ग्रंथ पाठ
वैशेषिकसूत्र (अन्य संस्करण) · अध्याय 8.2
8.2.1
अयमेष त्वया कृतं भोजयैनं इति बुद्ध्यपेक्षम्
8.2.2
दृष्टेषु भावाददृष्टेष्वभावात्
8.2.3
अर्थ इति द्रव्यगुणकर्मसु
8.2.4
द्रव्येषु पञ्चात्मकत्वं प्रतिषिद्धम्
8.2.5
भूयस्त्वात् गन्धवत्त्वाच्च पृथिवी गन्धज्ञाने प्रकृतिः
8.2.6
तथापस्तेजो वायुश्च रसरूपस्पर्शाविशेषात्
मूल पाठ: Vaiśeṣikasūtra · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0