भाषा

ENहिગુ
ग्रंथ पाठ

वैशेषिकसूत्र · अध्याय 3.1

3.1.1

प्रसिद्धा इन्द्रियार्थाः

3.1.2

इन्द्रियार्थप्रसिद्धिर् इन्द्रियार्थेभ्यो ऽर्थान्तरत्वे हेतुः

3.1.3

सो ऽनपदेशः

3.1.4

कारणाज्ञानात्

3.1.5

कार्याज्ञानात्

3.1.6

अज्ञानाच् च

3.1.7

अन्य एव हेतुर् इत्य् अनपदेशः

3.1.8

संयोगि समवाय्य् एकार्थसमवायि विरोधि च, कार्यं कार्यान्तरस्य, कारणं कारणान्तरस्य, विरोध्य् अभूतं भूतस्य, भूतम् अभूतस्य, अभूतम् अभूतस्य, भूतं भूतस्य

3.1.9

प्रसिद्धपूर्वकत्वाद् अपदेशस्य

3.1.10

अप्रसिद्धो ऽनपदेशः

3.1.11

असन् सन्दिग्धश् चानपदेशः

3.1.12

विषाणी तस्माद् अश्वो विषाणी तस्माद् गौर् इति च

3.1.13

आत्मेन्द्रियमनोऽर्थसन्निकर्षाद् यन् निष्पद्यते तद् अन्यत्

3.1.14

प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि दृष्टे परत्र लिङ्गम्

मूल पाठ: Vaiśeṣikasūtra · Data entry Nozawa Masanobu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc