भाषा

ENहिગુ
ग्रंथ पाठ

वैराग्यशतकम् · श्लोक 81-100

81

अतिगम्भीरमनाविलमक्षोभ्यमदृष्टपारमविलङ्घ्यम् ।
अविरलतरङ्गसंकुलमैक्षिषि विज्ञानसागरं महताम्

82

घोरं भवमपहातुं केचिदघोरं प्रपद्यन्ते ।
संसरणकातराणां संशरणं शांभवी शक्तिः

83

पाशो यदि मोक्तव्यः पशुपतिरेवोपसर्तव्यः ।
न खलु व्यतिमुच्यन्ते पशवः पाशेन संबद्धाः

84

अलमलमनुभूताभिर्मातृभिरलमस्तु पितृभिश्च ।
भवितव्यं यदि नित्यवदर्थं मातुः पितुश्चास्तु

85

धन्यास्ते बहुदेवाः स्वामिनि येषां न दुर्भिक्षम् ।
जातु न जानीमो वयमेकं तं स्वामिनं पूर्णम्

86

सन्तु बृहन्तो देवाः किं तु न तान्नन्तुमीहते चेतः ।
आढ्यवदान्यन्यायादन्तकजितमेव चिन्तयेन्मनसि

87

निध्यायसि विषयसुखं न ध्यायसि विषममस्य परिपाकम् ।
बन्धुं तमेव चिन्तय बद्धुं मोक्तुं च यः क्षमते

88

सदनं गुरूपसदनं शरणं पञ्चाक्षरीपुरश्चरणम् ।
धनमभिलाषनिरोधनमन्त्याश्रमवर्तिनां पुंसाम्

89

कौ पितरौ कः पुत्रः कः स्वामी यः प्रपञ्चस्य ।
प्रत्यस्तमिते भेदे किमिदं किमिदमिति विप्रश्नः

90

स विधिर्यत्ते विदधति स प्रतिषेधो यतो निवर्तन्ते ।
सोपनिषद्यद्ब्रुवते शैवाश्रवमर्तिनो धीराः

91

त्यज संसारमसारं भज शरणं पार्वतीरमणम् ।
विश्वसिहि श्रुतिशिखरं विश्वमिदं तव निदेशकरम्

92

भव्यमभव्यं वा नः प्रलिखतु वेधाः सुदुर्मेधाः ।
सव्यमसव्यं वा नः शरणं चरणं महेशस्य

93

वेधाः कथं हरिः कथमिति तु प्रश्ने वयं मूकाः ।
शिवमेकं जानीमो न शिवादन्यं विजानीमः

94

दारुणमसिपत्त्रवनं दारुणतममन्धतामिस्रम् ।
का वा ततः क्षतिर्नः शैवा वयमा चतुर्वदनात्

95

कृतदीक्षो घोरमखे कुलकूटस्थो भरद्वाजः ।
विद्येश्वरेषु कश्चन पितामहो न इति विस्रम्भः

96

कलहः कदापि मास्त्विति कलितशरीरैक्ययोः शिवयोः ।
अहमस्म्यहमस्मीति प्राप्तः कलहो मम त्राणे

97

नरकायापि न भोगान्नराधमायापि नान्यसुरान् ।
मन्यन्ते कतिचिदमी माहेश्वरमाश्रिता योगम्

98

ज्ञातुं हातुं विषयं श्रोतुं मन्तुं गृहीतुमात्मानम् ।
वत्सा यदि न हि घटते तत्साधयताविमुक्ताय

99

सांख्यं योगं निगमा भक्तिः कर्म प्रतीतिरिति ।
एकत्र सकलमेतत्केवलमविमुक्तमेकत्र

100

बद्धः कस्ते वक्ष्यति मुक्तो मुक्तिं विजानाति ।
यास्यसि चेदविमुक्तं ज्ञास्यसि विश्वेश्वरस्य मुखात्

मूल पाठ: Vairāgyaśatakam · Edition: Pdt. Durgaprasad and Kasinath Pandurang Parab, Kavyamala [old, cumulative series], vol. 1, 1886 (3rd ed., 1929), pp. 91-99. · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc