ग्रंथ पाठ
वैशेषिकसूत्र · अध्याय 4.2
4.2.1
प्रत्यक्षाप्रत्यक्षाणाम् अप्रत्यक्षत्वात् संयोगस्य पञ्चात्मकं न विद्यते
4.2.2
गुणान्तराप्रादुर्भावाच् च त्र्यात्मकम् अपि न
4.2.3
आत्मसंयोगस् त्व् अविप्रतिषिद्धो मिथः पञ्चानाम्
4.2.4
अनेकदेशपूर्वकत्वात्
4.2.5
धर्मविशेषात्
4.2.6
कार्यविशेषात्
4.2.7
समाख्याभावात्
4.2.8
संज्ञादिमत्त्वात्
4.2.9
सन्त्य् अयोनिजा वेदलिङ्गाच् च
मूल पाठ: Vaiśeṣikasūtra · Data entry Nozawa Masanobu · GRETIL (Göttingen) · CC BY-NC-SA 4.0