चित्
चरितार्थान् परार्थत्वान् न लोकः प्रतिपद्यते ॥
ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा
तथैव सर्वशब्दानाम् एते पृथग् अवस्थिते ॥
विषयत्वम् अनापन्नैः शब्दैर् नार्थः प्रकाश्यते
न सत्तयैव ते ऽर्थानाम् अगृहीताः प्रकाशकाः ॥
अतो ऽनिर्ज्ञातरूपत्वात् किम् आहेत्य् अभिधीयते
नेन्द्रियाणां प्रकाश्ये ऽर्थे स्वरूपं गृह्यते तथा ॥
भेदेनावगृहीतौ द्वौ शब्दधर्माव् अपोद्धृतौ
भेदकारेषु हेतुत्वम् अविरोधेन गच्छतः ॥
वृद्ध्यादयो यथा शब्दाः स्वरूपोपनिबन्धनाः
आदैच्प्रत्यायितैः शब्दैः संबन्धं यान्ति संज्ञिभिः ॥
अग्निशब्दस् तथैवायम् अग्निशब्दनिबन्धनः
अग्निश्रुत्यैति संबन्धम् अग्निशब्दाभिधेयया ॥
यो य उच्चार्यते शब्दो नियतं न स कार्यभाक्
अन्यप्रत्यायने शक्तिर् न तस्य प्रतिबध्यते ॥
उच्चरन् परतन्त्रत्वाद् गुणः कार्यैर् न युज्यते
तस्मात् तदर्थैः कार्याणां संबन्धः परिकल्प्यते ॥
सामान्यम् आश्रितं यद् यद् उपमानोपमेययोः
तस्य तस्योपमानेषु धर्मो ऽन्यो व्यतिरिच्यते ॥
गुणः प्रकर्षहेतुर् यः स्वातन्त्र्येणोपदिश्यते
तस्याश्रिताद् गुणाद् एव प्रकृष्टत्वं प्रतीयते ॥
तस्याभिधेयभावेन यः शब्दः समवस्थितः
तसाप्य् उच्चारणे रूपम् अन्यत् तस्माद् विविच्यते ॥
प्राक् सम्ज्ञिनाभिसंबन्धात् संज्ञा रूपपदार्थिका
षष्ट्याश् च प्रथमायाश् च निमित्तत्वाय कल्पते ॥
तत्रार्थवत्त्वात् प्रथमा संज्ञाशब्दाद् विधीयते
अस्येते व्यतिरेकश् च तदर्थाद् एव जायते ॥
स्वं रूपम् इति कैश् चित् तु व्यक्तिः संज्ञोपदिश्यते
जातेः कार्याणि संसृष्टा जातिस् तु प्रतिपद्यते ॥
संज्ञिनीं व्यक्तिम् इच्छन्ति सूत्रे ग्राह्याम् अथापरे
जातिप्रत्यायिता व्यक्तिः प्रदेशेषूपतिष्ठते ॥
कार्यत्वे नित्यतायां वा के चिद् एकत्ववादिनः
कार्यत्वे नित्यतायां वा के चिन् नानात्ववादिनः ॥
पदभेदे ऽपि वर्णानाम् एकत्वं न निवर्तते
वाक्येषु पदम् एकं च भिन्नेष्व् अप्य् उपलभ्यते ॥
न वर्णव्यतिरेकेण पदम् अन्यच् च विद्यते
वाक्यं वर्णपदाभ्यां च प्रविभागो न कश् चन ॥
पदे न वर्णा विद्यन्ते वर्णेष्व् अवयवा न च
वाक्यात् पदानाम् अत्यन्तं प्रविभागो न कश् चन ॥
भिन्नदर्शनम् आश्रित्य व्यवहारो ऽनुगम्यते
तत्र यन् मुख्यम् एकेषां तत्रान्येषां विपर्ययः ॥
स्फोतस्याभिन्नकालस्य ध्वनिकालानुपातिनः
ग्रहणोपाधिभेदेन वृत्तिभेदं प्रचक्षते ॥
स्वभावभेदान् नित्यत्वे ह्रस्वदीर्घप्लुतादिषु
प्राकृतस्य ध्वनेः कालः शब्दस्येत्य् उपचर्यते ॥
शब्दस्य ग्रहणे हेतुः प्राकृतो ध्वनिर् इष्यते
स्थितिभेदनिमित्तत्वं वैकृतः प्रतिपद्यते ॥
शब्दस्योर्ध्वम् अभिव्यक्तेर् वृत्तिभेदं तु वैकृतः
ध्वनयः समुपोहन्ते स्फोटात्मा तैर् न भिद्यते ॥
इन्द्रियस्यैवसंस्कारः शब्दस्यैवोभवस्य वा
क्रियते ध्वनिभिर् वादास् त्रयो ऽभिव्यक्तिवादिनाम् ॥
इन्द्रियस्यैव संस्कारः समाधानाञ्जनादिभिः
विषयस्य तु संस्कारः तद्गन्धप्रतिपत्तये ॥
चक्षुषः प्राप्यकारित्वे तेजसा तु द्वयोर् अपि
विषयेन्द्रिययोर् इष्टा संस्कारः स क्रमो ध्वनेः ॥
स्फोटरूपाविभागेन ध्वनेर् ग्रहणम् इष्यते
कैश् चित् ध्वनिर् असंवेद्यः स्वतन्त्रो ऽन्यैः प्रकल्पितः ॥
यथानुवाकः श्लोको वा सोढत्वम् उपगच्छते
आवृत्त्या न तु स ग्रन्थः प्रत्यावृत्ति निरूप्यते ॥
प्रत्ययैर् अनुपाख्येयैर् ग्रहणानुगुणैस् तथा
ध्वनिप्रकाशिते शब्दे स्वरूपम् अवधार्यते ॥
नादैर् आहितबीजायाम् अन्त्येन ध्वनिना सह
आवृत्तपरिपाकायां बुद्धौ शब्दो ऽवधार्यते ॥
असतश् चान्तराले याञ् छब्दान् अस्तीति मन्यते
प्रतिपत्तुर् अशक्तिः सा ग्रहणोपाय एव सः ॥
भेदानुकारो ज्ञानस्य वाचश् चोपप्लवो ध्रुवः
क्रमोपसृष्टरूपा वाग् ज्ञानं ज्ञेयव्यपाश्रयम् ॥
*ज्ञेयेन न विना ज्ञानं व्यवहारे ऽवतिष्ठते
नालब्धक्रमया वाचा कश् चिद् अर्थो ऽभिधीयते ॥
यथाद्यसंख्याग्रहणम् उपायः प्रतिपत्तये
संख्यान्तराणां भेदे ऽपि तथा शब्दान्तरश्रुतिः ॥
प्रत्येकं व्यञ्जका भिन्न वर्णवाक्यपदेषु ये
तेषाम् अत्यन्तभेदे ऽपि संकीर्णा इव शक्तयः ॥
यथैव दर्शनैः पूर्वैर् दूरात् संतमसे ऽपि वा
अन्यथाकृत्य विषयम् अन्यथैवाध्यवस्यति ॥
व्यज्यमाने तथा वाक्ये वाक्याभिव्यक्तिहेतुभिः
भागावग्रहरूपेण पूर्वं बुद्धिः प्रवर्तते ॥
यथानुपूर्वीनियमो विकारे क्षीरबीजयोः
तथैव प्रतिपत्तॄणां नियतो बुद्धिषु क्रमः ॥
भागवत्स्व् अपि तेष्व् एव रूपभेदो ध्वनेः क्रमात्
निर्भागेष्व् अभ्युपायो वा भागभेदप्रकल्पनम् ॥
अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृता
कैश् चित् व्यक्तय एवास्य ध्वनित्वेन प्रकल्पिताः ॥
अविकारस्य शब्दस्य निमित्तैर् विकृतो ध्वनिः
उपलब्धौ निमित्तत्वम् उपयाति प्रकाशवत् ॥
न चानित्येष्व् अभिव्यक्तिर् नियमेन व्यवस्थिता
आश्रयैर् अपि नित्यानां जातीनां व्यक्तिर् इष्यते ॥
देशादिभिश् च संबन्धो दृष्टः कायवताम् अपि
देशभेदविकल्पे ऽपि न भेदो ध्वनिशब्दयोः ॥
ग्रहणग्राह्ययोः सिद्धा योग्यता नियता यथा
व्यङ्ग्यव्यञ्जकभावे ऽपि तथैव स्फोटनादयोः ॥
सदृशग्रहणानां च गन्धादीनां प्रकाशकम्
निमित्तं नियतं लोके प्रतिद्रव्यम् अवस्थितम् ॥
प्रकाशकानां भेदांश् च प्रकाश्यो ऽर्थो ऽनुवर्तते
तैलोदकादिभेदे तत् प्रत्यक्षं प्रतिबिम्बके ॥
विरुद्धपरिमाणेषु वज्रादर्शतलादिषु
पर्वतादिसरूपाणां भावानां नास्ति संभवः ॥
तस्माद् अभिन्नकालेषु वर्णवाक्यपदादिषु
वृत्तिकालः स्वकालश् च नादभेदाद् विभज्यते ॥
यः संयोगविभागाभ्यां करणैर् उपजन्यते
स स्फोटः शब्दजाः शब्दा ध्वनयो ऽन्यैर् उदाहृताः ॥
अल्पे महति वा शब्दे स्फोटकालो न भिद्यते
परस् तु शब्दसंतानः प्रचयापचयात्मकः ॥
दूरात् प्रभेव दीपस्य ध्वनिमात्रं तु लक्ष्यते
घण्टादूनां च शब्देषु व्यक्तो भेदः स दृश्यते ॥
द्रव्याभिघातात् प्रचितौ भिन्नौ दीर्घप्लुताव् अपि
कम्पे तूपरते जाता नादा वृत्तेर् विशेषकाः ॥
अनवस्थितकम्पे ऽपि करणे ध्वनयो ऽपरे
स्फोटाद् एवोपजायन्ते ज्वाला ज्वालान्तराद् इव ॥
वायोर् अणूनां ज्ञानस्य शब्दत्वापत्तिर् इष्यते
कैश् चिद् दर्शनभेदो हि प्रवादेष्व् अनवस्थितः ॥
*लब्धक्रियाः प्रयत्नेन वक्तुर् इच्च्चानुवर्तिना
स्थानेष्व् अभिहतो वायुः शब्दत्वं प्रतिपद्यते ॥
*तस्य कारणसामर्थ्याद् वेगप्रचयधर्मणः
संनिपाताद् विभज्यन्ते सारवत्यो ऽपि मूर्तयः ॥
*अणवः सर्वशक्तित्वाद् भेदसंसर्गवृत्तयः
छायातपतमःशब्द भावेन परिणामिनः ॥
*स्वशक्तौ व्यज्यमानायां प्रयत्नेन समीरिताः
अभ्राणीव प्रचीयन्ते शब्दाख्याः परमाणवः ॥
*अथायम् आन्तरो ज्ञाता सूक्ष्मवागात्मनि स्थितः
व्यक्तये स्वस्य रूपस्य शब्दत्वेन विवर्तते ॥
*स मनोभावम् आपद्य तेजसा पाकम् आगतः
वायुम् आविशति प्राणम् अथासौ समुदीर्यते ॥
*अन्तःकरणतत्त्वस्य वायुर् आश्रयतां गतः
तद्धर्मेण समाविष्टस् तेजसैव विवर्तते ॥
*विभजन् स्वात्मनो ग्रन्थीञ् छ्रुतिरूपैः पृथग्विधैः
प्राणो वर्णान् अभिव्यज्य वर्णेष्व् एवोपलीयते ॥
*आत्मा बुद्ध्या समर्थ्यार्थान् मनो युङ्क्ते विवक्षया
मनः कायाग्निम् आहन्ति स प्रेरयति मारुतम् ॥
अजस्रवृत्तिर् यः शब्दः सूक्ष्मत्वान् नोपलभ्यते
व्यजनाद् वायुर् इव स स्वनिमित्तात् प्रतीयते ॥
तस्य प्राणे च या शक्तिर् या च बुद्धौ व्यवस्थिता
विवर्तमाना स्थानिषु सैषा भेदं प्रपद्यते ॥
शब्देष्व् एवाश्रिता शक्तिर् विश्वस्यास्य निबन्धनी
यन्नेत्रः प्रतिभात्मायं भेदरूपः प्रतायते ॥
शब्दादिभेदः शब्देन व्याख्यातो रूप्यते यतः
तस्माद् अर्थविधाः सर्वाः शब्दमात्रासु निश्रिताः ॥
शब्दस्यपरिणामो ऽयम् इत्य् आम्नायविदो विदुः
छन्दोभ्य एव प्रथमम् एतद् विश्वं प्रवर्तते ॥
विभज्य बहुधात्मानं स च्छन्दस्यः प्रजापतिः
छन्दोमयीभिर् मात्राभिर् बहुधैव विवेश तम् ॥
साध्वी वाग् भूयसी येषु पुरुषेषु व्यवस्थिता
अधिकं वर्तते तेषु पुण्यं रूपं प्रजापतेः ॥
प्राजापत्यं महत् तेजस् तत्पात्रैर् इव संवृत्तम्
शरीरभेदे विदुषां स्वां योनिम् उपधावति ॥
यद् एतन् मण्डलं भास्वद् धाम चित्रस्य राधसः
तद्भावम् अभिसंभूय विद्यायां प्रविलीयते ॥
इतिकर्तव्यता लोके सर्वा शब्दव्यपाश्रया
यां पूर्वाहितसंस्कारो बालो ऽपि प्रतिपद्यते ॥
आद्यः कारणविन्यासः प्राणस्योर्ध्वं समीरणम्
स्थानानाम् अभिघातश् च न विना शब्दभावनाम् ॥
न सो ऽस्ति प्रत्ययो लोके यः शब्दानुगमाद् ऋते
अनुविद्धम् इव ज्ञानं सर्वं शब्देन भासते ॥
वाग्रूपता चेत् उत्क्रामेद् अवबोधस्य शाश्वती
न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥
सा सर्वविद्याशिल्पानां कलानां चोपबन्धनी
तद्वशाद् अभिनिष्पन्नं सर्वं वस्तु विभज्यते ॥
सैषा संसारिणां संज्ञा बहिर् अन्तश् च वर्तते
तन्मात्राम् अव्यतिक्रान्तं चैतन्यं सर्वजातिषु ॥
अर्थक्रियासु वाक् सर्वान् समीहयति देहिनः
तदुत्क्रान्तौ विसंज्ञो ऽयं दृश्यते काष्टकुड्यवत् ॥
*भेदोद्ग्राहविवर्तेन लब्धाकारपरिग्रहा
आम्नाता सर्वविद्यासु वाग् एव प्रकृतिः परा ॥
*एकत्वम् अनतिक्रान्ता वाङ्नेत्रा वाङ्निबन्धनाः
पृथक् प्रत्यवभासन्ते वाग्विभागा गवादयः ॥
*षड्द्वारं षडधिष्ठानां [षट्प्र]बोधां षडव्ययाम्
ते मृत्युम् अतिवर्तन्ते ये वै वाचम् उपासते ॥
प्रविभागे यथा कर्ता तया कार्ये प्रवर्तते
अविभागे तथा सैव कार्यत्वेनावतिष्ठते ॥
*प्रविभज्यात्मनात्मानं सृष्ट्वा भावान् पृथग्विधान्
सर्वेश्वरः सर्वमयः स्वप्ने भोक्ता प्रवर्तते ॥
स्वमात्रा परमात्रा वा श्रुत्या प्रक्रम्यते यथा
तथैव रूढताम् एति तया ह्य् अर्थो विधीयते ॥
अत्यन्तम् अतथाभूते निमित्ते श्रुत्यपाश्रयात्
दृश्यते ऽलातचक्रादौ वस्त्वाकारनिरूपणा ॥
अपि प्रयोक्तुर् आत्मानं शब्दम् अन्तर् अवस्थितम्
प्राहुर् महान्तम् ऋषभं येन सायुज्यम् इष्यते ॥
तस्माद् यः शब्दसंस्कारः सा सिद्धिः परमात्मनः
तस्य प्रवृत्तितत्त्वज्ञस् तद् ब्रह्मामृतम् अश्नुते ॥
*प्राणवृत्तिम् अतिक्रान्ते वाचस् तत्त्वे व्यवस्थितः
क्रमसंहारयोगेन संहृत्यात्मानम् आत्मनि ॥
*वाचः संस्कारम् आधाय वाचं ज्ञाने निवेश्य च
विभज्य बन्धनान्य् अस्याः कृत्वा तां छिन्नबन्धनाम् ॥
*ज्योतिर् आन्तरम् आसाद्य च्छिन्नग्रन्थिपरिग्रहः
कारणज्योतिषैकत्वं छित्त्वा ग्रन्थीन् प्रवर्तते ॥
न जात्व् अकर्तृकम् कश् चिद् आगमं प्रतिपद्यते
बीजं सर्वागमापाये त्रय्य् एवातो व्यवस्थिता ॥
अस्तं यातेषु वादेषु कर्तृष्व् अन्येष्व् असत्स्व् अपि
श्रुतिस्मृत्युदितं धर्मं लोको न व्यतिवर्तते ॥
ज्ञाने स्वाभाविके नार्थः शास्त्रैः कश् चन विद्यते
धर्मो ज्ञानस्य हेतुश् चेत् तस्याम्नायो निबन्धनम् ॥
वेदशास्त्राविरोधी च तर्कश् चक्शुर् अपश्यताम्
रूपमात्राद् धि वाक्यार्थः केवलं नातितिष्ठति ॥
सतो ऽविवक्षा पारार्थ्यं व्यक्तिर् अर्थस्य लैङ्गिकी
इति न्यायो बहुविधस् तर्केण प्रविभज्यते ॥
शब्दानाम् एव सा शक्तिस् तर्को यः पुरुषाश्रयः
स शब्दानुगतो न्यायो ऽनागमेष्व् अनिबन्धनः ॥
*यद् उदुम्बरवर्णानां घटीनां मण्डलं महत्
पीतं न गमयेत् स्वर्गं किं तत् क्रतुगतं नयेत् ॥
रूपादयो यथा दृष्टाः पर्यर्थं यतशक्तयः
शब्दास् तथैव दृश्यन्ते विषापहरणादिषु ॥
यथैषां तत्र सामर्थ्यं धर्मे ऽप्य् एवं प्रतीयताम्
साधूनां साधुभिस् तस्माद् वाच्यम् अभ्युदयार्थिनाम् ॥
सर्वो ऽदृष्टफलान् अर्थान् आगमात् प्रतिपद्यते
विपरीतं च सर्वत्र शक्यते वक्तुम् आगमे ॥
साधुत्वज्ञानविषया सेयं व्याकरणस्मृतिः
अविच्छेदेन शिष्टानाम् इदं स्मृतिनिबन्धनम् ॥
वैखर्या मध्यमायाश् च पश्यन्त्याश् चैतद् अद्भुतम्
अनेकतीर्थभेदायास् त्रय्या चाचः परं परम् ॥
*गौर् इव प्रक्षरत्य् एका रसम् उत्तमशालिनी
दिव्यादिव्येन रूपेण भारती गौः शुचिस्मिता ॥
*एतयोर् अन्तरं पश्य सूक्ष्मयोः स्पन्दमानयोः
प्राणापानान्तरे नित्यम् एका सर्वस्य तिष्ठति ॥
*अन्या त्व् अप्रेर्यमाणैव विना प्राणेन वर्तते
जायते हि ततः प्राणो वाचम् आप्याययन् पुनः ॥
*प्राणेनाप्यायिता सैवं व्यवहारनिबन्धनी
सर्वस्योच्छ्वासम् आसाद्य न वाग् वदति कर्हि चित् ॥
*घोषिणी जातनिर्घोषा अघोषा च प्रवर्तते
तयोर् अपि च घोषिण्या निर्घोषैव गरीयसी ॥
*स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा
वैखरी वाक् प्रयोक्तॄणां प्राणवृत्तिनिबन्धना ॥
*केवलं बुद्ध्युपादान क्रमरूपानुपातिनी
प्राणवृत्तिम् अतिक्रम्य मध्यमा वाक् प्रवर्तते ॥
*अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा
स्वरूपज्योतिर् एवान्तः सूक्ष्मा वाग् अनपायिनी ॥
*पीयूषापूर्यमाणापि नित्यम् आगन्तुभिर् मलैः
अन्त्या कलेव सोमस्य नात्यन्तम् अभिधीयते ॥
*यस्यां दृष्टस्वरूपायाम् अधिकारो निवर्तते
पुरुषे षोडशकले ताम् आहुर् अमृतां कलाम् ॥
*प्राप्तोपरागरूपा सा विप्लवैर् अनुषङ्गिभिः
वैखरी सत्त्वमात्रेव गुणैर् न व्यवकीर्यते ॥
तद्विभागाविभागाभ्यां क्रियमाणाम् अवस्थितम्
स्वभावज्ञैस् तु भावानां दृश्यन्ते शब्दशक्तयः ॥
अनादिम् अव्यवच्छिन्नां श्रुतिम् आहुर् अकर्तृकाम्
शिष्टैर् निबध्यमाना तु न व्यवच्छिद्यते स्मृतिः ॥
अविभागाद् विवृत्तानाम् अभिख्या स्वप्नवच् छ्रुतौ
भावतत्त्वं तु विज्ञाय लिङ्गेभ्यो विहिता स्मृतिः ॥
कायवाग्बुद्धिविषया ये मलाः समवस्थिताः
चिकित्सालक्षणाध्यात्म शास्त्रैस् तेषां विशुद्धयः ॥
शब्दः संस्कारहीनो यो गौर् इति प्रयुयुक्ष्यते
तम् अपभ्रंशम् इच्छन्ति विशिष्टार्थनिवेशिनम् ॥
अस्वगोण्यादयः शब्दाः साधवो विषयान्तरे
निमित्तभेदात् सर्वत्र साधुत्वं च व्यवस्थितम् ॥
ते साधुष्व् अनुमानेन प्रत्ययोत्पत्तिहेतवः
तादात्म्यम् उपगम्येव शब्दार्थस्य प्रकाशकाः ॥
न शिष्टैर् अनुगम्यन्ते पर्याया इव साधवः
ते यतः स्मृतिशास्त्रेण तस्मात् साक्षाद् अवाचकाः ॥
अंब्वंब्व् इति यथा बालः शिक्षमाणो ऽपभाषते
अव्यक्तं तद्विदां तेन व्यक्तौ भवति निश्चयः ॥
एवं साधौ प्रयोक्तव्ये यो ऽपभ्रंशः प्रयुज्यते
तेन साधुव्यवहितः कश् चिद् अर्थो ऽभिधीयते ॥
पारंपर्याद् अपभ्रंशा विगुणेष्व् अभिधातृषु
प्रसिद्धिम् आगता येन तेषां साधुर् अवाचकः ॥
दैवी वाग् व्यतिकीर्णेयम् अशक्तैर् अभिधातृभिः
अनित्यदर्शिनां त्व् अस्मिन् वादे बुद्धिविपर्ययः ॥
उभयेषाम् अविच्छेदाद् अन्यशब्दविवक्षया
यो ऽन्यः प्रयुज्यते शब्दो न सो ऽर्थस्याभिधायकः ॥
मूल पाठ: Vākyapadīya · Data entry Yves Ramseier · GRETIL (Göttingen) · CC BY-NC-SA 4.0