भाषा

ENहिગુ
ग्रंथ पाठ

वैशेषिकसूत्र · अध्याय 3.2

3.2.1

आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्याभावो भावश् च मनसो लिङ्गम्

3.2.2

द्रव्यत्वनित्यत्वे वायुना व्याख्याते

3.2.3

प्रयत्नायौगपद्याज् ज्ञानायौगपद्याच् चैकं मनः

3.2.4

प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखे इच्छाद्वेषौ प्रयत्नश् चेत्य् आत्मलिङ्गानि

3.2.5

द्रव्यत्वनित्यत्वे वायुना व्याख्याते

3.2.6

यज्ञदत्त इति सति सन्निकर्षे प्रत्यक्षाभावाद् दृष्टं लिङ्गं न विद्यते

3.2.7

सामान्यतोदृष्टाच् चाविशेषः

3.2.8

तस्माद् आगमिकम्

3.2.9

अहम् इति शब्दव्यतिरेकान् नागमिकम्

3.2.10

यदि च दृष्टप्रत्यक्षो ऽहं देवदत्तो ऽहं यज्ञदत्त इति

3.2.11

देवदत्तो गच्छति विष्णुमित्रो गच्छतीति चोपचाराच् छरीरप्रत्यक्षः

3.2.12

सन्दिग्धस् तूपचारः

3.2.13

अहम् इति प्रत्यगात्मनि भावात् परत्राभावाद् अर्थान्तरप्रत्यक्षः

3.2.14

न तु शरीरविशेषाद् यज्ञदत्तविष्णुमित्रयोर् ज्ञानविशेषः

3.2.15

सुखदुःखज्ञाननिष्पत्त्यविशेषाद् ऐकात्म्यम्

3.2.16

नाना व्यवस्थातः

3.2.17

शास्त्रसामर्थ्याच् च

मूल पाठ: Vaiśeṣikasūtra · Data entry Nozawa Masanobu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc