भाषा

ENहिગુ
ग्रंथ पाठ

वैशेषिकसूत्र · अध्याय 8

8.1

द्रव्येषु ज्ञानं व्याख्यातम्

8.2

मन आत्मा च

8.3

ज्ञाननिर्देशे ज्ञाननिष्पत्तिर् उक्ता

8.4

गुणकर्मस्व् असन्निकृष्टेषु ज्ञाननिष्पत्तेर् द्रव्यं कारणं कारणकारणं च

8.5

सामान्यविशेषेषु सामान्यविशेषाभावात् तत एव ज्ञानम्

8.6

सामान्यविशेषापेक्षं द्रव्यगुणकर्मसु

8.7

द्रव्ये द्रव्यगुणकर्मापेक्षम्

8.8

गुणकर्मसु गुणकर्माभावद् गुणकर्मापेक्षं न विद्यते

8.9

समवायिनः श्वैत्याच् छ्वैत्यबुद्धेः श्वेते बुद्धिस् ते कार्यकारणभूते

8.10

द्रव्येष्व् अनितरेतरकारणात् कारणायौगपद्यात्

8.11

तथा द्रव्यगुणकर्मसु कारणाविशेषात्

8.12

अयम् एष कृतं त्वया भोजयाइनम् इति बुद्ध्यपेक्षं

8.13

दृष्टेषु भावाद् अदृष्टेष्व् अभावात्

8.14

अर्थ इति द्रव्यगुणकर्मसु

8.15

द्रव्येषु पञ्चात्मकं प्रत्युक्तम्

8.16

भूयस्त्वाद् गन्धवत्त्वाच् च पृथिवी गन्धज्ञाने

8.17

तथापस् तेजो वायुश् च रसरूपस्पर्शज्ञानेषु रसरूपस्पर्शविशेषात्

मूल पाठ: Vaiśeṣikasūtra · Data entry Nozawa Masanobu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc