भाषा

ENहिગુ
ग्रंथ पाठ

वैशेषिकसूत्र · अध्याय 5.2

5.2.1

नोदनाद् अभिघातात् संयुक्तसंयोगाच् च पृथिव्यां कर्म

5.2.2

तद् विशेषेणादृष्टकारितम्

5.2.3

अपां संयोगाभावे गुरुत्वात् पतनम्

5.2.4

तद् विशेषेणादृष्टकारितम्

5.2.5

द्रवत्वात् स्यन्दनम्

5.2.6

नाड्या वायुसंयोगाद् आरोहणम्

5.2.7

नोदनात् पीडनात् संयुक्तसंयोगाच् च

5.2.8

वृक्षाभिसर्पणम् इत्य् अदृष्टकारितम्

5.2.9

अपां सङ्घातो विलयनं च तेजसः संयोगात्

5.2.10

तत्रावस्फूर्जथुर् लिङ्गम्

5.2.11

वैदिकं च

5.2.12

अपां संयोगाद् विभागाच् च स्तनयित्नुः

5.2.13

पृथिवीकर्मणा तेजःकर्म वायुकर्म च व्याख्यातम्

5.2.14

अग्नेर् ऊर्ध्वज्वलनं वायोश् च तिर्यग्पवनम् अणुमनसोश् चाद्यं कर्मेत्य् अदृष्टकारितानि

5.2.15

हस्तकर्मणा मनसः कर्म व्याख्यातम्

5.2.16

आत्मेन्द्रियमनोऽर्थसन्निकर्षात् सुखदुःखे तदनारम्भः

5.2.17

आत्मस्थे मनसि सशरीरस्य सुखदुःखाभावः स योगः

5.2.18

कायकर्मणात्मकर्म व्याख्यातम्

5.2.19

अपसर्पणम् उपसर्पणम् अशितपीतसंयोगः कार्यान्तरसंयोगाश् चेत्य् अदृष्टकारितानि

5.2.20

तदभावे संयोगाभावो ऽप्रादुर्भावः स मोक्षः

5.2.21

द्रव्यगुणकर्मवैधर्म्याद् भावाभावमात्रं तमः

5.2.22

तेजसो द्रव्यान्तरेणावरणाच् च

5.2.23

दिक्कालाव् आकाशं च क्रियावद्भ्यो वैधर्म्यान् निष्क्रियाणि

5.2.24

एतेन कर्माणि गुणाश् च व्याख्याताः

5.2.25

निष्क्रियाणां समवायः कर्मभ्यः प्रतिषिद्धः

5.2.26

कारणं त्व् असमवायिनो गुणाः

5.2.27

गुणैर् दिग् व्याख्याता

5.2.28

कारणेन कालः

मूल पाठ: Vaiśeṣikasūtra · Data entry Nozawa Masanobu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc