भाषा

ENहिગુ
ग्रंथ पाठ

वैशेषिकसूत्र · अध्याय 9

9.1

क्रियागुणव्यपदेशाभावाद् असत्

9.2

सद् असत्

9.3

असतः सत् क्रियागुणव्यपदेशाभावाद् अर्थान्तरम् (शभावाद् ?)

9.4

सच् चासत्

9.5

यच् चान्यत् सतस् तद् अप्य् असत्

9.6

असद् इति भूतप्रत्यक्षाभावाद् भूतस्मृतेर् विरोधिप्रत्यक्षत्वाच् च ज्ञानम्

9.7

तथाबावे भावप्रत्यक्षत्वाच् च

9.8

एतेनाघटो ऽगौर् अधर्मश् च व्याख्यातः

9.9

अभूतं नास्तीत्य् अनर्थान्तरम्

9.10

नास्ति घटो गेह इति सतो घटस्य गेहसंयोगप्रतिषेधः

9.11

नास्त्य् अन्यश् चन्द्रमा इति सामान्याच् चन्द्रमसः प्रतिषेधः

9.12

सद् असतोर् वैधर्म्यात् कार्ये सद् असत्ता न

9.13

आत्मन्य् आत्ममनसोः संयोगविशेषाद् आत्मप्रत्यक्षम्

9.14

तथा द्रव्यान्तरेषु

9.15

आत्मेन्द्रियमनोऽर्थसन्निकर्षाच् च

9.16

तत्समवायात् कर्मगुणेषु

9.17

आत्मसमवायाद् आत्मगुणेषु

9.18

अस्येदं कार्यं कारणं संबन्ध्य् एकार्ह्तसमवायि विरोधि चेति लैङ्गिकम्

9.19

एतेन शाब्दं व्याख्यातम्

9.20

हेतुर् अपदेशो लिङ्गं निमित्तं प्रमाणं कारणम् इत्य् अनर्थान्तरम्

9.21

अस्येदम् इति बुद्ध्यपेक्षत्वात्

9.22

आत्ममनसोः संयोगविशेषात् संस्काराच् च स्मृतिः

9.23

तथा स्वप्नः स्वप्नान्तिकं च

9.24

धर्माच् च

9.25

इन्द्रियदोषात् संस्काराच् चाविद्या

9.26

तद् दुष्टं ज्ञानम्

9.27

अदुष्टं विद्या

9.28

आर्षं सिद्धदर्शनं च धर्मेभ्यः

मूल पाठ: Vaiśeṣikasūtra · Data entry Nozawa Masanobu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc