वैशेषिकसूत्र · अध्याय 7.2
रूपरसगन्धस्पर्शव्यतिरेकाद् अर्थान्तरम् एकत्वं तथा पृथक्त्वम्
तयोर् नित्यत्वानित्यत्वे तेजसो रूपस्पर्शाभ्यां व्याख्याते
निष्पत्तिश् च
एकत्वपृथक्त्वयोर् एकत्वपृथक्त्वाभावो
कर्मभिः कर्माणि गुणैर् गुणाः
निःसंख्यत्वात् कर्मगुणानां सर्वैकत्वं न विद्यते
एकत्वस्याभावाद् भाक्तं न विद्यते
कार्यकारणैकत्वपृथक्त्वाभावाद् एकत्वपृथक्त्वे न विद्येते
एतद् अनित्यनितयोर् व्याख्यातम्
अन्यतरकर्मज उभयकर्मजः संयोगजश् च संयोगः
एतेन विभागो व्याख्यातः
संयोगविभागयोः संयोगविभागाभावो ऽणुत्वमहत्त्वाभ्यां व्याख्यातः
कर्मभिः कर्माणि गुणैर् गुणाः
युतसिद्ध्यभावात् कार्यकारणयोः संयोगविभागौ न विद्येते
गुणत्वात्
गुणे च भाष्यते
निष्क्रियत्वात्
असति नास्तीति च प्रयोगात्
शब्दार्थाव् असंबद्धौ
संयोगिनो दण्डात् समवायिनो विषाणाच् च
दृष्टत्वाद् अहेतुः प्रत्ययः
तथा प्रत्ययाभावः
संबद्धसंबन्धाद् इति चेत् सन्देहः
सामयिकः शब्दाद् अर्थप्रत्ययः
एकदिक्कालाभ्यां सन्निकृष्टविप्रकृष्टाभ्यां परम् अपरम्
कारणपरत्वात् कारणापरत्वाच् च
परत्वापरत्वयोः परत्वापरत्वाभावो ऽणुत्वमहत्त्वाभ्यां व्याख्यातः
कर्मभिः कर्माणि गुणैर् गुणाः
इहेति यतः कार्यकारणयोः स समवायः
द्रव्यत्वगुणत्वकर्मत्वप्रतिषेधो भावेन व्याख्यातः
तत्त्वं च
मूल पाठ: Vaiśeṣikasūtra · Data entry Nozawa Masanobu · GRETIL (Göttingen) · CC BY-NC-SA 4.0