भाषा

ENहिગુ
ग्रंथ पाठ

वैराग्यशतकम् · श्लोक 61-80

61

कोपो मैत्रावरुणेः शापो वा तार्किकस्य मुनेः ।
संस्मर्यते यदि सकृच्छत्रोरपि मास्तु शक्रपदम्

62

गच्छत्यमरावत्यां गच्छतु चतुराननस्य वा नगरे ।
पुनरागन्तव्यं यदि पुंसा किं साधितं भवति

63

भुक्ता बहवो दारा लब्धाः पुत्राश्च पौत्राश्च ।
नीतं शतमप्यायुः सत्यं वद मर्तुमस्ति मनः

64

विश्लेषणस्वभावान्पश्यन्विषयान्करोति को ममताम् ।
नश्यदवस्थापन्नं कः क्रीणीते धनैरश्वम्

65

अन्नाभावे मृत्युः शालिभिरन्नानि शालयो वृष्ट्या ।
वृष्टिस्तपसेति वदन्नमृत्यवे तत्तपश्चरतु

66

किं न निगृह्णन्ति मनः किं न भजन्ते जनाः शिवं शरणम् ।
अभिसंधिभेदमात्रान्मोक्षोपाये न बध्यन्ते

67

भोगाय पामराणां योगाय विवेकिनां शरीरमिदम् ।
भोगाय च योगाय च न कल्पते दुर्विदग्धानाम्

68

ब्राह्मणचण्डाला इत्याह मुनिर्यन्महापथिकान् ।
भवमार्गमहापथिकानधिकृत्यैव प्रवर्तितं चैतत्

69

एकद्वाः क्षितिपतिषु द्वित्रा देवेषु पञ्चषा द्रुहिणे ।
एतावन्तो जगति ब्रह्मानन्दार्णवस्य कणाः

70

अज्ञानेनापिहिते विज्ञाने कर्म किं कुरुते ।
विकले चक्षुषि तमसा व्यादाय मुखं किमीक्षेत

71

अतिकलुषमाशुनश्वरमापातस्फुरणमनभिलाषकरम् ।
अपि हृष्यन्ति जनाः कथमवलम्ब्य ज्ञानखद्योतम्

72

अयुतं नियुतं वापि प्रदिशन्तु प्राकृताय भोगाय ।
क्रीणन्ति न बिल्वदलैः कैवल्यं पञ्चषैर्मूढाः

73

यावत्किल चेष्टन्ते तावत्पाशे निबध्यते ग्रन्थिः ।
निभृतं यदि वर्तन्ते कालेन स्रंसते पाशः

74

उपरुन्धन्ति श्वासान्मुनयो नाश्नन्ति न पिबन्ति ।
स्तूयन्ते सुजनैः किं कण्ठे कुर्वन्ति कनकपाशमिमे

75

कामं जनाः स्मयन्ते कैलासविलासवर्णनावसरे ।
साधनकथनावसरे साचीकुर्वन्ति वक्त्राणि

76

वङ्गाः कथमङ्गाः कथमित्यनुयुङ्क्ते वृथा देशान् ।
कीदृक्कृतान्तपुरमिति को ऽपि न जिज्ञासते लोकः

77

त्यक्तव्यो ममकारस्त्यक्तुं यदि शक्यते नासौ ।
कर्तव्यो ममकारः किं तु स सर्वत्र कर्तव्यः

78

पुत्रा इति दारा इति पोष्यान्मूर्खो जनान्ब्रूते ।
अन्धे तमसि निमज्जन्नात्मा पोष्य इति नावैति

79

यच्चिन्तितमधिगर्भं यच्च चिरं चिन्तितं नरके ।
विषयानिलसंसर्गान्ममृजे तत्सर्वमेकपदे

80

बाह्यगतागतशीला प्राणस्य श्वासलक्षणा वृत्तिः ।
कर्षति मनसो वृत्तिं कुलटेव कुलस्त्रियं मुग्धाम्

मूल पाठ: Vairāgyaśatakam · Edition: Pdt. Durgaprasad and Kasinath Pandurang Parab, Kavyamala [old, cumulative series], vol. 1, 1886 (3rd ed., 1929), pp. 91-99. · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc