वैशेषिकसूत्र (अन्य संस्करण) · अध्याय 7.2
रुपरसगन्धस्पर्शव्यतिरेकादर्थान्तरमेकत्वम्
तथा पृथक्त्वम्
एकत्वैकपृथक्त्वयोरेकत्वैकपृथक्त्वाभावो ऽणुत्वमहत्त्वाभ्यां व्याख्यातः
निः संख्यत्वात् कर्मगुणानां सर्वैकत्वं न विद्यते
भ्रान्तं तत्
एकत्वाभावाद्भक्तिस्तु न विद्यते
कार्यकारणयोरेकत्वैकपृथक्त्वाभावादेकत्वैकपृथक्त्वं न विद्यते
एतदनित्ययोर्व्याख्यातम्
अन्यतरकर्मज उभकर्मजः संयोगजश्च संयोगः
एतेन विभागो व्याख्यातः
संयोगविभागयोः संयोगविभागाभावः अणुत्वमहत्त्वाभ्यां व्याख्यातः
कर्मभिः कर्माणि गुणैर्गुणा अणुत्व महत्त्वाभ्यामिति
युतसिद्ध्यभावात् कार्यकारणयोः संयोगविभागौ न विद्येते
गुणत्वात्
गुणो ऽपि विभाव्यते
निष्क्रियत्वात्
असति नास्तीति च प्रयोगात्
शब्दार्थावसम्बन्धौ
संयोगिनो दण्डात् समवायिनो विशेषाच्च
सामयिकः शब्दादर्थप्रत्ययः
एकदिक्काभ्यामेककालाभ्यां सन्निकृष्टविप्रकृष्टाभ्यां परमपरञ्च
कारणपरत्वात् कारणापरत्वाच्च
परत्वापरत्वयोः परत्वापरत्वाभावो ऽणुत्वमहत्त्वाभ्यां व्याख्यातः
कर्मभिः कर्माणि
गुणैर्गुणाः
इहेदमिति यतः कार्यकारणयोः स समवायः
तत्त्वम्भावेन
मूल पाठ: Vaiśeṣikasūtra · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0