वैशेषिकसूत्र · अध्याय 6.2
दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगो ऽभ्युदयाय.(च्,व्) (उ दृष्टादृष्टप्रयोजनानां दृष्टाभावे प्रयोजनम् अभ्युदयाय.)
अभिषेचनोपवासब्रह्मचर्यगुरुकुलवासवानप्रस्थ्ययज्ञदानप्रोक्षणदिङ्नक्षत्रमन्त्रकालनियमाश् चादृष्टाय
चातुराश्रम्यम् उपधाच् चानुपधाच् च।
भावदोष उपधा
अदोषो ऽनुपधा
इष्टरूपरसगन्धस्पर्शं प्रोक्षितम् अभ्युक्षितं च तच् छुचि
अशुचीति शुचिप्रतिषेधः
अर्थान्तरं च
अयतस्य शुचिभोजनाद् अभ्युदयो न विद्यते यमाभावात्
विद्यते चानर्थान्तरत्वाद् यमस्य
असति चाभावात्
सुखाद् रागः
तन्मयत्वात्
तृप्तेः
अदृष्टात्
जातिविशेषाच् च रागविशेषः
इच्छाद्वेषपूर्विका धर्माधर्मयोः प्रवृत्तिः
ततः संयोगो विभागश् च
आत्मकर्मसु मोक्षो व्याख्यातः
मूल पाठ: Vaiśeṣikasūtra · Data entry Nozawa Masanobu · GRETIL (Göttingen) · CC BY-NC-SA 4.0