वैशेषिकसूत्र · अध्याय 5.1
आत्मसंयोगप्रयत्नाभ्यां हस्ते कर्म
तथा मुसलकर्म हस्तसंयोगाच् च
अभिघातजे मुसलकर्मणि व्यतिरेकाद् अकारणं हस्तसंयोगः
तथात्मसंयोगो हस्तमुसलकर्मणि
मुसलाभिघातात् तु मुसलसंयोगाद् धस्ते कर्म
तथात्मकर्म हस्तसंयोगाच् च
संयोगाभावे गुरुत्वात् पतनम्
नोदनविशेषाभावाद् नोर्ध्वं न तिर्यग् गमनम्
प्रयत्नविशेषान् नोदनविशेषः
नोदनविशेषाद् उदसनविशेषः
हस्तकर्मणा दारककर्म व्याख्यातम्
तथा दग्धस्य विस्फोटनम्
प्रयत्नाभावे गुरुत्वात् सुप्तस्य पतनम्
तृणकर्म वायुसंयोगात्
मणिगमनं सूच्यभिसर्पणम् इत्य् अदृष्टकारितानि
इषाव् अयुगपत् संयोगविशेषाः कर्मान्यत्वे हेतुः
नोदनाद् आद्यम् इषोः कर्म कर्मकारिताच् च संस्काराद् उत्तरं तथोत्तरम् उत्तरं च
संस्काराभावे गुरुत्वात् पतनम्
मूल पाठ: Vaiśeṣikasūtra · Data entry Nozawa Masanobu · GRETIL (Göttingen) · CC BY-NC-SA 4.0