भाषा

ENहिગુ
ग्रंथ पाठ

वैशेषिकसूत्र · अध्याय 6.1

6.1.1

बुद्धिपूर्वा वाक्यकृतिर् वेदे

6.1.2

न चास्मद्बुद्धिभ्यो लिङ्गम् ऋषेः

6.1.3

तथा ब्राह्मणे संज्ञाकर्मसिद्धिर् लिङ्गम्

6.1.4

बुद्धिपूर्वो ददातिः

6.1.5

तथा प्रतिग्रहः

6.1.6

तयोः क्रमो यथानितरेतराङ्गभूतानाम्

6.1.7

आत्मगुणेष्व् आत्मान्तरगुणानाम् अकारणत्वात्

6.1.8

अदुष्टभोजनात् समभिव्याहारतो ऽभ्युदयः

6.1.9

तद् दुष्टभोजने न विद्यते

6.1.10

दुष्टं हिंसायाम्

6.1.11

समभिव्याहारतो दोषः

6.1.12

तद् अदुष्टे न विद्यते

6.1.13

विशिष्टे प्रवृत्तिः

6.1.14

समे हीने चाप्रवृत्तिः

6.1.15

एतेन हीनसमविशिष्तधार्मिकेभ्यः परादानं व्याख्यातम्

6.1.16

तथा विरुद्धानां त्यागः

6.1.17

सम आत्मत्यागः परत्यागो वा

6.1.18

विशिष्टे आत्मत्यागः

मूल पाठ: Vaiśeṣikasūtra · Data entry Nozawa Masanobu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc