भाषा

ENहिગુ
ग्रंथ पाठ

वैशेषिकसूत्र · अध्याय 7.1

7.1.1

उक्ता गुणाः

7.1.2

गुणलक्षणं चोक्तम्

7.1.3

इदम् एवंगुणम् इदम् एवंगुणम् इति चोक्तम्

7.1.4

पृथिव्यां रूपरसगन्धस्पर्शा द्रव्यानित्यत्वाद् अनित्याः

7.1.5

अग्निसंयोगाच् च

7.1.6

गुणान्तरप्रादुर्भावात्

7.1.7

एतेन नित्येष्व् अनित्यत्वम् उक्तम्

7.1.8

अप्सु तेजसि वायौ च नित्या द्रव्यनित्यत्वात्

7.1.9

अनित्येष्व् अनित्या द्रव्यानित्यत्वात्

7.1.10

कारणगुणपूर्वाः पृथिव्यां पाकजाश् च

7.1.11

अप्सु तेजसि वायौ च कारणगुणपूर्वाः पाकजा न विद्यन्ते

7.1.12

अगुणवतो द्रव्यस्य गुणारम्भात् कर्मगुणा अगुणाः

7.1.13

एतेन पाकजा व्याख्याताः

7.1.14

एकद्रव्यवत्त्वात्

7.1.15

अणोर् महतश् चोपलब्ध्यनुपलब्धी नित्ये व्याख्याते

7.1.16

कारणबहुत्वात् कारणमहत्त्वात् प्रचयविशेषाच् च महत्

7.1.17

तद्विपरीतम् अणु

7.1.18

अणु महद् इति तस्मिन् विशेषभावाद् विशेषाभावाच् च

7.1.19

एककालत्वात्

7.1.21

अणुत्वमहत्त्वयोर् अणुत्वमहत्त्वाभावः कर्मगुणैर् व्याख्यातः

7.1.22

अणुत्वमहत्त्वाभ्यां कर्मगुणा अगुणाः

7.1.23

एतेन दीर्घत्वह्रस्वत्वे व्याख्याते

7.1.24

कर्मभिः कर्माणि गुणैर् गुणाः

7.1.25

तद् अनित्ये

7.1.26

नित्यं परिमण्डलम्

7.1.27

अविद्या विद्यालिङ्गम्

7.1.28

विभवान् महान् आकाशः

7.1.29

तथा चात्मा

7.1.30

तदभावाद् अणु मनः

7.1.31

गुणैर् दिग् व्याख्याता

7.1.32

कारणेन कालः

मूल पाठ: Vaiśeṣikasūtra · Data entry Nozawa Masanobu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc