ग्रंथ पाठ
वैशेषिकसूत्र · अध्याय 4.1
4.1.1
सद् अकारणवत् तन् नित्यम्
4.1.2
तस्य कार्यं लिङ्गम्
4.1.3
कारणभावाद् धि कार्यभावः
4.1.4
अनित्यम् इति च विशेषप्रतिषेधभावः
4.1.5
अविद्या च
4.1.6
महत्य् अनेकद्रव्यवत्त्वाद् रूपाच् चोपलब्धिः
4.1.7
अद्रव्यवत्त्वात् परमाणाव् अनुपलब्धिः
4.1.8
रूपसंस्काराभावाद् वायाव् अनुपलब्धिः
4.1.9
अनेकद्रव्येण द्रव्येण समवायाद् रूपविशेषाच् चोपलब्धिः
4.1.10
एतेन रसगन्धस्पर्शेषु ज्ञानं व्याख्यातम्
4.1.11
तदभावाद् अव्यभिचारः
4.1.12
संख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म च रूपिद्रव्यसमवायाच् चाक्षुषाणि
4.1.13
अरूपिष्व् अचाक्षुषत्वात्
4.1.14
एतेन गुणत्वे भावे च सर्वेन्द्रियज्ञानं व्याख्यातम्
मूल पाठ: Vaiśeṣikasūtra · Data entry Nozawa Masanobu · GRETIL (Göttingen) · CC BY-NC-SA 4.0