वैशेषिकसूत्र · अध्याय 10
आत्मसमवायः सुखदुःखयोः पञ्चभ्यो ऽर्थान्तरत्वे हेतुस् तदाश्रयिभ्यश् च गुणेभ्यः
इष्टानिष्टकारणविशेषाद् विरोधाच् च मिथः सुखदुःखयोर् अर्थान्तरभावः
संशयनिर्णययोर् अर्थान्तरभावश् च ज्ञानान्तरत्वे हेतुः
तयोर् निष्पत्तिः प्रत्यक्षलैङ्गिकाभ्यां ज्ञानान्तरत्वे हेतुः
भूतम् इति प्रत्यक्षं व्याख्यातम्
भविष्यतीति कार्यान्तरे दृष्टत्वात्
तथा भवतीति सापेक्षेभ्यो ऽनपेक्षेभ्यश् च
अभूद् इत्य् अभूतात्
सति च कार्यासमवायात्
एकार्थसमवायिषु कारणान्तरेषु दर्शनाद् एकदेश इत्य् एकस्मिन्
शिरः पृष्ठम् उदरं पाणिर् इति तद्विशेषेभ्यः
कारणम् इति द्रव्ये कार्यसमवायात्
संयोगात् वा
कारणसमवायात् कर्मणि
तथा रूपे कारणकारणसमवायाच् च
कारणसमवायात् संयोगे
तथा कारणाकारणसमवायाच् च
संयुक्तसमवायाद् अग्नेर् वैशेषिकम्
लैङ्गिकं प्रमाणं व्याख्यातम्
दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगो ऽभ्युदयाय (स् ओमित्स् दृष्टप्रयोजनानां)
तद्वचनाद् आम्नायप्रामाण्यम् इति (उ,स् आम्नायस्य प्रामाण्यम्)
मूल पाठ: Vaiśeṣikasūtra · Data entry Nozawa Masanobu · GRETIL (Göttingen) · CC BY-NC-SA 4.0