भाषा

ENहिગુ
ग्रंथ पाठ

वैशेषिकसूत्र (अन्य संस्करण) · अध्याय 8.1

8.1.1

द्रव्येषु ज्ञानं व्याख्यातम्

8.1.2

तत्रात्मा मनश्चाप्रत्यक्षे

8.1.3

ज्ञाननिर्देशे ज्ञाननिष्पत्तिविधिरुक्तः

8.1.4

गुणकर्मसु सन्निकृष्टेषु ज्ञाननिष्पत्तेः द्रव्यं कारणम्

8.1.5

सामान्यविशेषेषु सामान्यविशेषाभावात् तदेव ज्ञानम्

8.1.6

सामान्यविशेषापेक्षं द्रव्यगुणकर्मसु

8.1.7

द्रव्ये द्रव्यगुणकर्मापेक्षम्

8.1.8

गुणकर्मसु गुणकर्माभावात् गुणकर्मापेक्षं न विद्यते

8.1.9

समवायिनः श्वैत्याच्छ्वैत्य बुद्धेश्च श्वेते बुद्विस्ते एते कार्यकारणभूते

8.1.10

द्रव्येष्वनितरेतरकारणाः

8.1.11

कारणायौगपद्यात् कारणक्रमाच्च घटपटादिबुद्धीनां क्रमो न हेतुफलभावात्

मूल पाठ: Vaiśeṣikasūtra · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc